श्रवणम्

8.19.10
यस्य॒ त्वमू॒र्ध्वो अ᳚ध्व॒राय॒ तिष्ठ᳚सि क्ष॒यद्वी᳚र॒ः स सा᳚धते ।
सो अर्व᳚द्भि॒ः सनि᳚ता॒ स वि᳚प॒न्युभि॒ः स शूरै॒ः सनि᳚ता कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय᳚ । तिष्ठ᳚सि । क्ष॒यत्॑वी᳚रः । सः । सा॒ध॒ते॒ ।
सः । अर्व᳚त्॑भिः । सनि᳚ता । सः । वि॒प॒न्यु॑भिः᳚ । सः । शूरैः᳚ । सनि᳚ता । कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य यजमानस्य अध्वराय यागनिष्पादनाय त्वमूर्ध्वउद्युक्तः सन् तिष्ठसि अवतिष्ठसे सयजमानः क्षयद्वीरः निवसद्धिरित्वरैर्वा वीरैः पुत्रादिभिरुपेतः सन् साधते सर्वकर्तव्यं साधयति । तदेव विवृणोति सतादृशोजनः अर्वद्धिरश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः अर्वद्धि- रश्वैः कृतं निष्पादितं जयादिकं सतादृशोजनः विपन्युभिः मेधाविभिः कृतंच स सनिता भवति शूरैः शौर्योपेतैर्भृत्यैः कृतंच ससनिता संभजनशी- लोभवति ॥ १० ॥