श्रवणम्

8.19.18 समानपद
त इद्वेदिं᳚ सुभग॒ त आहु᳚तिं॒ ते सोतुं᳚ चक्रिरे दि॒वि ।
त इद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं᳚ न्येरि॒रे ॥
▶ पदपाठः (Word-by-word)
ते । इत् । वेदि᳚म् । सु॒॑भ॒ग॒ । ते । आ॑हु᳚तिम् । ते । सोतु᳚म् । च॒क्रि॒रे॒ । दि॒वि ।
ते । इत् । वाजे᳚भिः । जि॒ग्युः॒ । म॒हत् । धन᳚म् । ये । त्वे इति᳚ । काम᳚म् । नि॒॑ए॒रि॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुभग शोभनधनाग्ने तइत् तएव यजमानाः त्वद्यागाय वेदिं चक्रिरे कुर्वन्ति तदनन्तरं ते यजमानाः आहुतिं चरुपुरोडाशादिसाध्यां दीक्षणीया- दिषु कुर्वन्ति । ततः दिवि द्योतमाने सौत्येहनि सोतुं सोममभिषोतुं चक्रिरे उद्योगं कुर्वन्ति । अनुष्ठितयज्ञास्तइत् तएव वाजेभिर्वाजैः बलैः महत्प्र- भूतं धनं जिग्युर्जयन्ति शत्रुभ्योलभन्ते कुतइत्यतआह ये यजमानाः हे अग्ने त्वे त्वयि कामं अभिलाषं न्योरिरे नितरांगच्छन्ति त्वामादरातिशयेन स्तुवन्तीत्यर्थः ॥ १८ ॥