स॒मिधा॒ यो निशि᳚ती॒ दाश॒ददि᳚तिं॒ धाम᳚भिरस्य॒ मर्त्य᳚ः ।
विश्वेत्स धी॒भिः सु॒भगो॒ जना{4}॒ अति᳚ द्यु॒म्नैरु॒द्न इ᳚व तारिषत् ॥
विश्वेत्स धी॒भिः सु॒भगो॒ जना{4}॒ अति᳚ द्यु॒म्नैरु॒द्न इ᳚व तारिषत् ॥
पदपाठः (Word-by-word)
स॒म्॑इधा᳚ । यः । नि॑शि᳚ती । दाश᳚त् । अदि᳚तिम् । धाम᳚॑भिः । अ॒स्य॒ । मर्त्यः᳚ ।
विश्वा᳚ । इत् । सः । धी॒भिः । सु॒॑भगः᳚ । जना᳚न् । अति᳚ । द्यु॒म्नैः । उ॒द्नः॑इ᳚व । ता॒रि॒ष॒त् ॥
विश्वा᳚ । इत् । सः । धी॒भिः । सु॒॑भगः᳚ । जना᳚न् । अति᳚ । द्यु॒म्नैः । उ॒द्नः॑इ᳚व । ता॒रि॒ष॒त् ॥
सायणभाष्यम् (Sayana Commentary)
योमर्त्योमनुष्यः अस्याग्नेर्धामभिः शरीरैः गार्हपत्यादिरूपेण विभज्य वर्तमानैः सार्ध अदितिं अखंडनीयं तमेवाग्निं निशिती निशित्या निशान- साधनया प्रज्वलनहेतुभूतया समिधा दाशत् परिचरेत् । सोग्निः धीभिः कर्मभिर्बुद्धिविशेषैर्वा सुभगः सन् विश्वेत् सर्वानेव जनान् द्युम्रैर्द्योतमानैरन्नै- र्यशोभिर्वा उद्गइव उदकानीव अतितारिषत् अतितरेत् अतिक्रामेत् ॥ १४ ॥