श्रवणम्

8.19.28
तवा॒हम᳚ग्न ऊ॒तिभि॒र्नेदि᳚ष्ठाभिः सचेय॒ जोष॒मा व᳚सो ।
सदा᳚ दे॒वस्य॒ मर्त्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । अ॒हम् । अ॒ग्ने॒ । ऊ॒ति॑भिः᳚ । नेदि᳚ष्ठाभिः । स॒चे॒य॒ । जोष᳚म् । आ । व॒सो॒ इति᳚ ।
सदा᳚ । दे॒वस्य᳚ । मर्त्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासकाग्ने नेदिष्ठाभिरन्तिकतमाभीः ऋजुगामिनीभिर्वा देवस्य तवोतिभीरक्षाभिः मर्त्योमनुष्योहं स्तोता सदा सर्वदा जोषमासचेय प्रीतिमभिसेवेय ॥ २८ ॥