श्रवणम्

8.19.12
विप्र᳚स्य वा स्तुव॒तः स᳚हसो यहो म॒क्षूत᳚मस्य रा॒तिषु᳚ ।
अ॒वोदे᳚वमु॒परि᳚मर्त्यं कृधि॒ वसो᳚ विवि॒दुषो॒ वचः᳚ ॥
▶ पदपाठः (Word-by-word)
विप्र᳚स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति᳚ । म॒क्षु॑त᳚मस्य । रा॒तिषु᳚ ।
अ॒वः॑दे᳚वम् । उ॒परि᳚॑मर्त्यम् । कृ॒धि॒ । वसो॒ इति᳚ । वि॒वि॒दुषः᳚ । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसोयहो बलस्यपुत्राग्ने विप्रस्य मेधाविनः स्तुवतः स्तोतुर्वा रातिषु हविर्दानेषु मक्षुतमस्य शीघ्रतमस्य यष्टुर्वा विविदुषोज्ञातव्यस्य अभिज्ञस्य वचोवचनं हे वसो वासकाग्ने अवोदेवं देवानामवस्तात् । उपरिमर्त्यं मर्त्यानामुपरिष्टाच्व कृधि कुरु सर्वं नभःप्रदेशं व्यापयेतियावत् ॥ १२ ॥