अष्टमं मण्डलम् - सूक्तम् 19

37 ऋचः

ऋषिः: सोभरिः काण्वः देवता: अग्निः छन्दः: ककुप्

सूक्तम् 8.19 - सम्पूर्णम्

1 / 37
ऋक्: 8.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (37)
8.19.1
तं गू᳚र्धया॒ स्व᳚र्णरं दे॒वासो᳚ दे॒वम᳚र॒तिं द᳚धन्विरे ।
दे॒व॒त्रा ह॒व्यमोहि᳚रे ॥
▶ पदपाठः (Word-by-word)
तम् । गू॒र्ध॒य॒ । स्वः᳚॑नरम् । दे॒वासः᳚ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ ।
दे॒व॒॑त्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः तं प्रसिद्धमग्निं गूर्धय स्तुहि गूर्धयतिःस्तुतिकर्मा कीदृशं स्वर्णरं सर्वस्य नेतारं सर्वैर्यजमानैः कर्मादौ नीतं वा अथवा स्वर्गं प्रति हविषां नेतारं देवासः दीव्यन्ति स्तुवन्तीति देवाः ऋत्विजः देवं दानादिगुणयुक्तं अरतिम् अर्यं स्वामिनम् । यद्वा अभिप्राप्तव्यं दधन्विरे धन्वन्ति गच्छंति स्तुत्यादिभिः प्राप्रुवन्ति । धविर्गत्यर्थः । प्राप्य च तेनाग्निना देवत्रा देवान् देवमनुष्येत्यादिना द्वितीयार्थे त्रा प्रत्ययः हव्यं चरुपुरोडाशादिलक्षणं हविः आऊहिरे अभिप्रापयन्ति वहेर्यजादित्वात्सम्प्रसारणम् ॥ १ ॥

8.19.2
विभू᳚तरातिं विप्र चि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्व य॒न्तुर᳚म् ।
अ॒स्य मेध᳚स्य सो॒म्यस्य᳚ सोभरे॒ प्रेम᳚ध्व॒राय॒ पूर्व्य᳚म् ॥
▶ पदपाठः (Word-by-word)
विभू᳚त॑रातिम् । वि॒प्र॒ । चि॒त्र॑शो᳚चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर᳚म् ।
अ॒स्य । मेध᳚स्य । सो॒म्यस्य᳚ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय᳚ । पूर्व्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरात्मानं संबोध्य स्तुतौ प्रेरयति । हे विप्र मेधाविन् सोभरे एतत्संज्ञऋषे अध्वराय यागाय ईमिममग्निं प्रईळिष्व प्रस्तुहि । कीदृशं विभूत- रातिं व्याप्तधनं प्रभूतदानं वा चित्रशोचिषं चायनीयतेजस्कं विचित्रदीप्तिकं वा सोम्यस्य सोमसाध्यस्य अस्य मेधस्य यज्ञस्य यंतरं नियंतारं पूर्व्यं चिरन्तनम् ॥ २ ॥

8.19.3
यजि᳚ष्ठं त्वा ववृमहे दे॒वं दे᳚व॒त्रा होता᳚र॒मम᳚र्त्यम् ।
अ॒स्य य॒ज्ञस्य᳚ सु॒क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
यजि᳚ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒॑त्रा । होता᳚रम् । अम᳚र्त्यम् ।
अ॒स्य । य॒ज्ञस्य᳚ । सु॒॑क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यजिष्ठं यष्टृतमं त्वा ववृमहे वृणीमहे संभजामहे । कीदृशं त्वां देवत्रा देवेषु मध्ये देवं अतिशयेन दानादिगुणयुक्तं होतारं देवानामाह्वा- तारं अमर्त्यमविनाशं अस्य यज्ञस्य यागस्य सुक्रतुं सुष्ठु कर्तारम् ॥ ३ ॥

8.19.4
ऊ॒र्जो नपा᳚तं सु॒भगं᳚ सु॒दीदि᳚तिम॒ग्निं श्रेष्ठ᳚शोचिषम् ।
स नो᳚ मि॒त्रस्य॒ वरु᳚णस्य॒ सो अ॒पामा सु॒म्नं य᳚क्षते दि॒वि ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । सु॒॑भग᳚म् । सु॒॑दीदि᳚तिम् । अ॒ग्निम् । श्रेष्ठ᳚॑शोचिषम् ।
सः । नः॒ । मि॒त्रस्य᳚ । वरु᳚णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जोन्नस्य नपातं नपातयितारं यद्वा नप्तारं चतुर्थम् । हविर्लक्षणेनान्नेन आपोजायन्ते अझश्चोषधिवनस्पतयः तेभ्यएषजातइति चतुर्थत्वम् । नभ्राण्नपादिति नञःप्रकृतिभावः । सुभगं शोभनधनम् सुदीदितिं सुष्ठु दीपयितारं श्रेष्ठशोचिषं प्रशस्यतमतेजस्कं अग्निं स्तौमीतिशेषः । सता- दृशोग्निः नोस्मदर्थं दिवि द्योतमाने देवयजने द्युलोकेवा मेत्रस्य देवस्य वरुणस्यच सुम्नं सुखम् आ अभिलक्ष्य यक्षते यजतु तथा सोग्निरपामब्दे- वतानां सुम्नमभियजतु ॥ ४ ॥

8.19.5
यः स॒मिधा॒ य आहु᳚ती॒ यो वेदे᳚न द॒दाश॒ मर्तो᳚ अ॒ग्नये᳚ ।
यो नम᳚सा स्वध्व॒रः ॥
▶ पदपाठः (Word-by-word)
यः । स॒म्॑इधा᳚ । यः । आ॑हु᳚ती । यः । वेदे᳚न । द॒दाश᳚ । मर्तः᳚ । अ॒ग्नये᳚ ।
यः । नम᳚सा । सु॒॑अ॒ध्व॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं पाकयज्ञप्रशंसापरेति भगवताश्वलायनेन व्याख्याता । योमर्तोमनुष्यः समिधा पालाशादिनेध्मेन अग्नये अग्न्यर्थं ददाश परिचरति यश्च आहुती आहुत्या आज्यादिसाध्यया परिचरति यश्च वेदेन वेदाध्ययनेन ब्रह्मयज्ञेन परिचरति यश्चस्वध्वरः शोभनेनाध्वरेण ज्योतिष्टोमादिना यु- क्तःसन् नमसा अन्नेन चरुपुरोडाशादिना अग्नये ददाशः अग्न्यर्थं परिचरति तस्येदर्वन्तइत्युत्तरत्रसंबन्धः ॥ ५ ॥

8.19.6
तस्येदर्व᳚न्तो रंहयन्त आ॒शव॒स्तस्य᳚ द्यु॒म्नित᳚मं॒ यशः᳚ ।
न तमंहो᳚ दे॒वकृ᳚तं॒ कुत᳚श्च॒न न मर्त्य᳚कृतं नशत् ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । इत् । अर्व᳚न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः᳚ । तस्य᳚ । द्यु॒म्नि॑त᳚मम् । यशः᳚ ।
न । तम् । अंहः᳚ । दे॒व॑कृ᳚तम् । कुतः᳚ । च॒न । न । मर्त्य᳚॑कृतम् । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पूर्वोक्तः तस्येत् तस्यैव आशवोव्यापनशीलाः अर्वन्तःअश्वाः रंहयंते वेगंकुर्वन्ति शत्रूनूप्रसहन्तइत्यर्थः । द्युम्नितमं दीप्तिमत्तमं यशः कीर्तिश्च तस्यैवभवति यद्वा द्युम्नमिति धननाम धनवत्तमं यशोन्नंच तस्यभवति । अपिच देवकृतं देवैःकृतं अंहः पापं कुतश्चन कस्माकपि हेतोः तं न नशत् न प्राप्नोति न मर्त्यकृतं मनुष्यैः कृतम् ॥ ६ ॥

8.19.7
स्व॒ग्नयो᳚ वो अ॒ग्निभि॒ः स्याम᳚ सूनो सहस ऊर्जां पते ।
सु॒वीर॒स्त्वम᳚स्म॒युः ॥
▶ पदपाठः (Word-by-word)
सु॒॑अ॒ग्नयः᳚ । वः॒ । अ॒ग्नि॑भिः᳚ । स्याम᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।
सु॒॑वीरः᳚ । त्वम् । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसःसूनो बलस्यपुत्र अग्निर्हि बलेन मथ्यमानोजायते हे ऊर्जांपते अन्नानां हविर्लक्षणानां स्वामिन् अग्ने वः वचनव्यत्ययः तव अवयवभूतैर- ग्निभिर्गार्हपत्यादिभिर्वयं स्वग्नयः शोभनाग्निकाः स्याम भवेम । सुवीरः शोभनैः वीरैरुपेतस्त्वंच अस्मयुः अस्मान्कामयमानोभव ॥ ७ ।

8.19.8 समानपद
प्र॒शंस᳚मानो॒ अति᳚थि॒र्न मि॒त्रियो॒॑ग्नी रथो॒ न वेद्य᳚ः ।
त्वे क्षेमा᳚सो॒ अपि᳚ सन्ति सा॒धव॒स्त्वं राजा᳚ रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
प्र॒॑शंस᳚मानः । अति᳚थिः । न । मि॒त्रियः᳚ । अ॒ग्निः । रथः᳚ । न । वेद्यः᳚ ।
त्वे इति᳚ । क्षेमा᳚सः । अपि᳚ । स॒न्ति॒ । सा॒धवः᳚ । त्वम् । राजा᳚ । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रशंसमानः स्तुवन् अतिथिर्न अतिथिरिव यद्वा व्यत्ययेन कर्मणि कर्तृप्रत्ययः प्रशस्यमानः सोग्निर्मित्रियः मित्राणां स्तोतृणां हितोभवति । तथा रथोन रथइव वेद्योलंभनीयः अभीष्टफलसाधनत्वेन ज्ञातव्योवा । उत्तरोर्धर्चः प्रत्यक्षकृतः । हे अग्ने त्वे त्वयि साधवः साधकाः समीचीनाः क्षेमासो- धारणान्यपि सन्ति भवन्ति । तथा त्वं रयीणां धनानामेव राजा ईश्वरोभवसि ॥ ८ ॥

8.19.9
सो अ॒द्धा दा॒श्व᳚ध्व॒रो॑ग्ने॒ मर्त᳚ः सुभग॒ स प्र॒शंस्य᳚ः ।
स धी॒भिर᳚स्तु॒ सनि᳚ता ॥
▶ पदपाठः (Word-by-word)
सः । अ॒द्धा । दा॒शु॑अ᳚ध्वरः । अग्ने᳚ । मर्तः᳚ । सु॒॑भ॒ग॒ । सः । प्र॒॑शंस्यः᳚ ।
सः । धी॒भिः । अ॒स्तु॒ । सनि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने योमर्तोमनुष्यः दाश्वध्वरः दत्तयज्ञोभवति सः अद्धा सत्यनामैतत् तत्यफलोभवतु । हे सुभग शोभनधनाग्ने सएव प्रशंस्यः प्रशंसनीयः श्ला- घनीयश्च तथा सधीभिः कर्मभिः स्तोत्रैर्वा सनिता संभजनशीलोस्तु भवतु ॥ ९ ॥

8.19.10
यस्य॒ त्वमू॒र्ध्वो अ᳚ध्व॒राय॒ तिष्ठ᳚सि क्ष॒यद्वी᳚र॒ः स सा᳚धते ।
सो अर्व᳚द्भि॒ः सनि᳚ता॒ स वि᳚प॒न्युभि॒ः स शूरै॒ः सनि᳚ता कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय᳚ । तिष्ठ᳚सि । क्ष॒यत्॑वी᳚रः । सः । सा॒ध॒ते॒ ।
सः । अर्व᳚त्॑भिः । सनि᳚ता । सः । वि॒प॒न्यु॑भिः᳚ । सः । शूरैः᳚ । सनि᳚ता । कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य यजमानस्य अध्वराय यागनिष्पादनाय त्वमूर्ध्वउद्युक्तः सन् तिष्ठसि अवतिष्ठसे सयजमानः क्षयद्वीरः निवसद्धिरित्वरैर्वा वीरैः पुत्रादिभिरुपेतः सन् साधते सर्वकर्तव्यं साधयति । तदेव विवृणोति सतादृशोजनः अर्वद्धिरश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः अर्वद्धि- रश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः विपन्युभिः मेधाविभिः कृतंच स सनिता भवति शूरैः शौर्योपेतैर्भृत्यैः कृतंच ससनिता संभजनशी- लोभवति ॥ १० ॥

8.19.11
यस्या॒ग्निर्वपु᳚र्गृ॒हे स्तोमं॒ चनो॒ दधी᳚त वि॒श्ववा᳚र्यः ।
ह॒व्या वा॒ वेवि᳚ष॒द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अ॒ग्निः । वपुः᳚ । गृ॒हे । स्तोम᳚म् । चनः᳚ । दधी᳚त । वि॒श्व॑वा᳚र्यः ।
ह॒व्या । वा॒ । वेवि᳚षत् । विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य यजमानस्य गृहे विश्ववार्योविश्वैर्वरणीयः वपुः रूपनामैतत् रूपवान् दीप्तिमानग्निः स्तोमं स्तोत्रं चनोन्नंच हविर्लक्षणं दधीत धारयेत् । यस्यच हव्या वाशब्दः समृज्ञ्वये हव्यानि हवींषिच विषः व्याप्तान् देवान् वेविषत् प्रापयेत् विष्लुव्याप्तौ अस्माल्लेटि रूपमेतत् । सयजमानइति पूर्वत्रसंबंधः ॥ ११ ॥

8.19.12
विप्र᳚स्य वा स्तुव॒तः स᳚हसो यहो म॒क्षूत᳚मस्य रा॒तिषु᳚ ।
अ॒वोदे᳚वमु॒परि᳚मर्त्यं कृधि॒ वसो᳚ विवि॒दुषो॒ वचः᳚ ॥
▶ पदपाठः (Word-by-word)
विप्र᳚स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति᳚ । म॒क्षु॑त᳚मस्य । रा॒तिषु᳚ ।
अ॒वः॑दे᳚वम् । उ॒परि᳚॑मर्त्यम् । कृ॒धि॒ । वसो॒ इति᳚ । वि॒वि॒दुषः᳚ । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसोयहो बलस्यपुत्राग्ने विप्रस्य मेधाविनः स्तुवतः स्तोतुर्वा रातिषु हविर्दानेषु मक्षुतमस्य शीघ्रतमस्य यष्टुर्वा विविदुषोज्ञातव्यस्य अभिज्ञस्य वचोवचनं हे वसो वासकाग्ने अवोदेवं देवानामवस्तात् । उपरिमर्त्यं मर्त्यानामुपरिष्टाच्व कृधि कुरु सर्वं नभःप्रदेशं व्यापयेतियावत् ॥ १२ ॥

8.19.13
यो अ॒ग्निं ह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वा सु॒दक्ष᳚मा॒विवा᳚सति ।
गि॒रा वा᳚जि॒रशो᳚चिषम् ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्निम् । ह॒व्यदा᳚ति॑भिः । नमः᳚॑भिः । वा॒ । सु॒॑दक्ष᳚म् । आ॒॑विवा᳚सति ।
गि॒रा । वा॒ । अ॒जि॒र॑शो᳚चिषम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः हव्यदातिभिः हविषां दानैर्नमस्कारैर्वा सुदक्षं शोभनबलमग्निं आविवासति परिचरति गिरावा स्तुत्या वा अजिरशोचिषं क्षिप्रगा- मितेजस्कं तमग्निं परिचरति सः समृद्धोभवतीतिशेषः ॥ १३ ॥

8.19.14
स॒मिधा॒ यो निशि᳚ती॒ दाश॒ददि᳚तिं॒ धाम᳚भिरस्य॒ मर्त्य᳚ः ।
विश्वेत्स धी॒भिः सु॒भगो॒ जना{4}॒ अति᳚ द्यु॒म्नैरु॒द्न इ᳚व तारिषत् ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इधा᳚ । यः । नि॑शि᳚ती । दाश᳚त् । अदि᳚तिम् । धाम᳚॑भिः । अ॒स्य॒ । मर्त्यः᳚ ।
विश्वा᳚ । इत् । सः । धी॒भिः । सु॒॑भगः᳚ । जना᳚न् । अति᳚ । द्यु॒म्नैः । उ॒द्नः॑इ᳚व । ता॒रि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमर्त्योमनुष्यः अस्याग्नेर्धामभिः शरीरैः गार्हपत्यादिरूपेण विभज्य वर्तमानैः सार्ध अदितिं अखंडनीयं तमेवाग्निं निशिती निशित्या निशान- साधनया प्रज्वलनहेतुभूतया समिधा दाशत् परिचरेत् । सोग्निः धीभिः कर्मभिर्बुद्धिविशेषैर्वा सुभगः सन् विश्वेत् सर्वानेव जनान् द्युम्रैर्द्योतमानैरन्नै- र्यशोभिर्वा उद्गइव उदकानीव अतितारिषत् अतितरेत् अतिक्रामेत् ॥ १४ ॥

8.19.15
तद᳚ग्ने द्यु॒म्नमा भ᳚र॒ यत्सा॒सह॒त्सद᳚ने॒ कं चि᳚द॒त्रिण᳚म् ।
म॒न्युं जन᳚स्य दू॒ढ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह᳚त् । सद᳚ने । कम् । चि॒त् । अ॒त्रिण᳚म् ।
म॒न्युम् । जन᳚स्य । दुः॒॑ध्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तत् द्युम्नं आभरास्मभ्यमाहर यत्सदने गृहे वर्तमानं कंचित्कमपि अत्रिणमत्तारं राक्षसादिकं सासहत् अत्यर्थमभिभवेत् । तथा दूढचः दुर्धियः पापबुद्धेः शत्रुजनस्य मन्युं क्रोधं यज्व द्युम्नमभिभवेत् तदाहरेत्यन्वयः । ध्यैचेति पृषोदरादिपाठात् दुरोरेफस्य उत्वम् र्त्तरपदादेष्टुत्वंच ॥ १५ ॥

8.19.16
येन॒ चष्टे॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा येन॒ नास᳚त्या॒ भगः᳚ ।
व॒यं तत्ते॒ शव᳚सा गातु॒वित्त᳚मा॒ इन्द्र᳚त्वोता विधेमहि ॥
▶ पदपाठः (Word-by-word)
येन᳚ । चष्टे᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । येन᳚ । नास᳚त्या । भगः᳚ ।
व॒यम् । तत् । ते॒ । शव᳚सा । गा॒तु॒वित्॑त᳚माः । इन्द्र᳚त्वा॑ऊताः । वि॒धे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येनाग्नेयेन तेजसा वरुणोदेवः चष्टे प्रकाशयति येनच मित्रः अर्यमा च चष्टे येनच नासत्याश्विनौच चक्षाते भगोभजनीयएतत्संज्ञोदेवश्च चष्टे । शवसा बलेन गातुवित्तमाः गातोर्गातव्यस्य स्तोत्रस्य ज्ञातृतमाः । यद्वा गंतव्यस्य प्राप्तव्यस्य लब्धतमाः इन्द्रत्वोताः इन्द्रेण ईश्वरेण त्वया ऊतार- क्षिताः संतोवयं हे अग्ने ते त्वदीयं तव तेजः विधेमहि परिचरेमहि ॥ १६ ॥

8.19.17
ते घेद᳚ग्ने स्वा॒ध्यो॒३॒᳚ ये त्वा᳚ विप्र निदधि॒रे नृ॒चक्ष᳚सम् ।
विप्रा᳚सो देव सु॒क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒॑आ॒ध्यः᳚ । ये । त्वा॒ । वि॒प्र॒ । नि॒॑द॒धि॒रे । नृ॒॑चक्ष᳚सम् ।
विप्रा᳚सः । दे॒व॒ । सु॒॑क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तेघेत् तएवखलु स्वाध्यः शोभनाध्यानाभवन्ति हे विप्र मेधाविन् देवद्योतमानाग्ने ये विप्रासोविप्राः मेधाविनऋत्विजः नृचक्षसं नृणां चेष्टारं सुक्रतुं सुकर्माणं शोभनप्रज्ञं वा त्वा त्वां निदधिरे निदधति यागार्थं गार्हपत्यादिस्थानेषु आधानसंस्कारेण स्थापयन्ति तेघेदित्यन्वयः ॥ १७ ॥

8.19.18 समानपद
त इद्वेदिं᳚ सुभग॒ त आहु᳚तिं॒ ते सोतुं᳚ चक्रिरे दि॒वि ।
त इद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं᳚ न्येरि॒रे ॥
▶ पदपाठः (Word-by-word)
ते । इत् । वेदि᳚म् । सु॒॑भ॒ग॒ । ते । आ॑हु᳚तिम् । ते । सोतु᳚म् । च॒क्रि॒रे॒ । दि॒वि ।
ते । इत् । वाजे᳚भिः । जि॒ग्युः॒ । म॒हत् । धन᳚म् । ये । त्वे इति᳚ । काम᳚म् । नि॒॑ए॒रि॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुभग शोभनधनाग्ने तइत् तएव यजमानाः त्वद्यागाय वेदिं चक्रिरे कुर्वन्ति तदनन्तरं ते यजमानाः आहुतिं चरुपुरोडाशादिसाध्यां दीक्षणीया- दिषु कुर्वन्ति । ततः दिवि द्योतमाने सौत्येहनि सोतुं सोममभिषोतुं चक्रिरे उद्योगं कुर्वन्ति । अनुष्ठितयज्ञास्तइत् तएव वाजेभिर्वाजैः बलैः महत्प्र- भूतं धनं जिग्युर्जयन्ति शत्रुभ्योलभन्ते कुतइत्यतआह ये यजमानाः हे अग्ने त्वे त्वयि कामं अभिलाषं न्योरिरे नितरांगच्छन्ति त्वामादरातिशयेन स्तुवन्तीत्यर्थः ॥ १८ ॥

8.19.19
भ॒द्रो नो᳚ अ॒ग्निराहु᳚तो भ॒द्रा रा॒तिः सु᳚भग भ॒द्रो अ᳚ध्व॒रः ।
भ॒द्रा उ॒त प्रश᳚स्तयः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रः । नः॒ । अ॒ग्निः । आ॑हु᳚तः । भ॒द्रा । रा॒तिः । सु॒॑भ॒ग॒ । भ॒द्रः । अ॒ध्व॒रः ।
भ॒द्राः । उ॒त । प्र॑श᳚स्तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आहुतोहविर्भिस्तर्पितोग्निः नोस्माकं भद्रः कल्याणोभवतु हे सुभग शोभनधनाग्ने भद्रा कल्याणी रातिः दानं चास्मकं भवतु भद्रः कल्याणोध्वरो- यागश्च भवतु उतापिच भद्राः कल्याण्यः प्रशस्तयः प्रशंसाः स्तुतयश्च भवन्तु ॥ १९ ॥

8.19.20
भ॒द्रं मनः᳚ कृणुष्व वृत्र॒तूर्ये॒ येना᳚ स॒मत्सु᳚ सा॒सहः᳚ ।
अव᳚ स्थि॒रा त᳚नुहि॒ भूरि॒ शर्ध᳚तां व॒नेमा᳚ ते अ॒भिष्टि᳚भिः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । मनः᳚ । कृ॒णु॒ष्व॒ । वृ॒त्र॒॑तूर्ये᳚ । येन᳚ । स॒मत्॑सु᳚ । स॒सहः᳚ ।
अव᳚ । स्थि॒रा । त॒नु॒हि॒ । भूरि᳚ । शर्ध᳚ताम् । व॒नेम᳚ । ते॒ । अ॒भिष्टि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वृत्रतूर्ये संग्रामे भद्रं शोभनं मनः कृणष्वास्माकं कुरु । येन मनसा त्वं समत्सु संग्रामेषु सासहः भृशं शत्रूनभिभवसि अपिच शर्धतामभिभ- वतां शत्रूणां भूरि भूरीणि बहूनि स्थिरा स्थिराणि दृढान्यपि अवतनुहि अवांचि कुरु पराजितानि कुर्वित्यर्थः । वयं चाभिष्टिभिरभ्येषणसाधनैर्हवि- विर्भिः स्तोत्रैश्च तेत्वां वनेम संभजेमहि । यद्वा ते तव प्रसादात् अभिष्टिभिरभीष्टैः फलैः वनेम संगच्छेमहि ॥ २० ॥

8.19.21
ईळे᳚ गि॒रा मनु᳚र्हितं॒ यं दे॒वा दू॒तम᳚र॒तिं न्ये᳚रि॒रे ।
यजि᳚ष्ठं हव्य॒वाह᳚नम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । गि॒रा । मनुः᳚॑हितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒॑ए॒रि॒रे ।
यजि᳚ष्ठम् । ह॒व्य॒॑वाह᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरा वाचा स्तुतिरूपया मनुर्हितं मनुना प्रजापतिना यजमानेन आहितं तमग्निं ईळे स्तौमि । कीदृर्श यजिष्ठं यष्टृतमं हव्यवाहनं हविषां वोढारं अरतिं अर्यं ईश्वरं वा दूतं देवानां दूत्येवर्तमानं यमग्निं देवान्येरिरे नितरां प्रेरयन्ति ॥ २१ ॥

8.19.22
ति॒ग्मज᳚म्भाय॒ तरु᳚णाय॒ राज᳚ते॒ प्रयो᳚ गायस्य॒ग्नये᳚ ।
यः पिं॒शते᳚ सू॒नृता᳚भिः सु॒वीर्य᳚म॒ग्निर्घृ॒तेभि॒राहु᳚तः ॥
▶ पदपाठः (Word-by-word)
ति॒ग्म॑ज᳚म्भाय । तरु᳚णाय । राज᳚ते । प्रयः᳚ । गा॒य॒सि॒ । अ॒ग्नये᳚ ।
यः । पिं॒शते᳚ । सू॒नृता᳚भिः । सु॒॑वीर्य᳚म् । अ॒ग्निः । घृ॒तेभिः᳚ । आ॑हु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तिग्मजंभाय तीक्ष्णज्वालाय तरुणाय नित्ययूने जरामरणरहिताय राजते राजमानायाग्नये प्रयोहविर्लक्षणमन्नं गायसि हे स्तोतः प्रवृद्धिं प्रयच्छेत्य- र्थः । योग्निः सूनृताभिः प्रियसत्यात्मिकाभिः वाग्भिः स्तुतोघृतेभिर्घृतैराज्यैराहुतोभिहुतश्चसन् सुवीर्यं शोभनवीर्यं पिंशते आश्लेषयति स्तोतृभिः सं- योजयति पिशअवयवे तस्माअग्नयेइत्यन्वयः ॥ २२ ॥

8.19.23
यदी᳚ घृ॒तेभि॒राहु᳚तो॒ वाशी᳚म॒ग्निर्भर᳚त॒ उच्चाव᳚ च ।
असु᳚र इव नि॒र्णिज᳚म् ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । घृ॒तेभिः᳚ । आ॑हु᳚तः । वाशी᳚म् । अ॒ग्निः । भर᳚ते । उत् । च॒ । अव᳚ । च॒ ।
असु᳚रः॑इव । निः॒॑निज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृतेभिर्घृतैराहुतोभिहुतोयमग्निः यदि यदा यस्मिन्काले वाशीं वाङ्ममैतत् वाचं शब्दं उज्चऊर्ध्वं च अवच अवाक्च भरते संपाकयति । यद्वा वाशीं वाशनशीलां शब्दकारिणीं ज्वालां उद्धरते उद्धरति उद्गमयत्यूर्ध्वमुखं अवच भरते अवाङ्मुखंच हरत्युपसंहरति । आसुरइव रश्मीनां क्षेप्ता सूर्योय- था निर्णिजं आत्मीयं रूपं उपरितनेषु लोकेषु प्रकाशतयोद्गमयति अधस्तनेषुच अवाङ्मुखं गमयति तद्वत् उज्वनीचभावनयाग्निस्तेजउद्गमयति तं स्तुमइति शेषः ॥ २३ ॥

8.19.24
यो ह॒व्यान्यैर᳚यता॒ मनु᳚र्हितो दे॒व आ॒सा सु᳚ग॒न्धिना᳚ ।
विवा᳚सते॒ वार्या᳚णि स्वध्व॒रो होता᳚ दे॒वो अम᳚र्त्यः ॥
▶ पदपाठः (Word-by-word)
यः । ह॒व्यानि᳚ । ऐर᳚यत । मनुः᳚॑हितः । दे॒वः । आ॒सा । सु॒॑ग॒न्धिना᳚ ।
विवा᳚सते । वार्या᳚णि । सु॒॑अ॒ध्व॒रः । होता᳚ । दे॒वः । अम᳚र्त्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमनुर्हितोमनुना प्रजापतिना आहितोदेवोद्योतमानोग्निः सुगंधिना शोभनगंधयुक्तेन आसा आस्येन हव्यान्यस्मदीयानि हवींषि ऎरयत देवान्प्रति प्रेरयति स्वध्वरः शोभनयज्ञः होता देवानामाह्वाता देवोदीप्यमानः अमर्त्योमरणरहितः सोग्निः वार्याणि वरणीयानि धनानि विवासते परिचरते यजमानाय प्रयच्छतीतिशेषः ॥ २४ ॥

8.19.25
यद᳚ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि᳚त्रमहो॒ अम᳚र्त्यः ।
सह᳚सः सूनवाहुत ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । मर्त्यः᳚ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒॑म॒हः॒ । अम᳚र्त्यः ।
सह᳚सः । सू॒नो॒ इति᳚ । आ॒॑हु॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्यपुत्र आहुत घृतैरभिहुत हे मित्रमहःअनुकूलदीप्तिमन् अग्ने मर्त्योमरणधमर्माहं यद्यदि त्वंस्यां त्वदुपासनया त्वद्रूपमापन्नोभवेयम् । ये यथा यथोपासते ते तदेव भवन्तीतिश्रुतेः । तर्ह्चहं अमर्त्योमरणधर्मरहितोदेवएव भवेयमिति ॥ २५ ॥

8.19.26
न त्वा᳚ रासीया॒भिश᳚स्तये वसो॒ न पा᳚प॒त्वाय᳚ सन्त्य ।
न मे᳚ स्तो॒ताम᳚ती॒वा न दुर्हि᳚त॒ः स्याद᳚ग्ने॒ न पा॒पया᳚ ॥
▶ पदपाठः (Word-by-word)
न । त्वा॒ । रा॒सी॒य॒ । अ॒भि॑श᳚स्तये । व॒सो॒ इति᳚ । न । पा॒प॒॑त्वाय᳚ । स॒न्त्य॒ ।
न । मे॒ । स्तो॒ता । अ॒म॒ति॒॑वा । न । दुः॑हि᳚तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासकाग्ने त्वा त्वां अभिशस्तये अभिशंसनाय मिथ्यापवादाय हिंसायैच न रासीय नाक्रोशयेयम् । रासृशब्दे हे सन्त्य संभजनीयाग्ने पापव- त्वाय त्वां न रासीय मे मदीयः स्तोताच अनभिमतवचनेन त्वां नाक्रोशयतु अतएव अमतीवा अमतिरशोभनाबुद्धिस्तद्वान् अपिच दुर्हितः शत्रुः हे अग्ने अस्माकं नस्यात् न भवतु अतएव पापया अशोभनया बुद्या सनबाधताम् ॥ २६ ॥

8.19.27
पि॒तुर्न पु॒त्रः सुभृ᳚तो दुरो॒ण आ दे॒वा{4} ए᳚तु॒ प्र णो᳚ ह॒विः ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । न । पु॒त्रः । सु॑भृ᳚तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितुर्न पुत्रः पितुः पुत्रइव अस्माकं सुभृतः सुष्ठु भर्ता । यद्वा पित्रा पुत्रइव अस्माभिः सम्यग्भृतः हविर्भिः पोषितोयमग्निः पुत्रइव अस्माकं सुभृतः दुरोणे यज्ञगृहे देवान् आ अभिलक्ष्य नोस्माकं हविः प्रैतु प्रगमयतु यद्वा । अग्निरैत्वागच्छतु अस्मदीयं हविश्च देवान्प्राप्नोतु ॥ २७ ॥

8.19.28
तवा॒हम᳚ग्न ऊ॒तिभि॒र्नेदि᳚ष्ठाभिः सचेय॒ जोष॒मा व᳚सो ।
सदा᳚ दे॒वस्य॒ मर्त्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । अ॒हम् । अ॒ग्ने॒ । ऊ॒ति॑भिः᳚ । नेदि᳚ष्ठाभिः । स॒चे॒य॒ । जोष᳚म् । आ । व॒सो॒ इति᳚ ।
सदा᳚ । दे॒वस्य᳚ । मर्त्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासकाग्ने नेदिष्ठाभिरन्तिकतमाभीः ऋजुगामिनीभिर्वा देवस्य तवोतिभीरक्षाभिः मर्त्योमनुष्योहं स्तोता सदा सर्वदा जोषमासचेय प्रीतिमभिसेवेय ॥ २८ ॥

8.19.29
तव॒ क्रत्वा᳚ सनेयं॒ तव᳚ रा॒तिभि॒रग्ने॒ तव॒ प्रश᳚स्तिभिः ।
त्वामिदा᳚हु॒ः प्रम᳚तिं वसो॒ ममाग्ने॒ हर्ष᳚स्व॒ दात᳚वे ॥
▶ पदपाठः (Word-by-word)
तव᳚ । क्रत्वा᳚ । स॒ने॒य॒म् । तव᳚ । रा॒ति॑भिः᳚ । अग्ने᳚ । तव᳚ । प्रश᳚स्ति॑भिः ।
त्वाम् । इत् । आ॒हुः॒ । प्र॑म᳚तिम् । व॒सो॒ इति᳚ । मम᳚ । अ॒ग्ने॒ । हर्ष᳚स्व । दात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तव क्रत्वा त्वदीयेन परिचरणरूपेण कर्मणा सनेयं त्वां संभजेयम् एतदेवविशदयति तव रातिभिस्त्वदीयैर्हविर्दानैश्च सनेयं तथा तव प्रश- स्तिभिः प्रशंसनैः स्तोत्रैश्च त्वां संभजेयम् अस्यैव संभजने किंकारणं तदाह । हे वसो वासकाग्ने मम स्तोतुः प्रमतिं प्रकृष्टबुद्धिं रक्षकं त्वामित् त्वामेव आहुः ब्रह्मवादिनः कथयन्ति अतः हे अग्ने दातवे दातुं हर्षस्व हृष्टोभव हर्षयुक्तः सन् बहुधनं प्रयच्छेत्यर्थः ॥ २९ ॥

8.19.30
प्र सो अ᳚ग्ने॒ तवो॒तिभि᳚ः सु॒वीरा᳚भिस्तिरते॒ वाज᳚भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सः । अ॒ग्ने॒ । तव᳚ । ऊ॒ति॑भिः᳚ । सु॒॑वीरा᳚भिः । ति॒र॒ते॒ । वाज᳚भर्म॑भिः ।
यस्य᳚ । त्वम् । स॒ख्यम् । आ॒॑वरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तवोतिभीरक्षाभिः सयजमानः प्रतिरते प्रवर्धते । ऊतयोविशेष्यन्ते सुवीराभिः शोभनावीराःपुत्रादयोयासु तास्तथोक्ताःवाजभर्मभिःवाजाना- मन्नानां बलानां वा भर्म भरणं यासु तादृशीभिः हे अग्ने त्वं यस्य यजमानस्य सख्यं सखित्वं मित्रत्वं आवरः अभिवृणोषि सतिरतइत्यन्वयः ॥ ३० ॥

8.19.31
तव᳚ द्र॒प्सो नील᳚वान्वा॒श ऋ॒त्विय॒ इन्धा᳚नः सिष्ण॒वा द᳚दे ।
त्वं म᳚ही॒नामु॒षसा᳚मसि प्रि॒यः क्ष॒पो वस्तु᳚षु राजसि ॥
▶ पदपाठः (Word-by-word)
तव᳚ । द्र॒प्सः । नील᳚॑वान् । वा॒शः । ऋ॒त्वियः᳚ । इन्धा᳚नः । सि॒ष्णो॒ इति᳚ । आ । द॒दे॒ ।
त्वम् । म॒ही॒नाम् । उ॒षसा᳚म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु᳚षु । रा॒ज॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सिष्णो सिषिः सेचनार्थः सोमेनासिच्यमानाग्ने द्रप्सोद्रवणशीलः नीलवान् शकटनीडेवस्थानात्तद्वान् वाशः कान्तः शब्दायमानोवा ऋत्वियःऋतौ वसन्तादिकालविशेषे भवः इन्धानः संदीपयन् एवंभूतः तव सोमःआददे तुभ्यं होमायाध्वर्युणा आदीयते । अपिच त्वं महीनां महतीनामुषसां प्रियो- मित्रभूतोसि उषसि हि अग्नयोहोमाय प्रज्वाल्यन्ते । तथा क्षपः क्षपायारात्रेः संबंधिषु वस्तुषु राजसि प्रकाशसे । यद्वा रात्रिसंबंधीनि वस्तूनि पदार्थ- जातानि त्वं प्रकाशयसि ॥ ३१ ॥

8.19.32
तमाग᳚न्म॒ सोभ᳚रयः स॒हस्र᳚मुष्कं स्वभि॒ष्टिमव᳚से ।
स॒म्राजं॒ त्रास᳚दस्यवम् ॥
▶ पदपाठः (Word-by-word)
तम् । आ । अ॒ग॒न्म॒ । सोभ᳚रयः । स॒हस्र᳚॑मुष्कम् । सु॒॑अ॒भि॒ष्टिम् । अव᳚से ।
स॒म्॑राज᳚न् । त्रास᳚दस्यवम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोभरयः ऋषयोवयं अवसे रक्षणाय तमग्निं आगन्म हविर्भिः स्तुतिभिश्च प्राप्ताअभूम । कीदृशं सहस्त्रमुष्कं मुष्णन्ति तमांस्यपहरन्तीति मुष्कानि तेजांसि बहुतेजस्कं स्वभिष्टिं शोभनाभ्येषणं सम्राजं सम्यग्राजमानं त्रासदस्यवं त्रसदस्युर्नाम राजर्षिः तस्य स्तोतव्यत्वेन संबंधिनम् ॥ ३२ ॥

8.19.33
यस्य᳚ ते अग्ने अ॒न्ये अ॒ग्नय᳚ उप॒क्षितो᳚ व॒या इ᳚व ।
विपो॒ न द्यु॒म्ना नि यु᳚वे॒ जना᳚नां॒ तव᳚ क्ष॒त्राणि᳚ व॒र्धय᳚न् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः᳚ । उ॒प॒॑क्षितः᳚ । व॒याः॑इ᳚व ।
विपः᳚ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना᳚नाम् । तव᳚ । क्ष॒त्राणि᳚ । व॒र्धय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य ते तव अन्ये अग्रयः वयाइव वृक्षस्य शाखाइव उपक्षितः समीपे निवसन्तोभवन्ति जनानां जनिमतां मनुष्याणां मध्ये अहं तस्य तव क्षत्राणि बलानि स्तुत्या वर्धयन् विपोन स्तोतृनामैतत् अन्ये स्तोतारइव द्युम्ना द्योतमानानि अन्नानि यशांसि वा नियुवे नितरां प्राप्नोमि त्वत्प्रसा- दाल्लभेयमित्यर्थः ॥ ३३ ॥

8.19.34
यमा᳚दित्यासो अद्रुहः पा॒रं नय᳚थ॒ मर्त्य᳚म् ।
म॒घोनां॒ विश्वे᳚षां सुदानवः ॥
▶ पदपाठः (Word-by-word)
यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय᳚थ । मर्त्य᳚म् ।
म॒घोना᳚म् । विश्वे᳚षाम् । सु॒॑दा॒न॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रुहः अद्रोग्धारः हे सुदानवः हे आदित्यासः अदितेः पुत्रामित्रादयः मघोनां हविष्मतां विश्वेषां सर्वेषां मध्ये यं मर्त्यं मनुष्यं यजमानं पारं नयथ आरब्धस्य कर्मणः समाप्तिं प्रापयथ सतत्फलं लभतइत्यर्थः ॥ ३४ ॥

8.19.35
यू॒यं रा᳚जान॒ः कं चि᳚च्चर्षणीसह॒ः क्षय᳚न्तं॒ मानु᳚षा{4}॒ अनु᳚ ।
व॒यं ते वो॒ वरु᳚ण॒ मित्रार्य᳚म॒न्त्स्यामेदृ॒तस्य᳚ र॒थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒॑स॒हः॒ । क्षय᳚न्तम् । मानु᳚षान् । अनु᳚ ।
व॒यम् । ते । वः॒ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् । स्याम᳚ । इत् । ऋ॒तस्य᳚ । र॒थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजानोराजमानाः हे चर्षणीसहः शत्रुभूतानामभिभवितारः आदित्याः यूयं मानुषाँअनु मनुष्यान्यजमानाननुलक्ष्य क्षयन्तं क्षपयन्तं कंचित्कमपि शत्रुं सर्वमपि शत्रुवर्गं अभिभवथेतिशेषः । यद्वा मनुष्येषु यजमानेषु क्षयन्तं स्तुतीनामीश्वरं कंचित्कमपिस्तोतारं मा यूयंगच्छत । हे वरुण हे मित्र हे अर्यमन् ते तादृशावयं वोयुष्माकं संबंधिनः ऋतस्य यज्ञस्य रथ्यः स्याम नेतारोभवेम ॥ ३५ ॥

8.19.36
अदा᳚न्मे पौरुकु॒त्स्यः प᳚ञ्चा॒शतं᳚ त्र॒सद᳚स्युर्व॒धूना᳚म् ।
मंहि᳚ष्ठो अ॒र्यः सत्प᳚तिः ॥
▶ पदपाठः (Word-by-word)
अदा᳚त् । मे॒ । पौ॒रु॒॑कु॒त्स्यः । प॒ञ्चा॒शत᳚म् । त्र॒सद᳚स्युः । व॒धूना᳚म् ।
मंहि᳚ष्ठः । अ॒र्यः । सत्॑प᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिकेन प्रगाथेन त्रसदस्योर्दानमृषिः प्रशंसति । पौरुकुत्स्यः पुरुकुत्सपुत्रस्त्रसदस्युः मे मःह्चं वधूनां पञ्चाशतं अदात् दत्तवान् । कीदृशः मंहिष्ठो- दातृतमः अर्यः अभिगंतव्यः स्वामीवा सत्पतिः सतां श्रेष्ठानां स्तोतृणां पालयिता ॥ ३६ ॥

8.19.37
उ॒त मे᳚ प्र॒यियो᳚र्व॒यियो᳚ः सु॒वास्त्वा॒ अधि॒ तुग्व᳚नि ।
ति॒सॄ॒णां स᳚प्तती॒नां श्या॒वः प्र᳚णे॒ता भु᳚व॒द्वसु॒र्दिया᳚नां॒ पति᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । मे॒ । प्र॒यियोः᳚ । व॒यियोः᳚ । सु॒॑वास्त्वाः᳚ । अधि᳚ । तुग्व᳚नि ।
ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒॑ने॒ता । भु॒व॒त् । वसुः᳚ । दिया᳚नाम् । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्येतत् यदुक्तं अपि यदेतत् वक्ष्यमाणं इत्युतशब्दः एवमुभयंतं संभावयति मेमह्चं प्रयियोः प्रयायते प्रगम्यते येन तत्प्रयियुर्धनमश्वादि तस्य प्रयि- योर्धनस्य बह्वदात् । ताभिः कन्याभिः सह वयियोः ऊयते येन तद्वयियु वस्त्रादि तस्यच बह्वदात् । तिसृणां सप्ततीनां गवां श्यावः श्यामवर्णोवृषः श्यामवर्णानां प्रणेता प्रकर्षेणनेता अग्रतोगामी भुवद्वसुः भावयिता वसूनाम् प्रशस्तः पूजितलक्षणः दियानां दानार्हाणां गवांपतिः ताश्च गाएतत्सं- ख्यायुक्ताः एतद्गुणयुक्ताश्च मत्द्यमदात् क्वपुनरसावदात् सुवास्त्वाः सुष्ठु निवासायानद्याः अधितुग्वनि तीर्थेधि एतददात् मत्द्यम् । सुवास्तुर्नामनदी तुग्वतीर्थं भवतीति निरुक्तम् । अस्याऋचोव्याख्यानं निरुक्तटीकायाउद्धतम् ॥ ३७ ॥

आगंतेति षड्विंशर्चमष्टमं सूक्तम् काण्वस्य सोभरेरार्षम् मारुतं प्रथमाद्यायुजः ककुभः द्वितीयादियुजः सतोबृहत्यः अनुक्रम्यतेहि-आगन्तषड्बिंश- तिर्मारुतमिति । गतोविनियोगः ।