ति॒ग्मज᳚म्भाय॒ तरु᳚णाय॒ राज᳚ते॒ प्रयो᳚ गायस्य॒ग्नये᳚ ।
यः पिं॒शते᳚ सू॒नृता᳚भिः सु॒वीर्य᳚म॒ग्निर्घृ॒तेभि॒राहु᳚तः ॥
यः पिं॒शते᳚ सू॒नृता᳚भिः सु॒वीर्य᳚म॒ग्निर्घृ॒तेभि॒राहु᳚तः ॥
पदपाठः (Word-by-word)
ति॒ग्म॑ज᳚म्भाय । तरु᳚णाय । राज᳚ते । प्रयः᳚ । गा॒य॒सि॒ । अ॒ग्नये᳚ ।
यः । पिं॒शते᳚ । सू॒नृता᳚भिः । सु॒॑वीर्य᳚म् । अ॒ग्निः । घृ॒तेभिः᳚ । आ॑हु᳚तः ॥
यः । पिं॒शते᳚ । सू॒नृता᳚भिः । सु॒॑वीर्य᳚म् । अ॒ग्निः । घृ॒तेभिः᳚ । आ॑हु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
तिग्मजंभाय तीक्ष्णज्वालाय तरुणाय नित्ययूने जरामरणरहिताय राजते राजमानायाग्नये प्रयोहविर्लक्षणमन्नं गायसि हे स्तोतः प्रवृद्धिं प्रयच्छेत्य- र्थः । योग्निः सूनृताभिः प्रियसत्यात्मिकाभिः वाग्भिः स्तुतोघृतेभिर्घृतैराज्यैराहुतोभिहुतश्चसन् सुवीर्यं शोभनवीर्यं पिंशते आश्लेषयति स्तोतृभिः सं- योजयति पिशअवयवे तस्माअग्नयेइत्यन्वयः ॥ २२ ॥