श्रवणम्

8.6.46
श॒तम॒हं ति॒रिन्दि᳚रे स॒हस्रं॒ पर्शा॒वा द᳚दे ।
राधां᳚सि॒ याद्वा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
श॒तम् । अ॒हम् । ति॒रिन्दि᳚रे । स॒हस्र᳚म् । पर्शौ᳚ । आ । द॒दे॒ ।
राधां᳚सि । याद्वा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिकेन तृचेन तिरिन्दिरस्य राज्ञोदानं स्तूयते पर्शौ परशुनाम्नाः पुत्रे उपचाराज्जन्ये जनकशब्दः तिरिन्दिरे एतत्संज्ञे राजनि याद्वानां यदुरिति मनुष्यनाम यदवएव याद्वाः स्वार्थिकस्तद्धितः तेषां मध्ये अहं शतं शतसंख्याकानि सहस्रं सहस्रसंख्याकानिच राधांसि धनानि आददे स्वीकरोमि । यद्वा याद्वानां यदुकुलजातानामन्येषां राज्ञां स्वभूतानि राधांसि बलादपहृतानि तिरिन्दिरे वर्तमानान्यहं प्राप्नोमि ॥ ४६ ॥