म॒हा{4} इन्द्रो॒ य ओज᳚सा प॒र्जन्यो᳚ वृष्टि॒मा{4} इ᳚व ।
स्तोमै᳚र्व॒त्सस्य᳚ वावृधे ॥
म॒हान् । इन्द्रः᳚ । यः । ओज᳚सा । प॒र्जन्यः᳚ । वृ॒ष्टि॒मान्॑इ᳚व ।
स्तोमैः᳚ । व॒त्सस्य᳚ । व॒वृ॒धे॒ ॥
यइन्द्रः ओजसा बलेन महान् सर्वेभ्योधिकः कइव वृष्टिमान्इव यथा वृष्ट्यायुक्तः पर्जन्यः रसानां प्रार्जयिता देवोमहान् सइवेत्यर्थः सइन्द्रः वत्सस्य पुत्रस्थानीयस्य स्तोतुः वत्सनाम्नएवऋषेः स्तोमैः स्तोत्रैः ववृधे प्रवर्धते ॥ १ ॥
प्र॒जामृ॒तस्य॒ पिप्र᳚त॒ः प्र यद्भर᳚न्त॒ वह्न᳚यः ।
विप्रा᳚ ऋ॒तस्य॒ वाह᳚सा ॥
प्र॒॑जाम् । ऋ॒तस्य᳚ । पिप्र᳚तः । प्र । यत् । भर᳚न्त । वह्न᳚यः ।
विप्राः᳚ । ऋ॒तस्य᳚ । वाह᳚सा ॥
ऋतस्य यज्ञस्य सत्यस्य प्रजां प्रकर्षेण जातमिन्द्रं पिप्रतः नभसः प्रदेशान् पूरयन्तोवह्नयोवाहकाअश्वाः यद्यदा प्रभरन्त प्रकर्षेण भरन्ति वहन्ति तदा विप्रामेधाविनः ऋतस्य यज्ञस्य वाहसा प्रापकेण स्तोत्रेण तमिन्द्र स्तुवन्तीति शेषः ॥ २ ॥
कण्वा॒ इन्द्रं॒ यदक्र᳚त॒ स्तोमै᳚र्य॒ज्ञस्य॒ साध᳚नम् ।
जा॒मि ब्रु᳚वत॒ आयु᳚धम् ॥
कण्वाः᳚ । इन्द्र᳚म् । यत् । अक्र᳚त । स्तोमैः᳚ । य॒ज्ञस्य᳚ । साध᳚नम् ।
जा॒मि । ब्रु॒व॒ते॒ । आयु᳚धम् ॥
कण्वाः स्तोतृनामैतत् स्तोतरः कण्वगोत्रावा इन्द्रं स्तोमैः स्तोत्रैः यज्ञस्य यागस्य साधनं साधयितारं निष्पादकं यद्यदा अक्रत अकृषत करोतेर्लुङि मन्त्रेघसेति च्लेर्लुक् तदानीं आयुधं शत्रूणां हिंसकं बाणादिकं जामि अतिरेकनामैतत् अतिरिक्तं अहितं प्रयोजनरहितं ब्रुवते कथयन्ति आयुधसाध्यस्य सर्वकार्यस्येन्द्रेण कृतत्वात् आयुधं निष्प्रयोजनमित्यर्थः । यद्वा आयुधमायोधनशीलमिन्द्रं जामि जामिं भ्रातरं ब्रुवते वदन्ति सर्वकार्येषु भ्रातृवद्वर्ततइत्यर्थः ॥ ३ ॥
सम᳚स्य म॒न्यवे॒ विशो॒ विश्वा᳚ नमन्त कृ॒ष्टयः᳚ ।
स॒मु॒द्राये᳚व॒ सिन्ध᳚वः ॥
सम् । अ॒स्य॒ । म॒न्यवे᳚ । विशः᳚ । विश्वाः᳚ । न॒म॒न्त॒ । कृ॒ष्टयः᳚ ।
स॒मु॒द्राय᳚॑इव । सिन्ध᳚वः ॥
विशोविशन्त्यः विश्वाः सर्वाः कृष्टयः प्रजाः अस्येन्द्रस्य मन्यवे क्रोधाय यद्वा मन्युर्मननसाधनं स्तोत्रं तदर्थं सन्नमन्त सम्यक् स्वतएव नमन्ति नमतेः कर्मकर्तरि छान्दसोलङ् नदुहस्नुनमामितियक् चिणोः प्रतिषेधः प्रह्वीभवन्ति । तत्रदृष्टान्तः-समुद्रायेव यथा समुद्रं अब्धिं प्रति सिन्धवः स्य्अन्दनशीलानद्यः स्वयमेव नमन्ते तद्वत् ॥ ४ ॥
ओज॒स्तद᳚स्य तित्विष उ॒भे यत्स॒मव᳚र्तयत् ।
इन्द्र॒श्चर्मे᳚व॒ रोद᳚सी ॥
ओजः᳚ । तत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । उ॒भे इति᳚ । यत् । स॒म्॑अव᳚र्तयत् ।
इन्द्रः᳚ । चर्म᳚॑इव । रोद᳚सी॒ इति᳚ ॥
अस्येन्द्रस्य तदोजोबलं तित्विषे दिदीपे त्विष दीप्तौ यत् येनौजसा अयमिन्द्रः उभे रोदसी द्यावापृथिव्यौ चर्मेव समवर्तयत् सम्यग्वर्तयति यथा कश्वित्किञ्चिच्चर्म कदाचिद्विस्तारयति कदाचित्संकोचयति एवं तदधीने अभूतामित्यर्थः ॥ ५ ॥
वि चि᳚द्वृ॒त्रस्य॒ दोध᳚तो॒ वज्रे᳚ण श॒तप᳚र्वणा ।
शिरो᳚ बिभेद वृ॒ष्णिना᳚ ॥
वि । चि॒त् । वृ॒त्रस्य᳚ । दोध᳚तः । वज्रे᳚ण । श॒त॑प᳚र्वणा ।
शिरः᳚ । बि॒भे॒द॒ । वृ॒ष्णिना᳚ ॥
चिच्छब्दोप्यर्थे सच भिन्नक्रमः वृत्रस्यचित् आवरकस्यापि दोधतः अत्यर्थं जगत्कम्पयतोऽसुरस्य शिरः मूर्धानं शतपर्वणा पर्वाणि धारा- यस्य तादृशेन वृष्णिना वीर्यवता वज्रेण इन्द्रोविबिभेद विचिच्छेद ॥ ६ ॥ आभिष्लविकेषूक्थेषु तृतीयसवने प्रशास्तुः शस्त्रे इमाअभीतितृचो वैकल्पिकोनुरूपः सूत्रितञ्च-इमाअभिप्रणोनुमइत्यथब्राह्मणाच्छं- सिनइति ।
इ॒मा अ॒भि प्र णो᳚नुमो वि॒पामग्रे᳚षु धी॒तयः᳚ ।
अ॒ग्नेः शो॒चिर्न दि॒द्युतः᳚ ॥
इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे᳚षु । धी॒तयः᳚ ।
अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः᳚ ॥
विपां स्तोतॄणामग्रेषु पुरस्तात् इमा अस्मदीयाः धीतयोधियः स्तोत्राणि अभिप्रणोनुमः आभिमुख्येन पुनःपुनः प्रवदामः । णुशब्दे । कीदृ- शीः स्तुतीः अग्नेः शोचिर्न दीप्तिरिव दिद्युतोदीप्यमाना वेदरूपाः ॥ ७ ॥
गुहा᳚ स॒तीरुप॒ त्मना॒ प्र यच्छोच᳚न्त धी॒तयः᳚ ।
कण्वा᳚ ऋ॒तस्य॒ धार᳚या ॥
गुहा᳚ । स॒तीः । उप᳚ । त्मना᳚ । प्र । यत् । शोच᳚न्त । धी॒तयः᳚ ।
कण्वाः᳚ । ऋ॒तस्य᳚ । धार᳚या ॥
गुहा गुहायां सतीः सत्योभवंत्यः यत् याः धीतयः स्तुतयः कर्माणि वा त्मना आत्मना स्वेनेन्द्रेणोपगम्यमानाः प्रशोचन्त प्रादीप्यन्त यद्वा आत्मना स्वतएवेन्द्रमुपगच्छन्त्यः प्रदीप्यन्ते ताः स्तुतीः कण्वाः कण्वगोत्राऋषयः ऋतस्योदकस्य सोमात्मकस्य धारया सहिताः कुर्वन्तीति शेषः ॥ ८ ॥
प्र तमि᳚न्द्र नशीमहि र॒यिं गोम᳚न्तम॒श्विन᳚म् ।
प्र ब्रह्म᳚ पू॒र्वचि᳚त्तये ॥
प्र । तम् । इ॒न्द्र॒ । न॒शी॒म॒हि॒ । र॒यिम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् ।
प्र । ब्रह्म᳚ । पू॒र्व॑चि᳚त्तये ॥
हे इन्द्र गोमन्तं गोभिर्युक्तं अश्विनं अश्वैरुपेतं तं प्रसिद्धं रयिं त्वदीयं धनं प्रनशीमहि प्राप्नुयाम तथा ब्रह्म परिवृढमन्नं च पूर्वचित्तये- अन्येभ्यः पूर्वमेव ज्ञानाय प्राप्नुयाम ॥ ९ ॥
अ॒हमिद्धि पि॒तुष्परि᳚ मे॒धामृ॒तस्य᳚ ज॒ग्रभ᳚ ।
अ॒हं सूर्य᳚ इवाजनि ॥
अ॒हम् । इत् । हि । पि॒तुः । परि᳚ । मे॒धाम् । ऋ॒तस्य᳚ । ज॒ग्रभ᳚ ।
अ॒हम् । सूर्यः᳚॑इव । अ॒ज॒नि॒ ॥
पितुः पालकस्य ऋतस्य सत्यस्यावितथस्येंद्रस्य मेधामनुग्रहात्मिकां बुद्धिं अहमित् अहमेव परिजग्रभ परिगृहीतवानस्मि नान्यः । हिं यस्मादेवं तस्मादहं सूर्यइवाजनि सूर्योयथा प्रकाशमानः सन् प्रादुर्भवति तथा अजनिषं प्रादुरभूवम् ॥ १० ॥
अ॒हं प्र॒त्नेन॒ मन्म᳚ना॒ गिरः᳚ शुम्भामि कण्व॒वत् ।
येनेन्द्र॒ः शुष्म॒मिद्द॒धे ॥
अ॒हम् । प्र॒त्नेन᳚ । मन्म᳚ना । गिरः᳚ । शु॒म्भा॒मि॒ । क॒ण्व॒॑वत् ।
येन᳚ । इन्द्रः᳚ । शुष्म᳚म् । इत् । द॒धे ॥
कण्ववत् मम जनकः कण्वइवाहं प्रत्नेन नित्येन वेदरूपेण मन्मना मननसाधनेनेन्द्रविषयस्तोत्रेण गिरोवाचः शुंभामि अलंकरोमि यदाहि इन्द्रविषये प्रयुज्यंते तदानीं यथार्थत्वात् वाचोऽलंकृताभवन्ति येन खलु स्तोत्रेण इन्द्रः शुष्मं शत्रूणां शोषकं बलं दधेइत् धत्तएव धारयत्येव यत्स्तोत्रमिन्द्रे ईदृशं बलमवश्यं जनयति तेन मन्मनेत्यर्थः ॥ ११ ॥
ये त्वामि᳚न्द्र॒ न तु᳚ष्टु॒वुरृष᳚यो॒ ये च᳚ तुष्टु॒वुः ।
ममेद्व᳚र्धस्व॒ सुष्टु᳚तः ॥
ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वुः । ऋष᳚यः । ये । च॒ । तु॒स्तु॒वुः ।
मम᳚ । इत् । व॒र्ध॒स्व॒ । सु॑स्तु᳚तः ॥
हे इन्द्र ये जनाः त्वां न तुष्टुवुः न स्तुवन्ति ये च ऋषयोमन्त्राणां द्रष्टारोजनाः तुष्टुवुः त्वां स्तुवन्ति उभयेषां मध्ये ममेत् ममैव स्तोत्रेण सुष्टुतः शोभनं स्तुतः सन् वर्धस्व वर्धयस्व वृद्धोभव ॥ १२ ॥
यद᳚स्य म॒न्युरध्व᳚नी॒द्वि वृ॒त्रं प᳚र्व॒शो रु॒जन् ।
अ॒पः स᳚मु॒द्रमैर᳚यत् ॥
यत् । अ॒स्य॒ । म॒न्युः । अध्व᳚नीत् । वि । वृ॒त्रम् । प॒र्व॒॑शः । रु॒जन् ।
अ॒पः । स॒मु॒द्रम् । ऐर᳚यत् ॥
अस्येन्द्रस्य मन्युः क्रोधः वृत्रं आवृत्य तिष्ठन्तमसुरं मेघं वा पर्वशः पर्वणि पर्वणि परुषि परुषि विरुजन् विभञ्जन् यद्यदा अध्वनीत् स्तन- यित्नुलक्षणं शब्दमकरोत् तदानीं समुद्रं समुन्दनीयं अदधिं प्रति अपोवृष्ट्युदकानि ऎरयत् सइन्द्रः प्रेरितवान् ॥ १३ ॥
नि शुष्ण᳚ इन्द्र धर्ण॒सिं वज्रं᳚ जघन्थ॒ दस्य᳚वि ।
वृषा॒ ह्यु᳚ग्र शृण्वि॒षे ॥
नि । शुष्णे᳚ । इ॒न्द्र॒ । ध॒र्ण॒सिम् । वज्र᳚म् । ज॒घ॒न्थ॒ । दस्य᳚वि ।
वृषा᳚ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे ॥
हे इन्द्र शुष्णे शोषके एतत्संज्ञे दस्यवि उपक्षपयितर्यसुरे धर्णसिं धारयितव्यं वज्रं कुलिशं त्वं निजघन्थ निहतवानसि वज्रेण तमसुरं न्यवधीरित्यर्थः । हे अग्रोदूर्णबलेन्द्र वृषा कामानां वर्षितेति हि श्रृण्विषे श्रूयसे अतोस्मदपेक्षितं धनं देहीति शेषः ॥ १४ ॥
न द्याव॒ इन्द्र॒मोज᳚सा॒ नान्तरि᳚क्षाणि व॒ज्रिण᳚म् ।
न वि᳚व्यचन्त॒ भूम᳚यः ॥
न । द्यावः᳚ । इन्द्र᳚म् । ओज᳚सा । न । अ॒न्तरि᳚क्षाणि । व॒ज्रिण᳚म् ।
न । वि॒व्य॒च॒न्त॒ । भूम᳚यः ॥
द्यावोद्युलोकाः इममिन्द्रं ओजसा बलेन न विव्यचन्त न व्याप्नुवन्ति द्युलोकेभ्योप्यस्य बलमधिकमित्यर्थः । तथा अन्तरिक्षाणि अन्तरा- क्षान्तानि द्यावापृथिव्योर्मध्ये वर्तमानाः लोकाः वज्रिणं वज्रवन्तमिन्द्रं न व्याप्नुवन्ति तथा भूमयोभूलोकाश्च तमिन्द्रं न व्याप्नुवन्ति त्रयोवाइमेत्रिवृतोलोकाइति ब्राह्मणादेकैकस्यलोकस्य त्रित्वम् । तिस्रोभूमीरित्यादि निगमाच्च ॥ १५ ॥
यस्त᳚ इन्द्र म॒हीर॒पः स्त᳚भू॒यमा᳚न॒ आश᳚यत् ।
नि तं पद्या᳚सु शिश्नथः ॥
यः । ते॒ । इ॒न्द्र॒ । म॒हीः । अ॒पः । स्त॒भु॒॑यमा᳚नः । आ । अश᳚यत् ।
नि । तम् । पद्या᳚सु । शि॒श्न॒थः॒ ॥
हे इन्द्र ते तव संबन्धिनीः महीर्महतीः अपः आन्तरिक्ष्याण्युदकानि योवृत्रः स्तभूयमानः स्तम्भयन् यथा अधोनपतन्ति तथाकुर्वन् आश- यत् आवृत्याशेत् तमसुरं पद्यासु गमनशीलास्वप्सु मध्ये निशिश्नथः न्यहिंसीः श्नथिर्हिसार्थः वज्रेण तमसुरं हत्वा नदीषु पातितवानित्यर्थः ॥ १६ ॥
य इ॒मे रोद᳚सी म॒ही स᳚मी॒ची स॒मज᳚ग्रभीत् ।
तमो᳚भिरिन्द्र॒ तं गु᳚हः ॥
यः । इ॒मे इति᳚ । रोद᳚सी॒ इति᳚ । म॒ही इति᳚ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । स॒म्॑अज᳚ग्रभीत् ।
तमः᳚॑भिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥
योवृत्रः मही महत्यौ विस्तीर्णे समीची सङ्गते इमे प्रत्यक्षतउपलभ्यमाने रोदसी द्यावापृथिव्यौ समजग्रभीत् सम्यगग्रहीत् आवृणो- दित्यर्थः तमसुरं हे इन्द्र त्वं तमोभिरन्धकारैः गुहः संवृतमकरोः अनाद्यनन्तं मरणलक्षणं तमः प्रावेशयइत्यर्थः ॥ १७ ॥
य इ᳚न्द्र॒ यत᳚यस्त्वा॒ भृग᳚वो॒ ये च᳚ तुष्टु॒वुः ।
ममेदु᳚ग्र श्रुधी॒ हव᳚म् ॥
ये । इ॒न्द्र॒ । यत᳚यः । त्वा॒ । भृग᳚वः । ये । च॒ । तु॒स्तु॒वुः ।
मम᳚ । इत् । उ॒ग्र॒ । श्रु॒धि॒ । हव᳚म् ॥
हे इन्द्र ये यतयः नियताः अंगिरसः त्वा त्वां तुष्टुबुः ये च भृगवोभृगुगोत्रास्त्वां तुष्टुवुः स्तुवन्ति तेषु मध्ये ममेत् ममैव हवं स्तोत्रं हे उग्र ओजस्विन्निन्द्र श्रुधि शृणु ॥ १८ ॥
इ॒मास्त᳚ इन्द्र॒ पृश्न᳚यो घृ॒तं दु᳚हत आ॒शिर᳚म् ।
ए॒नामृ॒तस्य᳚ पि॒प्युषी᳚ः ॥
इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न᳚यः । घृ॒तम् । दु॒ह॒ते॒ । आ॒॑शिर᳚म् ।
ए॒नाम् । ऋ॒तस्य᳚ । पि॒प्युषीः᳚ ॥
हे इन्द्र ते त्वदीयाइमाः पृश्नयः प्राष्टवर्णागावः घृतं क्षरणशीलं एनां एनं आशिरं आश्रयणं पयः दुहते दुहन्ति क्षारयन्ति । कीदृश्यः पृश्नयः ऋतस्य सत्यस्य अवितथस्येन्द्रस्य यज्ञस्य वा पिप्युषीः वर्धयित्र्यः ॥ १९ ॥
या इ᳚न्द्र प्र॒स्व᳚स्त्वा॒सा गर्भ॒मच᳚क्रिरन् ।
परि॒ धर्मे᳚व॒ सूर्य᳚म् ॥
याः । इ॒न्द्र॒ । प्र॒॑स्वः᳚ । त्वा॒ । आ॒सा । गर्भ᳚म् । अच᳚क्रिरन् ।
परि᳚ । धर्म᳚॑इव । सूर्य᳚म् ॥
हे इन्द्र प्रस्वः प्रसुवते गर्भं विमुञ्चन्तीति प्रस्वः सूतेः सत्सूद्विषेतिक्विप् ईदृश्योयागावः आसा आस्येन त्वा त्वदीयं वीर्यं वृत्रवधानन्तरं ओषध्यादिरूपेण परिष्वतं भक्षयित्वा गर्भमचक्रिरन् अकुर्वन् त्वदीयं वीर्यमन्तरधारयन् तत्र दृष्टान्तः-सूर्यं सूर्यमण्डलस्योपरि धर्मेव धारकं पोषकमुदकं यथा रश्मयः गर्भरूपेण बिभ्रति तद्वत् । यद्वा परिधर्मेव परितोधारयितारं सूर्यमिव यथा सूर्यः परितं सर्वं जगद्धत्ते तद्वत् कृत्स्रस्य जगतोधारकमिन्द्रस्य वीर्यमित्यर्थः । ओषध्यादिरूपेण परिणतस्येन्द्रवीर्यस्य गोभिरात्मनि धारणम् । इन्द्रस्य वृत्रं जघ्नुष- इत्यारभ्य तैत्तिरीयके विस्पष्टमाम्नातम्-तत्पशवओषधीभ्योध्यात्मन् स्मनयन् तत्प्रत्यदुहन्निति । पयोरूपेण परिणतम् तद्वीर्यं इमागावः आशिरार्थं दुहतइति पूर्वस्यामृच्यन्वयः ॥ २० ॥
त्वामिच्छ᳚वसस्पते॒ कण्वा᳚ उ॒क्थेन᳚ वावृधुः ।
त्वां सु॒तास॒ इन्द᳚वः ॥
त्वाम् । इत् । श॒व॒सः॒ । प॒ते॒ । कण्वाः᳚ । उ॒क्थेन᳚ । व॒वृ॒धुः॒ ।
त्वाम् । सु॒तासः᳚ । इन्द᳚वः ॥
हे शवतस्पते बलस्य स्वामिन्निन्द्र त्वामित् त्वामेव कण्वाःस्तोतारः कण्वगोत्रावा ऋषयः उक्थेन शस्त्रेण ववृधुः वर्धयन्ति सुतासोध्वर्यु- भिरभिषुताः इन्दवः सोमाश्च त्वामेव वर्धयन्ति ॥ २१ ॥
तवेदि᳚न्द्र॒ प्रणी᳚तिषू॒त प्रश᳚स्तिरद्रिवः ।
य॒ज्ञो वि᳚तन्त॒साय्य᳚ः ॥
तव᳚ । इत् । इ॒न्द्र॒ । प्र॑नी᳚तिषु । उ॒त । प्र॑श᳚स्तिः । अ॒द्रि॒॑वः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः᳚ ॥
उतापि च हे अद्रिवः आदृणात्यनेनेत्यद्रिर्वज्रः त्द्वन्निन्द्र तवेत् प्रणीतिषु प्रकृष्टेषु नयनेषु धनप्रदानेषु सत्सु प्रशस्तिः प्रकृष्टा स्तुतिः क्रियते । तथा वितन्तसाय्यः विस्तृततमः तनोतेश्छान्दसमेतद्रूपम् यद्वा तंतसिः कंड्वादिर्तृध्यर्थः तस्मादौणादिकआय्यप्रत्ययः प्रवृद्धोयज्ञश्चतवैव क्रियते ॥ २२ ॥
आ न᳚ इन्द्र म॒हीमिषं॒ पुरं॒ न द᳚र्षि॒ गोम᳚तीम् ।
उ॒त प्र॒जां सु॒वीर्य᳚म् ॥
आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष᳚म् । पुर᳚म् । न । द॒र्षि॒ । गो॑म᳚तीम् ।
उ॒त । प्र॒॑जाम् । सु॒॑वीर्य᳚म् ॥
हे इन्द्र नोस्मभ्यं अस्मदर्थं महीं महतीं गोमतीं गोभिर्युक्तां इषमन्नं आदर्षि आद्रियस्व दातुं कामयस्व नशब्दश्चार्थे पुरं न पालनं पूःपालनं रक्षणं चास्मभ्यं कर्तुमाद्रियस्व । उतापिच सुवीर्थं शोभनवीर्योपेतां प्रजां संततिं दातुं कामयस्व ॥ २३ ॥
उ॒त त्यदा॒श्वश्व्यं॒ यदि᳚न्द्र॒ नाहु᳚षी॒ष्वा ।
अग्रे᳚ वि॒क्षु प्र॒दीद᳚यत् ॥
उ॒त । त्यत् । आ॒शु॒॑अश्व्य᳚म् । यत् । इ॒न्द्र॒ । नाहु᳚षीषु । आ ।
अग्रे᳚ । वि॒क्षु । प्र॒॑दीद᳚यत् ॥
हे इन्द्र नाहुषीषु नहुषाइति मनुष्यनाम तत्सम्बन्धिनीषु यद्वा नाहुषोनाम कश्चिद्राजा तदीयासु विक्षु प्रजासु अग्रे पुरस्तात् यत् आश्वश्व्यं शीघ्रगाम्यश्वसंघात्मकं बलं प्रदीदयत् प्रादीप्यत उतापिच त्यत् तदपि अस्मभ्यं देहीतिशेषः । आकारः पूरकः ॥ २४ ॥
अ॒भि व्र॒जं न त᳚त्निषे॒ सूर᳚ उपा॒कच᳚क्षसम् ।
यदि᳚न्द्र मृ॒ळया᳚सि नः ॥
अ॒भि । व्र॒जम् । न । त॒त्नि॒षे॒ । सूरः᳚ । उ॒पा॒क॑च᳚क्षसम् ।
यत् । इ॒न्द्र॒ । मृ॒ळया᳚सि । नः॒ ॥
न सम्प्रत्यर्थे सम्प्रति इदानीं हे सूरः प्राज्ञस्त्वं व्रजं गोष्ठं उपाकचक्षसं उपाकइत्यन्तिकनाम अन्तिके द्रष्टव्यं अभितत्निषे अभितनोषि अभिविस्तारयसि गोभिः पूर्णं करोषीत्यथः । तनोतेश्छान्दसे लिटि तनिपत्योश्छन्दसीत्युपधालोपः यद्यदा हे इन्द्र त्वं नोस्मान् मृळयासि मृळयसि सुखयसि ॥ २५ ॥
यद॒ङ्ग त᳚विषी॒यस॒ इन्द्र᳚ प्र॒राज᳚सि क्षि॒तीः ।
म॒हा{4} अ᳚पा॒र ओज᳚सा ॥
यत् । अ॒ङ्ग । त॒वि॒षी॒॑यसे᳚ । इन्द्र᳚ । प्र॒॑राज᳚सि । क्षि॒तीः ।
म॒हान् । अ॒पा॒रः । ओज᳚सा ॥
अङ्गेत्यभिमुखीकरणे हे इन्द्र यत् यस्त्वं तविषीयसे तविषीति बलनाम बलमिवाचरसि हस्त्यश्वरथादिकं बलं यथा सर्वं शत्रुजातं भनक्ति तद्वत् त्वमसहायएव सन् सर्वमेव शत्रुजातं मारयसीत्यर्थः यश्च त्वं क्षितीः मनुष्यनामैतत् मनुष्यान् प्रराजसि प्रकर्षेणेशिषे राजतिरैश्वर्यकर्मा अस्यापि यद्वृत्तयोगान्ननिघातः सइन्द्रः ओजसा बलेन महान् सर्वेभ्योधिकः अतएव अपारः पाररहितः केनाप्यव- सानं प्रापयितुमशक्यइत्यर्थः ॥ २६ ॥
तं त्वा᳚ ह॒विष्म᳚ती॒र्विश॒ उप᳚ ब्रुवत ऊ॒तये᳚ ।
उ॒रु॒ज्रय᳚स॒मिन्दु᳚भिः ॥
तम् । त्वा॒ । ह॒विष्म᳚तीः । विशः᳚ । उप᳚ । ब्रु॒व॒ते॒ । ऊ॒तये᳚ ।
उ॒रु॒॑ज्रय᳚सम् । इन्दु᳚॑भिः ॥
हे इन्द्र तं पूर्वोक्तगुणं उरुज्रयसं विस्तीर्णं व्यापिनं त्वा त्वां हविष्मतीर्हविर्भिश्चरुपुरोडाशादिभिर्युक्ताः विशः प्रजाः उपब्रुवते उपेत्य- स्तुवन्ति किमर्थं इन्दुभिः सोमैः ऊतये तर्पणाय । यद्वा इन्दुभिः सोमैरुरुज्रयसं विस्तीर्णजवं ऊतये रक्षणाय स्तुवन्ति ॥ २७ ॥
उ॒प॒ह्व॒रे गि᳚री॒णां सं᳚ग॒थे च᳚ न॒दीना᳚म् ।
धि॒या विप्रो᳚ अजायत ॥
उ॒प॒॑ह्व॒रे । गि॒री॒णाम् । स॒म्॑ग॒थे । च॒ । न॒दीना᳚म् ।
धि॒या । विप्रः᳚ । अ॒जा॒य॒त॒ ॥
गिरीणां पर्वतानां उपह्वरे उपह्वर्तव्ये नदीनां सरितां संगथे संगमने च ईदृग्विधे देशे क्रियमाणया धिया यागक्रियया स्तुत्या वा विप्रोमेधावी इन्द्रः अजायत प्रादुर्भवति अतोवयमपि तादृशेदेशे यजामः स्तुमोवेति भावः । गिरीणामित्यत्र नामन्यतरस्यामिति नामउदात्तत्वम् ॥ २८ ॥
अतः᳚ समु॒द्रमु॒द्वत᳚श्चिकि॒त्वा{4} अव᳚ पश्यति ।
यतो᳚ विपा॒न एज᳚ति ॥
अतः᳚ । स॒मु॒द्रम् । उ॒त्॑वतः᳚ । चि॒कि॒त्वान् । अव᳚ । प॒श्य॒ति॒ ।
यतः᳚ । वि॒पा॒नः । एज᳚ति ॥
यतोयस्मिन् द्युलोके विपानोव्याप्नुवन् विशिष्टपानयुक्तोवा इन्द्रएजति चेष्टते उद्वतः उद्गतान् उपसर्गाच्छन्दसिधात्वर्थइतिवतिः अतोस्मात् द्युलोकात् चिकित्वान् जानन् सइन्द्रः समुद्रं समुन्दनशीलं यजमानैर्दीयमानं सोमं अवपश्यति अवाङ्गुखः सन् ईक्षते । यद्वा सूर्यात्मनेन्द्रः स्तूयते यस्मिन्नभसि विपानोव्याप्नुवन् सूर्यात्मा इन्द्रः एजति वर्तते चिकित्वान् जानन् विद्वान्वा सः इन्द्रः उद्वतः उद्गतात् अतोस्मादन्तरिक्षात्समुद्रम् उपलक्षणमेतत् समुद्रोपलक्षितं सर्वं जगदवपश्यति अवाङ्गुखं प्रसृतैः किरणैः प्रकाशयति ॥ २९ ॥
आदित्प्र॒त्नस्य॒ रेत᳚सो॒ ज्योति᳚ष्पश्यन्ति वास॒रम् ।
प॒रो यदि॒ध्यते᳚ दि॒वा ॥
आत् । इत् । प्र॒त्नस्य᳚ । रेत᳚सः । ज्योतिः᳚ । प॒श्य॒न्ति॒ । वा॒स॒रम् ।
प॒रः । यत् । इ॒ध्यते᳚ । दि॒वा ॥
परोदिवा दिवःपरस्तात् द्युलोकस्योपरि यद्यदा अयमिन्द्रः सूर्यात्मना इध्यते दीप्यते आदित् अनन्तरमेव प्रत्नस्य चिरन्तनस्य रेतसः गन्तुः री गतिरेषणयोः अस्मात् स्रुरीभ्यांतुट्चेत्यसुन् तुडागमश्च । यद्वा रेतइत्युदकनाम रेतस्विनः उदकवतः सामर्थ्यान्मत्वर्थोलक्ष्यते ईदृशस्येन्द्रस्य सूर्यात्मनः वासरं निवासकं वासरस्य निवासस्य हेतुभूतं वा ज्योतिर्द्योतमानं तेजः पश्यन्ति सर्वेजनाः । यद्वा वासरमित्यत्यन्तसंयोगे द्वितीया कृत्स्नमहः उदयप्रभृत्यस्तमयनं यावत् ज्योतिष्पश्यन्तीत्यर्थः इसुसोः वासरमित्यत्यन्तसंयोगे द्वितीया कृत्स्नमहः उदयप्रभृत्यस्तमयनं यावत् ज्योतिष्पश्यन्तीत्यर्थः इसुसोः सामर्थ्यइति विसर्जनीयस्यषत्वम् ॥ ३० ॥
कण्वा᳚स इन्द्र ते म॒तिं विश्वे᳚ वर्धन्ति॒ पौंस्य᳚म् ।
उ॒तो श᳚विष्ठ॒ वृष्ण्य᳚म् ॥
कण्वा᳚सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे᳚ । व॒र्ध॒न्ति॒ । पौंस्य᳚म् ।
उ॒तो इति᳚ । श॒वि॒ष्ठ॒ । वृष्ण्य᳚म् ॥
हे इन्द्र ते त्वदीयां मतिं बुद्धिं पौंस्यं बलनामैतत् बलं च विश्वे सर्वे कण्वासः कण्वाः स्तोतारः कण्वगोत्रावा ऋषयः वर्धन्ति वर्धयन्ति छन्दस्युभयथेति शप् आर्धधातुकत्वात् णेरनिटीति णिलोपः । उतो अपिच हे शविष्ठ शवस्वितम बलवत्तम विन्मतोर्लुक् टेरिति टिलोपः ईदृशेन्द्रः वृष्ण्यं त्वदीयं वीर्यं बलकर्म च कण्वासोवर्धयन्तीत्येव ॥ ३१ ॥
इ॒मां म᳚ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम᳚व ।
उ॒त प्र व᳚र्धया म॒तिम् ॥
इ॒माम् । मे॒ । इ॒न्द्र॒ । सु॒॑स्तु॒तिम् । जु॒षस्व᳚ । प्र । सु । माम् । अ॒व॒ ।
उ॒त । प्र । व॒र्ध॒य॒ । म॒तिम् ॥
हे इन्द्र इमां पुरोवर्तिनीं मे मदीयां सुष्टुतिं शोभनां स्तुतिंजुषस्व सेवस्व । सेवित्वा च स्तोतारं मां सुशोभनं प्राव प्रकर्षेन रक्ष । उतापिच मतिं अस्मदीयां बुद्धिं प्रवर्धय प्रवृद्धां कुरु । यथा बह्वर्थदर्शिनी भवति तथा कुर्वित्यर्थः ॥ ३२ ॥
उ॒त ब्र᳚ह्म॒ण्या व॒यं तुभ्यं᳚ प्रवृद्ध वज्रिवः ।
विप्रा᳚ अतक्ष्म जी॒वसे᳚ ॥
उ॒त । ब्र॒ह्म॒ण्या । व॒यम् । तुभ्य᳚म् । प्र॒॑वृ॒द्ध॒ । व॒ज्रि॒॑वः॒ ।
विप्राः᳚ । अ॒त॒क्ष्म॒ । जी॒वसे᳚ ॥
उरापिच हे प्रवृद्ध स्तुतिभिः प्रकृष्टां वृद्धिं प्राप्त हे वज्रिवः वज्रवन्निन्द्र एकोमत्वर्थीयोनुवादः यद्वा वज्रोस्यास्तीति वज्रहस्तः तद्वन् छन्द- सीरइति मतुपोवत्वम् मतुवसोरुरिति नकारस्यरुत्वम् ईदृशेन्द्र तुभ्यं त्वदर्थं निप्रामेधाविनोवयं ब्रह्मण्या स्तोत्राणि हविर्लक्षणान्य- नान्निवा सुपांसुलुगिति सुपोयाजादेशः जीवसे जीवनार्थं अतक्ष्म अकार्ष्म तक्षू त्वक्षू तनूकरणे लङि छान्दसःशपोलुक् ॥ ३३ ॥
अ॒भि कण्वा᳚ अनूष॒तापो॒ न प्र॒वता᳚ य॒तीः ।
इन्द्रं॒ वन᳚न्वती म॒तिः ॥
अ॒भि । कण्वाः᳚ । अ॒नू॒ष॒त॒ । आपः᳚ । न । प्र॒॑वता᳚ । य॒तीः ।
इन्द्र᳚म् । वन᳚न्॑वती । म॒तिः ॥
कण्वाः कण्वगोत्राऋषयः अभ्यनूषत इन्द्रम् अभिष्टुवन्ति नू स्तुतौ कुटादिः प्रवता प्रवणेन मार्गेण यतीर्गच्छन्त्यः आपोन आपइव मतिः मननीया कण्वैः क्रियमाणा स्तुतिः स्तुत्यमिन्द्रं वनन्वती स्वयमेव सम्भजनवती भवति ॥ ३४ ॥
इन्द्र᳚मु॒क्थानि᳚ वावृधुः समु॒द्रमि᳚व॒ सिन्ध᳚वः ।
अनु᳚त्तमन्युम॒जर᳚म् ॥
इन्द्र᳚म् । उ॒क्थानि᳚ । व॒वृ॒धुः॒ । स॒मु॒द्रम्॑इ᳚व । सिन्ध᳚वः ।
अनु᳚त्त॑मन्युम् । अ॒जर᳚म् ॥
उक्थानि शस्त्राण्यस्माभिः शस्यमानानि इन्द्रं ववृधुर्वर्धयन्ति । सिन्धवः स्यन्दनशीलानद्यः समुद्रमिव समुद्रं जलधिं यथा वर्धयन्ति तद्वत् कीदृशमिन्द्रं अनुत्तमन्युम् अनुत्तः अप्रेरितः परैरभिभूतोमन्युः क्रोधोयस्य तादृशम् नुदविदोन्दत्रेत्यादिना विकल्पितत्वान्निष्ठानत्वाभावः । अजरं जरारहितं बहुव्रीहौ नञोजरमरमित्रमृताइत्युत्तरपदाद्युदात्तत्वम् ॥ ३५ ॥
आ नो᳚ याहि परा॒वतो॒ हरि᳚भ्यां हर्य॒ताभ्या᳚म् ।
इ॒ममि᳚न्द्र सु॒तं पि᳚ब ॥
आ । नः॒ । या॒हि॒ । प॒रा॒॑वतः᳚ । हरि᳚॑भ्याम् । ह॒र्य॒ताभ्या᳚म् ।
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ ॥
हे इन्द्र परावतः परागतात् दूरेवर्तमानात् द्युलोकात् हर्यताभ्यां कान्ताभ्यां हरिभ्यां अश्वाभ्यां नोस्मानायाहि आगच्छ आगत्यच इमम- स्मदीयं सुतमभिषुतं सोमं पिब ॥ ३६ ॥
त्वामिद्वृ᳚त्रहन्तम॒ जना᳚सो वृ॒क्तब᳚र्हिषः ।
हव᳚न्ते॒ वाज᳚सातये ॥
त्वाम् । इत् । वृ॒त्र॒ह॒न्॑त॒म॒ । जना᳚सः । वृ॒क्त॑ब᳚र्हिषः ।
हव᳚न्ते । वाज᳚॑सातये ॥
हे वृत्रहन्तम अतिशयेन वृत्राणां आवृण्वतां शत्रूणां हन्तः त्वामित् त्वामेव वृक्तवर्हिषः वृक्तं यागार्थं छिन्नं बर्हिर्येषां तथाविधोक्ताः प्रवृत्त- यज्ञाः जनासोजनाः ऋत्विग्लक्षणाः हवन्ते आह्वयन्ति ह्वेञः शपि बहुलंछन्दसीति सम्प्रसारणम् किमर्थं वाजसातये वाजस्यान्नस्य बलस्यवा सातये लाभाय यद्वा संग्रामनामैतत् वाजस्य सातिर्यस्मिन्संग्रामे तत्र साहाप्याय त्वामाह्वयन्तीत्यर्थः ॥ ३७ ॥
अनु᳚ त्वा॒ रोद᳚सी उ॒भे च॒क्रं न व॒र्त्येत᳚शम् ।
अनु᳚ सुवा॒नास॒ इन्द᳚वः ॥
अनु᳚ । त्वा॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । च॒क्रम् । न । व॒र्ति॒ । एत᳚शम् ।
अनु᳚ । सु॒वा॒नासः᳚ । इन्द᳚वः ॥
हे इन्द्र त्वा त्वां उभे रोदसी द्यावापृथिव्यौ अनुवर्तेते त्वदधीने भवतइत्यर्थः तत्रदृष्टान्तः-चक्रं न यथा रथचक्रं एतशं अश्वनामैतत् पुरोगच्छन्तमश्वं अनुवर्ति अनुवर्तते तद्वत् । अपिच सुवानासः ऋत्विग्भिरभिषूयमाणाइन्दवः सोमाश्च त्वामनुवर्तन्ते ॥ ३८ ॥
मन्द᳚स्वा॒ सु स्व᳚र्णर उ॒तेन्द्र᳚ शर्य॒णाव᳚ति ।
मत्स्वा॒ विव᳚स्वतो म॒ती ॥
मन्द᳚स्व । सु । स्वः᳚॑नरे । उ॒त । इ॒न्द्र॒ । श॒र्य॒णा॑व᳚ति ।
मत्स्व᳚ । विव᳚स्वतः । म॒ती ॥
उतापिच हे इन्द्र शर्यणावति शर्यणानाम कुरुक्षेत्रवर्तिनोदेशाः तेषामदूरभवं सरः शर्यणावत् मध्वादिभ्यश्चेति स्वार्थिकोमतुप् मतौबह्व- चइतिदीर्घः संज्ञायामितिवत्वम् । तस्मिन् सरसि विद्यमाने स्वर्णरे सर्वैरृत्विग्भिर्नेतव्ये यज्ञे सु सुष्ठु मन्दस्व माद्य तृप्तोभव अपिच विवस्वतः परिचरणवतोयजमानस्य मती मत्याच मत्स्व मदं प्राप्नुहि मतिशब्दात्तृतीयायाः सुपांसुलुगिति पूर्वसवर्णदीर्घः ॥ ३९ ॥
वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा᳚ व॒ज्र्य᳚रोरवीत् ।
वृ॒त्र॒हा सो᳚म॒पात᳚मः ॥
व॒वृ॒धा॒नः । उप᳚ । द्यवि᳚ । वृषा᳚ । व॒ज्री । अ॒रो॒र॒वी॒त् ।
वृ॒त्र॒॑हा । सो॒म॒॑पात᳚मः ॥
वावृधानोवृद्धः वज्री वज्रवान् अतएव वृत्रहा मेघस्यासुरस्य वा हन्ता सोमपातमः अतिशयेन सोमस्य पातेन्द्रः वृषा उदकानं वर्षिता द्यवि द्युलोके अन्तरिक्षे उपसमीपे यथास्माभिः श्रूयते तथा अरोरवीत् भृशं स्तनयित्नुलक्षणं शब्दमकरोत् मेघेन वज्रहतेन ईदृशं शब्दमचीकरदित्यर्थः ॥ ४० ॥
ऋषि॒र्हि पू᳚र्व॒जा अस्येक॒ ईशा᳚न॒ ओज᳚सा ।
इन्द्र᳚ चोष्कू॒यसे॒ वसु᳚ ॥
ऋषिः᳚ । हि । पू॒र्व॒॑जाः । असि᳚ । एकः᳚ । ईशा᳚नः । ओज᳚सा ।
इन्द्र᳚ । चो॒ष्कू॒यसे᳚ । वसु᳚ ॥
हे इन्द्र पूर्वजाः सर्वेभ्योदेवेभ्यः पूर्वं जातउत्पन्नः यद्वा यज्ञेषु प्रथममेव प्रादुर्भूतः त्वं ऋषिर्हि द्रष्टा सर्वज्ञः खल्वसि भवसि । अपिच सर्वेषु देवेषु मध्ये एकोमुख्यः ओजसा बलेन ईशानईश्वरोभवसि । सत्वं वसु धनं चोष्कूयसे पुनःपुनः स्तोतृभ्योददासि । स्कुञ् आप्रवणे इह दानार्थः । तथाचोक्तम्-चोष्कूयमाणमिन्द्रभूरिवामं दददिन्द्रबहुवननीयमिति ॥ ४१ ॥
अ॒स्माकं᳚ त्वा सु॒ता{4} उप᳚ वी॒तपृ᳚ष्ठा अ॒भि प्रयः᳚ ।
श॒तं व᳚हन्तु॒ हर᳚यः ॥
अ॒स्माक᳚म् । त्वा॒ । सु॒तान् । उप᳚ । वी॒त॑पृ᳚ष्ठाः । अ॒भि । प्रयः᳚ ।
श॒तम् । व॒ह॒न्तु॒ । हर᳚यः ॥
हे इन्द्र अस्माकमस्मदीयान् सुतान्सोमानुपलक्ष्य प्रयः अन्ननामैतत् धानाकरम्भादिहविर्लक्षणमन्नं चाभिलक्ष्य वीतपृष्ठाः प्रशस्तोपरि- भागाः शतं शतसंख्याकाहरयोश्वाः त्वा त्वां वहन्तु प्रापयन्तु ॥ ४२ ॥
इ॒मां सु पू॒र्व्यां धियं॒ मधो᳚र्घृ॒तस्य᳚ पि॒प्युषी᳚म् ।
कण्वा᳚ उ॒क्थेन᳚ वावृधुः ॥
इ॒माम् । सु । पू॒र्व्याम् । धिय᳚म् । मधोः᳚ । घृ॒तस्य᳚ । पि॒प्युषी᳚म् ।
कण्वाः᳚ । उ॒क्थेन᳚ । व॒वृ॒धुः॒ ॥
इमामिदानीं क्रियमाणां सु सुष्ठु पूर्व्यां पूर्वैःपित्रादिभिः कृतां मधोर्मधुरस्य घृतस्य क्षरणशीलस्योदकस्य पिप्युषीं वर्धयित्रीं यद्वा मधुरेण घृतेनाज्येन प्रवृद्धांधियं यागक्रियां कण्वाः कण्वगोत्राऋषयः उक्थेन शस्त्रेण वावृधुरिन्द्रार्थं वर्धयन्ति उक्थैर्हि यागोवर्धते अत्यष्टोमादिषू- त्तरासु संस्थासु शस्त्रवृद्धेर्दृष्टत्वात् यद्वा पूर्व्यां चिरन्तनीं इमामिन्द्रस्य धियं अनुग्रहबुद्धिं क्षरणशीलेन मधुरेण स्तोमेन पिप्युषीं वर्धनीयां उक्थेन स्तोत्रेण वावृधुः वर्धयन्ति ॥ ४३ ॥
इन्द्र॒मिद्विम᳚हीनां॒ मेधे᳚ वृणीत॒ मर्त्य᳚ः ।
इन्द्रं᳚ सनि॒ष्युरू॒तये᳚ ॥
इन्द्र᳚म् । इत् । वि॑म᳚हीनाम् । मेधे᳚ । वृ॒णी॒त॒ । मर्त्यः᳚ ।
इन्द्र᳚म् । स॒नि॒ष्युः । ऊ॒तये᳚ ॥
विमहीनां विशेषेण महतां देवानां मध्ये इन्द्रमित् इन्द्रमेव मेधे यज्ञे मर्त्योमनुष्योहोता वृणीत स्तुतिभिः संभजते । तथा सनिष्युः धनका- मश्च स्तोता ऊतये रक्षणाय इन्द्रमेव वृणीते स्तुत्या संभजते ॥ ४४ ॥
अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ ।
सो॒म॒पेया᳚य वक्षतः ॥
अ॒र्वाञ्च᳚म् । त्वा॒ । पु॒रु॒॑स्तु॒त॒ । प्रि॒यमे᳚ध॑स्तुता । हरी᳚ ।
सो॒म॒॑पेया᳚य । व॒क्ष॒तः॒ ॥
हे पुरुष्टुत बहुभिः स्तुतेन्द्र प्रियमेधस्तुता प्रियमेधैः प्रिययज्ञैः ऋषिभिः स्तुतौ तृतीया कर्मणीति पूर्वपदप्रक्रुतिस्वरत्वम् सुपां सुलुगित्या- कारः ईदृशौ हरी अश्वौ सोमपेयाय सोमपानार्थं त्वा त्वां अर्वाञ्चं अस्मदभिमुखं वक्षतः वहताम् ॥ ४५ ॥
श॒तम॒हं ति॒रिन्दि᳚रे स॒हस्रं॒ पर्शा॒वा द᳚दे ।
राधां᳚सि॒ याद्वा᳚नाम् ॥
श॒तम् । अ॒हम् । ति॒रिन्दि᳚रे । स॒हस्र᳚म् । पर्शौ᳚ । आ । द॒दे॒ ।
राधां᳚सि । याद्वा᳚नाम् ॥
इदमादिकेन तृचेन तिरिन्दिरस्य राज्ञोदानं स्तूयते पर्शौ परशुनाम्नाः पुत्रे उपचाराज्जन्ये जनकशब्दः तिरिन्दिरे एतत्संज्ञे राजनि याद्वानां यदुरिति मनुष्यनाम यदवएव याद्वाः स्वार्थिकस्तद्धितः तेषां मध्ये अहं शतं शतसंख्याकानि सहस्रं सहस्रसंख्याकानिच राधांसि धनानि आददे स्वीकरोमि । यद्वा याद्वानां यदुकुलजातानामन्येषां राज्ञां स्वभूतानि राधांसि बलादपहृतानि तिरिन्दिरे वर्तमानान्यहं प्राप्नोमि ॥ ४६ ॥
त्रीणि᳚ श॒तान्यर्व᳚तां स॒हस्रा॒ दश॒ गोना᳚म् ।
द॒दुष्प॒ज्राय॒ साम्ने᳚ ॥
त्रीणि᳚ । श॒तानि᳚ । अर्व᳚ताम् । स॒हस्रा᳚ । दश᳚ । गोना᳚म् ।
द॒दुः । प॒ज्राय᳚ । साम्ने᳚ ॥
पूर्वस्यामृचि स्वसम्प्रदानकं दानमुक्तं अधुना अन्येभ्योप्यृषिभ्यस्तिरिन्दिरोबहुधनं दत्तवानित्याह अर्वतां गन्तॄणामश्वानां त्रीणि शतानि गोनां दश शतगुणितानि सहस्र सहस्राणि च पज्राय स्तुतीनां प्रार्जकाय साम्ने एतत्संज्ञाय ऋषये यद्वा साम्ने सामस्तोत्रं तद्वते पज्राय पज्रकुलजाताय कक्षीवते ददुः तिरिन्द्रिराख्याराजानोदत्तवन्तः ॥ ४७ ॥
उदा᳚नट् ककु॒हो दिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒ दद᳚त् ।
श्रव᳚सा॒ याद्वं॒ जन᳚म् ॥
उत् । आ॒न॒ट् । क॒कु॒हः । दिव᳚म् । उष्ट्रा᳚न् । च॒तुः॒॑युजः᳚ । दद᳚त् ।
श्रव᳚सा । याद्व᳚म् । जन᳚म् ॥
अयं राजा ककुहः अच्छ्रितः सन् श्रवसा कीर्त्या दिवं स्वर्गं उदानट् उत्कृष्टतरं व्याप्नोत् किंकुर्वन् चतुर्युजः चतुर्भिः स्वर्णभारैः युक्तान् उष्ट्रन् ददत् प्रयच्छत् तथा याद्वं जनं च दासत्वेन प्रयच्छन् ॥ ४८ ॥
प्रयद्वइति षट्त्रिंशदृचं द्वितीयं सूक्तं कण्वगोत्रस्य पुनर्वत्सस्तर्षं मारुतं गायत्रम् । तथा चानुक्रांतम्-प्रयद्वःषट् त्रिंशत्पुनर्वत्सोमारुत- मिति । व्यूह्ळे दशरात्रे प्रथमेछन्दोमे आग्निमारुतशस्त्रे इदंसूक्तं मारुतनिविद्धानं सूत्रितञ्च-प्रयद्वस्त्रिष्टुभं दूतंवइत्याग्निमारुतमिति ।