पि॒तुर्न पु॒त्रः सुभृ᳚तो दुरो॒ण आ दे॒वा{4} ए᳚तु॒ प्र णो᳚ ह॒विः ॥
पदपाठः (Word-by-word)
पि॒तुः । न । पु॒त्रः । सु॑भृ᳚तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥
सायणभाष्यम् (Sayana Commentary)
पितुर्न पुत्रः पितुः पुत्रइव अस्माकं सुभृतः सुष्ठु भर्ता । यद्वा पित्रा पुत्रइव अस्माभिः सम्यग्भृतः हविर्भिः पोषितोयमग्निः पुत्रइव अस्माकं सुभृतः दुरोणे यज्ञगृहे देवान् आ अभिलक्ष्य नोस्माकं हविः प्रैतु प्रगमयतु यद्वा । अग्निरैत्वागच्छतु अस्मदीयं हविश्च देवान्प्राप्नोतु ॥ २७ ॥