पान्त॒मा वो॒ अन्ध᳚स॒ इन्द्र᳚म॒भि प्र गा᳚यत ।
वि॒श्वा॒साहं᳚ श॒तक्र᳚तुं॒ मंहि᳚ष्ठं चर्षणी॒नाम् ॥
पान्त᳚म् । आ । वः॒ । अन्ध᳚सः । इन्द्र᳚म् । अ॒भि । प्र । गा॒य॒त॒ ।
वि॒श्व॒॑सह᳚म् । श॒त॑क्र᳚तुम् । मंहि᳚ष्ठम् । च॒र्ष॒णी॒नाम् ॥
हे ऋत्विजः वोयुष्मदीयं अंधसः सोमलक्षणमन्नं आपांतं आभिमुख्येन पिबतम् । पा पाने छान्दसः शपोलुक् सर्वेविधयश्छन्दसिविकल्यन्तेइति नलोकाव्ययेति षष्ठीप्रतिषेधाभावः । ततोन्धसइत्यस्य कर्तृकर्मणोरितिषष्ठी । सोममाभिमुख्येन पिबन्तमेतादृशमिन्द्रं प्रगायत प्रकर्षे णाभिष्टुत । कीदृशं विश्वसहं सर्वेषां शत्रूणामभिभवितारं सर्वेषां भूतजातानां वा । अतएव शतक्रतुं बहुविधप्रज्ञानं बहुविधकर्माणं वा चर्षणीनां मनुष्याणां मंहिष्ठं धनस्यदातृतमम् । यद्वा यजमानानां यष्टव्यत्वेन पूजनीयमिन्द्रं गायतेति समन्वयः ॥ १ ॥
पु॒रु॒हू॒तं पु᳚रुष्टु॒तं गा᳚था॒न्यं१॒᳚ सन᳚श्रुतम् ।
इन्द्र॒ इति᳚ ब्रवीतन ॥
पु॒रु॒॑हू॒तम् । पु॒रु॒॑स्तु॒तम् । गा॒था॒न्य᳚म् । सन᳚॑श्रुतम् ।
इन्द्रः᳚ । इति᳚ । ब्र॒वी॒त॒न॒ ॥
हे ऋत्विग्यजमानाः पुरुहूतं यज्ञेषु बहुभिराहूतं पुरुष्टुतं बहुभिः स्तोत्राशस्त्रादिभिः स्तुतं अतएव गाथान्यं गानयोग्यं गातव्यं सनश्रुतं सनातनतया प्रसिद्धं एवंविधं देवं इन्द्रइति यूयं ब्रवीतन ब्रूयात । ब्रूञ् व्यक्तायां वाचि इत्यस्य लोटि व्यत्ययेन ध्वमस्तनबादेशः अतएवगुणः ॥ २ ॥
इन्द्र॒ इन्नो᳚ म॒हानां᳚ दा॒ता वाजा᳚नां नृ॒तुः ।
म॒हा{4} अ᳚भि॒ज्ञ्वा य᳚मत् ॥
इन्द्रः᳚ । इत् । नः॒ । म॒हाना᳚म् । द॒ता । वाजा᳚नाम् । नृ॒तुः ।
म॒हान् । अ॒भि॒॑ज्ञु । आ । य॒म॒त् ॥
इन्द्रइत् पूर्वोक्तलक्षणइन्द्रएव नोस्मभ्यं महानां महतां वाजानामन्नानां यद्वा महानां वर्णव्यत्ययः मघानां धनानां वाजानामन्नानांच दाता भवतु । कीदृशः नृतुः नृतिशृध्योः कूरितिकूप्रत्ययः ह्रस्वश्छान्दसः । सर्वस्य नर्तयिता यद्वा नॄनये औणादिकः तुप्रत्ययः धातोर्ह्रस्वश्छान्दसः स्तोतृभ्यो गवादिनेता अतएव महान् सइन्द्रः अभिज्ञु अभिगतजानुकं अस्मभ्यं आयमत् आयच्छतु ददातु । यद्वा सइन्द्रः अभिज्ञु अस्मदभिमुखं आगच्छत् धनं स्वहस्तयोः परिगृह्य अस्मान्नायतु धनं गृहीत्वा अस्मभ्यं ददात्वित्यर्थः ॥ ३ ॥
अपा᳚दु शि॒प्र्यन्ध᳚सः सु॒दक्ष᳚स्य प्रहो॒षिणः᳚ ।
इन्दो॒रिन्द्रो॒ यवा᳚शिरः ॥
अपा᳚त् । ऊं॒ इति᳚ । शि॒प्री । अन्ध᳚सः । सु॒॑दक्ष᳚स्य । प्र॒॑हो॒षिणः᳚ ।
इन्दोः᳚ । इन्द्रः᳚ । यव᳚॑आशिरः ॥
शिप्री शिप्रेहनूनासिकेवा शोभनहनुः यद्वा शिप्राः शीर्षण्याः सुशिरस्त्राणः सइन्द्रएव प्रहोषिणः प्रकर्षेण देवान् हविर्भिर्जुह्वतः सुदक्षस्य एतन्ना- मकस्य ऋषेः संबन्धि यवाशिरः श्रीङ्पाके आङ्पूर्वस्य अपस्पृधेथामानृचुरित्यादिना धातोः शिरादेशः यवैरामिश्रितं यवैः सह पक्वं इन्दोः सर्वतः पात्रेषु क्षरन्त अन्धसः सोमलक्षणमन्नमपादपिबत् । यद्वा अस्यसोमस्य भागमिन्द्रार्थं परिकल्पितं सोमांशमपिबत् । उइत्यवधारणे ॥ ४ ॥
तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम᳚स्य पी॒तये᳚ ।
तदिद्ध्य᳚स्य॒ वर्ध᳚नम् ॥
तम् । ऊं॒ इति᳚ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र᳚म् । सोम᳚स्य । पी॒तये᳚ ।
तत् । इत् । हि । अ॒स्य॒ । वर्ध᳚नम् ॥
हे ऋत्विजः तमु नतेवेन्द्रं अभ्याभिमुख्येन प्रार्चत प्रकर्षेण स्तुत । किमर्थं सोमपीतये अत्रागत्य सोमपानाय । किमर्थं सोमपानायेति विशेष्यते तदाह-तदित् तत्सोमपानमेव अस्येन्द्रस्य वर्धनं वर्धकं भवति खलु तस्मात्सोमपानजहर्षाय प्रार्चत ॥ ५ ॥
अ॒स्य पी॒त्वा मदा᳚नां दे॒वो दे॒वस्यौज᳚सा ।
विश्वा॒भि भुव᳚ना भुवत् ॥
अ॒स्य । पी॒त्वा । मदा᳚नाम् । दे॒वः । दे॒वस्य᳚ । ओज᳚सा ।
विश्वा᳚ । अ॒भि । भुव᳚ना । भु॒व॒त् ॥
देवोद्योतमानइन्द्रः अस्य अस्माभिर्दीयमानस्य सोमस्य मदानां मदकरान् रसान् पीत्वा पानं कृत्वा । यद्वा अस्य एतं सोमं पीत्वा । तथा मदानां मदसाधनादीनि भक्षयित्वा देवस्य गृहेषु शोभमानस्य । यद्वा देवनशीलस्य देवैः काम्यमानस्य सोमस्य पानजातेन ओजसा बलेन विश्वा भुवना सर्वाणि भुवनानि भूतजातानि अभिभुवत् अभिभवति । सोमस्य तामदइन्द्रश्चकारेत्यादिषु । सोमपानमदे सर्वाणिवृत्रहननादिकर्माणि चकारेती । एवमत्रापि सर्वाणि भूताभिभवनादीनि कर्माण्यकार्षीदिति ॥ ६ ॥ प्रथमेपर्याये होतुःशस्त्रे त्यमुवःसत्रासाहमित्यादि सूक्तशेषः । सूत्रितंच त्यमुवःसत्रासाहमिति सूक्तशेषोभित्यंमेषमिति । अप्तोर्यामे च्छावाका- तिरिक्तोक्थ्ये त्यमुवःसत्रासाहमिति तृचोवैकल्पिकःस्तोत्रियः । सूत्रितंच-त्यमुवःसत्रासाहं सत्रातेअनुकृष्टयइतिवा स्तोत्रियानुरूपाविति । व्यूढस्य दशरात्रस्य चतुर्थेहनि नेष्केवल्ये एषएवतृचोनिविद्धानीयः । सूत्रितंच-इमंनुमायिनंहुवे त्यमुवःसत्रासाहमिति ।
त्यमु᳚ वः सत्रा॒साहं॒ विश्वा᳚सु गी॒र्ष्वाय᳚तम् ।
आ च्या᳚वयस्यू॒तये᳚ ॥
त्यम् । ऊं॒ इति᳚ । वः॒ । स॒त्रा॒॑सह᳚म् । विश्वा᳚सु । गी॒र्षु । आ॑य᳚तम् ।
आ । च्य॒व॒य॒सि॒ । ऊ॒तये᳚ ॥
यजमानः स्तोतारं संबोध्याह हे स्तोतः सत्रासाहं सत्राशब्दोबहुवाची बहुनामभिभवितारम् । यद्वा शत्रून् स्वबलेन संगत्य जेतारं वोयुष्मदीयेषु विश्वासु गीर्षु स्तोत्रेषु आयतं विस्तृतं सर्वत्रेन्द्रएव स्तूयते तस्मात्तेषु विततं त्यं उइत्यवधारणे तमेवेन्द्रं ऊतये अस्मद्रक्षणाय आच्यावयसि । च्युङ् प्लुङ् गतौ । त्वदीयैः स्तोत्रैर्यज्ञं प्रत्याभिमुख्येनागमय ॥ ७ ॥
यु॒ध्मं सन्त᳚मन॒र्वाणं᳚ सोम॒पामन᳚पच्युतम् ।
नर᳚मवा॒र्यक्र᳚तुम् ॥
यु॒ध्मम् । सन्त᳚म् । अ॒न॒र्वाण᳚म् । सो॒म॒॑पाम् । अन᳚प॑च्युतम् ।
नर᳚म् । अ॒वा॒र्य॑क्र᳚तुम् ॥
एवंगुणोपेतं इन्द्रं आगमयेत्याह-युध्मं शत्रूणां संप्रहारकं सन्तं अतएवानर्वाणमन्यैरप्रत्यृतं अनभिगतं तस्मात् अनपच्युतं संग्रामेषु शत्रुभिरहिंसितं सोमपां सोमस्य पातारं अस्य सोमस्य मदे सति अवार्यक्रतुं भटैरनिवारणीयकर्माणं नरं सर्वस्य नेतारं एतादृग्गुणोपेतमिन्द्रमागमयेति पूर्वेणसह संबन्धः ॥ ८ ॥
शिक्षा᳚ ण इन्द्र रा॒य आ पु॒रु वि॒द्वा{4} ऋ᳚चीषम ।
अवा᳚ न॒ः पार्ये॒ धने᳚ ॥
शिक्ष᳚ । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । पु॒रु । वि॒द्वान् । ऋ॒ची॒ष॒म॒ ।
अव᳚ । नः॒ । पार्ये᳚ । धने᳚ ॥
हे ऋचीषम स्तुत्यासम यद्वा ईषगतिहिंसादर्शनेषु अस्मादम् प्रत्ययः सर्वैर्गन्तव्य दर्शनीय वा उक्तगुणोपेत हे इन्द्र विद्वान् सर्वविषयज्ञानवान् त्वं शत्रुभ्यआहृत्य रायोधनानि नोस्मभ्यं पुरु बहुवारं शिक्ष प्रयच्छ । यद्वा पुरुइति रायोविशेषणं बहूनि धनानि प्रयच्छ । किंच पार्ये पाराः शत्रवः तत्रभवे धने आजिहीर्षितं शत्रुधने नोस्मानव रक्ष शत्रून्हत्वा तद्धनेनास्मान्पालयेत्यर्थः ॥ ९ ॥
अत᳚श्चिदिन्द्र ण॒ उपा या᳚हि श॒तवा᳚जया ।
इ॒षा स॒हस्र᳚वाजया ॥
अतः᳚ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप᳚ । आ । या॒हि॒ । श॒त॑वा᳚जया ।
इ॒षा । स॒हस्र᳚॑वाजया ॥
हे इन्द्र अतश्चिदस्मात् द्युलोकादेव । यद्वा अस्माच्छत्रुस्थानात् शतवाजया शतसंख्याकबलयुक्तेन तथा सहस्रवाजया वाजोन्नं सहस्रसंख्यान्नवता बहुबलान्नेन इषा अन्नरसेन युक्तः सन् नोस्मानुपायाहि अधिकं आभिमुख्येन आगच्छ ॥ १० ॥
अया᳚म॒ धीव᳚तो॒ धियो॑र्व᳚द्भिः शक्र गोदरे ।
जये᳚म पृ॒त्सु व᳚ज्रिवः ॥
अया᳚म । धी॑व᳚तः । धियः᳚ । अर्व᳚त्॑भिः । श॒क्र॒ । गो॒॑द॒रे॒ ।
जये᳚म । पृ॒त्॑सु । व॒ज्रि॒॑वः॒ ॥
हे शक्र समर्थेन्द्र धीवतः छन्दसीरइति मतुपोवत्वं कर्मकरणात् कर्मवन्तोवयं धियः युद्धजयार्थं कर्माणि अयाम गच्छाम । ततः गोदरे दृविदारणे अचइरितीप्रत्ययः गवां पर्वतानां दरयितः हे वज्रिवः वज्रवन् । यद्वा वजनं गमनं वज्रः तद्वान् कुलिशः तद्वन्निन्द्र पृत्सु संग्रामेषु अर्वद्भिः सर्वतो- गन्तृभिः त्वया दत्तैरश्वैः जयेम वयं तवादातॄन् जेष्यामः ॥ ११ ॥
व॒यमु᳚ त्वा शतक्रतो॒ गावो॒ न यव᳚से॒ष्वा ।
उ॒क्थेषु᳚ रणयामसि ॥
व॒यम् । ऊं॒ इति᳚ । त्वा॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । गावः᳚ । न । यव᳚सेषु । आ ।
उ॒क्थेषु᳚ । र॒ण॒या॒म॒सि॒ ॥
हे शतक्रतो बहुप्रज्ञान बहुकर्मवन् वा इन्द्र त्वा सर्वतः उ इत्यवधारणे त्वामेव उक्थेषु स्तोत्रशस्त्रादिकेषु वयं रणयामसि इदंतोमसिः । आरणयामः शब्दयामः रमयामइत्यर्थः । तत्रदृष्टान्तः-गावोन यथा गोपालो यवसेषु तृणविशेषेषु गावो गाः पशूनासमन्तात् स्मयति तद्वत् । गावइति सर्ववि- धीनां छन्दसि विकल्पितत्वात् ओत्वाभावः ॥ १२ ॥
विश्वा॒ हि म᳚र्त्यत्व॒नानु᳚का॒मा श᳚तक्रतो ।
अग᳚न्म वज्रिन्ना॒शसः᳚ ॥
विश्वा᳚ । हि । म॒र्त्य॒॑त्व॒ना । अ॒नु॒॑का॒मा । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
अग᳚न्म । व॒ज्रि॒न् । आ॒॑शसः᳚ ॥
हे शतक्रतो बहुप्रज्ञेन्द्र मर्त्यत्वना मर्त्यत्वानि सुपांसुलुगिति विभक्तेराजादेशः संज्ञापूर्वकस्य विधेरनित्यत्वाद्दीर्घाभावः । विश्वाहि विश्वान्येव मर्त्य- त्वानि अनुकामाकामानभिलाषाननु गतानि कामोपेतानीत्यर्थः । मनुष्याश्चैप्तानि कामयन्तइत्यर्थः । तथासति हे वज्रिन वज्रवन्निन्द्र यष्टारोवयमपि आशसः आशंसनानि धनादिकामानगन्म अवगच्छामः । गमेर्लेटि बहुलंछन्दसीति शपोलुक् म्वोश्चेति मकारस्य नकारः ॥ १३ ॥
त्वे सु पु᳚त्र शव॒सो॑वृ᳚त्र॒न्काम᳚कातयः ।
न त्वामि॒न्द्राति᳚ रिच्यते ॥
त्वे इति᳚ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ᳚त्रन् । काम᳚॑कातयः ।
न । त्वाम् । इ॒न्द्र॒ । अति᳚ । रि॒च्य॒ते॒ ॥
हे शवसस्पुत्र बलनिमित्तमुत्पन्नत्वाद्बलस्यपुत्रेन्द्र कामकातयः कैगै शब्दे कामपराः कातयः शब्दायेषां भवन्ति ते तथोक्ताः तादृशामनुष्याः त्वे त्वयि स्ववृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते तस्मान्मर्त्यत्वानि कामोपेतानीत्युत्पन्नम् । वृतुवर्तने लङि छान्दसोविकरणस्यलुक् बहुलंछन्दसीति रुडागमः । यतएवं ततः हे इन्द्र त्वां कश्चिदपि देवोनातिरिच्यते बलेन धनेनवा अतिरिक्तः समर्थोनास्ति ॥ १४ ॥
स नो᳚ वृष॒न्त्सनि᳚ष्ठया॒ सं घो॒रया᳚ द्रवि॒त्न्वा ।
धि॒यावि᳚ड्ढि॒ पुरं᳚ध्या ॥
सः । नः॒ । वृ॒ष॒न् । सनि᳚ष्ठया । सम् । घो॒रया᳚ । द्र॒वि॒त्न्वा ।
धि॒या । अ॒वि॒ड्ढि॒ । पुर᳚म्॑ध्या ॥
हे वृषन् कामानां वर्षितरिन्द्र सपूर्वोक्तलक्षणस्त्वं सनिष्ठया षणुदाने धनादेर्दातृतमया घोरया सपत्नानां भयकारिण्या अतएव द्रवित्न्वा द्राव- यित्र्या शत्रूणां पलायित्र्या । द्रवतेरित्नुच् प्रत्ययः । पुरंध्या बहूनां धारयित्र्या पोषयित्र्या धिया तादृशेन कर्मणा नोस्मान् समविडृइ समन्ता- त्पालय । अवतेर्लेटि बहुलंछन्दसीति शपोलुक् बहुलवचनात्सिपडडागमः । अस्मान् धनदानादिना रक्षेत्यर्थः ॥ १५ ॥
यस्ते᳚ नू॒नं श᳚तक्रत॒विन्द्र᳚ द्यु॒म्नित᳚मो॒ मदः᳚ ।
तेन᳚ नू॒नं मदे᳚ मदेः ॥
यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । इन्द्र᳚ । द्यु॒म्नि॑त᳚मः । मदः᳚ ।
तेन᳚ । नू॒नम् । मदे᳚ । म॒दे॒रिति᳚ मदेः ॥
अत्र सोमः स्तूयते-हे शतक्रतो शतविधप्रज्ञान हे इन्द्र द्युम्नितमः यशस्वितमः योमदः माद्यंत्यनेनेति मदःसोमः यः सोमः नूनं पुरा ते त्वदर्थम- स्माभिरभिषुतोस्ति । तेन अस्माभिः प्रदीयमानसोमेन नूनमिदानीं मदे तत्पानेन मदे तव सजाते सति अस्मानपि मदेः धनादिदानेन त्वं मादय । मदीहर्षे अत्रान्तर्णीतण्यर्थः । बहुलमितिशप् ॥ १६ ॥
यस्ते᳚ चि॒त्रश्र᳚वस्तमो॒ य इ᳚न्द्र वृत्र॒हन्त᳚मः ।
य ओ᳚जो॒दात᳚मो॒ मदः᳚ ॥
यः । ते॒ । चि॒त्रश्र᳚वः॑तमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्॑त᳚मः ।
यः । ओ॒जः॒॑दात᳚मः । मदः᳚ ॥
हे इन्द्र चित्रश्रवस्तमः अतिशयेन नानाविधकीर्तिः योमदः सोमः ते त्वदर्थमस्माभिरभिषुतः यः सोमः वृत्रहन्तमः अतिरायेन पापानां हन्ता । किंच यः सोमः ओजोदातमः अतिशयेन बलस्य दाता तेनास्माभिर्दीयमानेन सोमेन त्वं माद्येरिति पूर्वेणसंबन्धः ॥ १७ ॥
वि॒द्मा हि यस्ते᳚ अद्रिव॒स्त्वाद᳚त्तः सत्य सोमपाः ।
विश्वा᳚सु दस्म कृ॒ष्टिषु᳚ ॥
वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒॑वः॒ । त्वा॑द᳚त्तः । स॒त्य॒ । सो॒म॒॑पाः॒ ।
विश्वा᳚सु । द॒स्म॒ । कृ॒ष्टिषु᳚ ॥
हे अद्रिवः अद्रिर्वज्रः तद्वन् हे सत्य यथार्थकर्मन् सोमपाः सोमस्यपाताः दस्म दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र विश्वासु कृष्टिषु सर्वेषु सोमस्यदातृषु यजमानेषु त्वादत्तः त्वयादत्तः ते त्वदीयोयोरयिरस्ति तं विद्महि यष्टारोवयं अपि जानीमएव । यद्वा हे इन्द्र सर्वेषु यष्टृषु मध्ये वयं ते त्वदीयमेव नान्यदीयमिति तं सोमं जानीमएव । यः सोमः त्वादत्तः अस्माभिस्त्वदर्थं दीयते अत्र त्वादेशश्छान्दसः ॥ १८ ॥ प्रथमेपर्यायेच्छावाकस्य इन्द्रायमद्वनेसुतमिति स्तोत्रियः । सूत्रितंच-इन्द्रायमद्वनेसुतमिन्द्रमिद्गाथिनो बृहदिति ।
इन्द्रा᳚य॒ मद्व᳚ने सु॒तं परि᳚ ष्टोभन्तु नो॒ गिरः᳚ ।
अ॒र्कम᳚र्चन्तु का॒रवः᳚ ॥
इन्द्रा᳚य । मद्व᳚ने । सु॒तम् । परि᳚ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः᳚ ।
अ॒र्कम् । अ॒र्च॒न्तु॒ । का॒रवः᳚ ॥
मद्वने माद्यतेः क्वनिप् मदनशीलायेन्द्राय तदर्थं सुतमभिषुतं सोमं नोस्मदीया गिरः स्तुतिलक्षणावाचः परिष्टोभन्तु स्तोभतिः स्तुतिकर्मा परितः सोमं स्तुवन्तु । ततः कारवः स्तुतिकारिणः स्तोतारश्च अर्कं सर्वैरर्चनीयं सोममर्चन्तु पूजयन्तु ॥ १९ ॥
यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण᳚न्ति स॒प्त सं॒सदः᳚ ।
इन्द्रं᳚ सु॒ते ह᳚वामहे ॥
यस्मि᳚न् । विश्वाः᳚ । अधि᳚ । श्रियः᳚ । रण᳚न्ति । स॒प्त । स॒म्॑सदः᳚ ।
इन्द्र᳚म् । सु॒ते । ह॒वा॒म॒हे॒ ॥
यस्मिन्निन्द्रे विश्वाः सर्वाः श्रियः कान्तयः अधि अधिकं भवन्ति अतिशयेन तेजस्वीत्यर्थः । किंच सप्त सप्तसंख्याकाः संसदः सम्यग्यज्ञेषु कर्म- करणार्थं सीदन्तीति संसदो होत्रकाः यस्मिन् रणन्ति सोमप्रदानार्थं रमन्ते । यद्वा यं शब्दयन्ति स्तुवन्ति तं पूर्वोक्तलक्षणमिन्द्रं सुते सोमेभिषुते सति हवामहे वयं सोमपानायाह्वयामः ॥ २० ॥
त्रिक᳚द्रुकेषु॒ चेत᳚नं दे॒वासो᳚ य॒ज्ञम᳚त्नत ।
तमिद्व᳚र्धन्तु नो॒ गिरः᳚ ॥
त्रि॑क᳚द्रुकेषु । चेत᳚नम् । दे॒वासः᳚ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ ॥
हे देवासो देवा इन्द्रायः त्रिकद्रुकेषु आभिप्लविकेष्वहस्सु ज्योतिर्गौरायुरिति त्रिकद्रकाः तेषु चेतनं चितीसंज्ञाने चेतन्ति जानन्ति अनेन स्वर्गादिक- मिति चेतनः ज्ञानसाधनं यज्ञं अत्नत अतन्वत स्वैः स्वैः कर्मभिः पालनैश्च विस्तारितवन्तः । तनुविस्तारे लङि बहुलंछन्दसीति विकरणस्यलुक् तनिपत्योश्छन्दसीति उपधालोपः । तमित् तमेव अस्मदीयं यज्ञं नोस्माकं गिरः स्तुतिलक्षणावाचो वर्धंतु वर्धयन्तु ॥ २१ ॥
आ त्वा᳚ विश॒न्त्विन्द᳚वः समु॒द्रमि᳚व॒ सिन्ध᳚वः ।
न त्वामि॒न्द्राति᳚ रिच्यते ॥
आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द᳚वः । स॒मु॒द्रम्॑इ᳚व । सिन्ध᳚वः ।
न । त्वाम् । इ॒न्द्र॒ । अति᳚ । रि॒च्य॒ते॒ ॥
हे इन्द्र इन्दवः स्रवन्तः अस्माभिर्दीयमानाः सोमाः त्वा त्वां आविशन्तु सर्वतः प्रविशन्तु । तत्रदृष्टान्तः-समुद्रमिवसिन्धवः स्यन्दमाना नद्योयथा समुद्रं जलाशयं सर्वतः प्रविशन्ति तद्वत् । यतएवं तस्मात् हे इन्द्र त्वां कश्चिदपि देवोबलेन धनेनवा नातिरिच्यते नातिरिक्तोस्ति सामर्थ्यवान् त्वत्तोधिकोनास्तीत्यर्थः ॥ २२ ॥
वि॒व्यक्थ᳚ महि॒ना वृ᳚षन्भ॒क्षं सोम᳚स्य जागृवे ।
य इ᳚न्द्र ज॒ठरे᳚षु ते ॥
वि॒व्यक्थ᳚ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम᳚स्य । जा॒गृ॒वे॒ ।
यः । इ॒न्द्र॒ । ज॒ठरे᳚षु । ते॒ ॥
हे वृषन् कामानांवर्षितः हे जागृवे जागरणशीलेन्द्र त्वं तस्य सोमस्य भक्षं पानं प्रति महिना स्वमहिम्ना विव्यक्थ सर्वतो व्याप्तवानसि । व्यचेर्लिटि थलि अभ्यासस्योभयेषामिति संप्रसारणम् । हे इन्द्र यः सोमः ते जठरेषु उदरेषु प्रविशति तस्य पानं व्याप्तवानसीतिशेषः ॥ २३ ॥
अरं᳚ त इन्द्र कु॒क्षये॒ सोमो᳚ भवतु वृत्रहन् ।
अरं॒ धाम᳚भ्य॒ इन्द᳚वः ॥
अर᳚म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये᳚ । सोमः᳚ । भ॒व॒तु॒ । वृ॒त्र॒॑ह॒न् ।
अर᳚म् । धाम᳚॑भ्यः । इन्द᳚वः ॥
हे वृत्रहन् वृत्रस्यापामावरकस्यासुरस्य पापस्यवा हन्तर्हे इन्द्र सोमोस्माभिर्दीयमानस्ते तव कुक्षये अरमलं पर्याप्तोभवतु । किंच इन्दवः सर्वतः क्षरणशीलाः सोमाः तवधामभ्यः नानाविधेभ्यः शरीरेभ्यः तव तेजोभ्योवा अरमलं पर्याप्ताभवन्तु । अनेन तेजसा हविर्भाक्त्वमस्तीति सूचितम् । अस्मदीयाः सोमाएव तवकुक्षये देहेभ्योपि पर्याप्ताभवन्तु नान्यदीया इतिभावः ॥ २४ ॥
अर॒मश्वा᳚य गायति श्रु॒तक᳚क्षो॒ अरं॒ गवे᳚ ।
अर॒मिन्द्र᳚स्य॒ धाम्ने᳚ ॥
अर᳚म् । अश्वा᳚य । गा॒य॒ति॒ । श्रु॒त॑क᳚क्षः । अर᳚म् । गवे᳚ ।
अर᳚म् । इन्द्र᳚स्य । धाम्ने᳚ ॥
श्रुतकक्षोनामऋषिः गवाश्वादिलाभार्थमिन्द्रं स्तौति-अयं श्रुतकक्षः एतन्नामकऋषिः अश्वाय इन्द्रेण दीयमानायाश्वाय एतदर्थं अरमलं गायति इन्द्रविषयं स्तोत्रं करोति । तथा गवे अरमलं गायति इन्द्रस्य इन्द्रकर्तृकाय धाम्ने गृहाय तदर्थंच अरं पर्याप्तं स्तौति । यदश्वादिकमिन्द्रः प्रयच्छति तस्मै गायतीति । यद्वा इन्द्रस्येति कर्मणि षष्ठी गवादिलाभार्थमिन्द्रं स्तौति ॥ २५ ॥
अरं॒ हि ष्म᳚ सु॒तेषु᳚ ण॒ः सोमे᳚ष्विन्द्र॒ भूष᳚सि ।
अरं᳚ ते शक्र दा॒वने᳚ ॥
अर᳚म् । हि । स्म॒ । सु॒तेषु᳚ । नः॒ । सोमे᳚षु । इ॒न्द्र॒ । भूष᳚सि ।
अर᳚म् । ते॒ । श॒क्र॒ । दा॒वने᳚ ॥
हे इन्द्र सुतेष्वभिषुतेषु नोस्मदीयेषु सोमेषु । हिष्मेत्यवधारणे त्वमेव तेषां पाने अलं पर्याप्तोभूषसि भवसि । यद्वा सोमेष्वभिषुतेषु सत्सु नोस्माकं पर्याप्तं धनं भूषसि । भुप्राप्तौ त्वं प्रापय । तथा हे शक्र समर्थेन्द्र दावने धनादिकस्य दात्रे ते तुभ्यं अस्माभिर्दीयमानाः सोमाः अरमलं पर्याप्ता भवन्तु ॥ २६ ॥
प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वां न᳚क्षन्त नो॒ गिरः᳚ ।
अरं᳚ गमाम ते व॒यम् ॥
प॒रा॒कात्ता᳚त् । चि॒त् । अ॒द्रि॒॑वः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः᳚ ।
अर᳚म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥
हे अद्रिवः वज्रवन्निन्द्र नोस्मदीयागिरः इतोनिर्गताः स्तुतयः पराकात्तात् । चिदप्यर्थः । अतिदूरादपि त्वां नक्षन्त व्याप्नुवन्तु किमुत समीपात्त्वां अश्नुवन्तामिति । नक्षतेर्व्याप्तिकर्मणो नशतेर्वा लेटि सिपि रूपम् । एवं सति स्तोतारो वयं त्वदीयं धनमरमलं पर्याप्तं गमाम त्वत्तो गच्छाम ॥ २७ ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिन एवाह्यसिवीरयुरिति वैकल्पिकःस्तोत्रियः । सूत्रितंच-एवाह्यसिवीरयुरेवाह्यस्यसूनृतेति ।
ए॒वा ह्यसि᳚ वीर॒युरे॒वा शूर᳚ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः᳚ ॥
ए॒व । हि । असि᳚ । वी॒र॒॑युः । ए॒व । शूरः᳚ । उ॒त । स्थि॒रः ।
ए॒व । ते॒ । राध्य᳚म् । मनः᳚ ॥
हे इन्द्र त्वं वीरयुः वीरान् युद्धकर्मणि समर्थान् शत्रून् हन्तुं कामयमानएवासि भवसि खलु । हि प्रसिद्धौ । अतएव त्वं शूरः सामर्थ्यवानेवभवसि । उतापिच स्थिरः संग्रामे धैर्यवान् भवसि एकत्रस्थित्वैव शत्रून् संप्रहरसीत्यर्थः । एवंसति ते तव मनोराध्यं स्तुतिभिराराधनीयमेव यतोनेन मनसा त्वं शत्रुवधं संग्रामे धैर्यादिकंच करोषीति तवमनएव सर्वैः स्तुत्यमित्यर्थः ॥ २८ ॥
ए॒वा रा॒तिस्तु᳚वीमघ॒ विश्वे᳚भिर्धायि धा॒तृभि᳚ः ।
अधा᳚ चिदिन्द्र मे॒ सचा᳚ ॥
ए॒व । रा॒तिः । तु॒वि॒॑म॒घ॒ । विश्वे᳚भिः । धा॒यि॒ । धा॒तृ॑भिः᳚ ।
अध᳚ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा᳚ ॥
हे तुविमघ तुविरिति बहुनाम बहुधनवन्निन्द्र विश्वेभिर्विश्वैर्धातृभिः कर्माधारकैः यद्वा देवानां हविर्दानेन पोषयितृभिः सर्वैर्यजमानैः तव रातिर्गवा- श्वधनादिदानं धायि तैर्धार्यतएव । दधातेर्लुङि कर्मणिरूपम् । चिदेवार्थे । अध अतएव हे इन्द्र एवंविध त्वं मे यष्टुर्ममापि सचा धनादिदानेन कर्मसहायोभव ॥ २९ ॥
मो षु ब्र॒ह्मेव᳚ तन्द्र॒युर्भुवो᳚ वाजानां पते ।
मत्स्वा᳚ सु॒तस्य॒ गोम᳚तः ॥
मो इति᳚ । सु । ब्र॒ह्मा॑इ᳚व । त॒न्द्र॒युः । भुवः᳚ । वा॒जा॒ना॒म् । प॒ते॒ ।
मत्स्व᳚ । सु॒तस्य᳚ । गो॑म᳚तः ॥
हे वाजानांपते अन्नानांपते बलानां वा हे इन्द्र तन्द्रयुः निष्कारणं निवृत्तकर्मवत्वादालस्ययुक्तो ब्रह्मेव ब्राह्मणइव । अथापि तद्वदर्थे भाष्यतइति । यास्कोक्तमनुसूत्य तंद्रयुक्तइत्युक्तम् । अथवा यागादिकर्मपरित्यागेनालस्यमिच्छन् नास्तिको ब्राह्मणइव त्वं मोषु भुवः सुष्ठु मा भवः । सर्वदा अस्मत्कर्मान्वितो भवेत्याशासनम् । तदेवाह-सुतस्याभिषुतस्य ततो गोमतः गव्येन क्षीरेण दध्नावा मिश्रणवतः सोमस्य पानेन मत्स्व माद्य । हृष्टोभव ॥ ३० ॥
मा न᳚ इन्द्रा॒भ्या॒३॒᳚दिश॒ः सूरो᳚ अ॒क्तुष्वा य᳚मन् ।
त्वा यु॒जा व᳚नेम॒ तत् ॥
मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒॑दिशः᳚ । सूरः᳚ । अ॒क्तुषु᳚ । आ । य॒म॒न् ।
त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥
हे इन्द्र आदिशः आदेष्टारः समन्तादायुधान्यतिविसृजन्तः सुरः सृगतौ सर्वत्र सरणशीलाराक्षसाः अक्तुषु रात्रिषु दिवापि नोस्माकं माभ्यायमन् आभिमुख्येन मा नियन्तारोभवन्तु । यद्यागताश्चेत् तदा तद्रक्षःकुलं त्वा त्वया युजा सहायेन वयं वनेम अहन्म । श्नथ क्रथक्लथ हिंसार्थाः । वनचेति पठितत्वात्सिद्धार्थः ॥ ३१ ॥
त्वयेदि᳚न्द्र यु॒जा व॒यं प्रति᳚ ब्रुवीमहि॒ स्पृधः᳚ ।
त्वम॒स्माकं॒ तव᳚ स्मसि ॥
त्वया᳚ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति᳚ । ब्रु॒वी॒म॒हि॒ । स्पृधः᳚ ।
त्वम् । अ॒स्माक᳚म् । तव᳚ । स्म॒सि॒ ॥
हे इन्द्र त्वयेत् । इदवधारणे । त्वयैव युजा सहायेन स्पृधः स्पर्धमानान् शत्रून् वयं प्रतिब्रुवीमहि निराकुर्वीमहि । प्रतिवचनं निराकरणम् । उत्तरार्धेन इन्द्रसाहाय्यमेव प्रतिपादयति-हे इन्द्र त्वमस्माकं भवसि स्तुत्यस्तोतृयष्टृयष्टव्यतया त्वमस्माकं भवसि । वयं तवस्मसि भवामः । तथारण्यकं-त्वमिदं सर्वमसि तववयंस्मः त्वमस्माकमसीति । तस्मात्त्वया सहायेन शत्रून्हन्यामेति ॥ ३२ ॥
त्वामिद्धि त्वा॒यवो᳚॑नु॒नोनु᳚वत॒श्चरा᳚न् ।
सखा᳚य इन्द्र का॒रवः᳚ ॥
त्वाम् । इत् । हि । त्वा॒॑यवः᳚ । अ॒नु॒॑नोनु᳚वतः । चरा᳚न् ।
सखा᳚यः । इ॒न्द्र॒ । का॒रवः᳚ ॥
हे इन्द्र कर्मोपद्रवपरिहारादनन्तरं त्वायवः त्वां धनादिदानार्थं कामयमानाः अतएव अनुनोनुवतः नौतेर्यङ्लुगन्तस्य शतरिरूपम् । अनुक्रमेण पुनःपुनः स्तुतिंकुर्वन्तः तस्मात्तव सखायः सखिभूताः कारवः स्तोतारः त्वामित् इदवधारणे त्वामेव चरान् स्तुतिभिः परिचरन्तु खलु । हीति प्रसिद्ध्यर्थः । चरतेर्लेट्यडागमः । हियोगादनिघातः ॥ ३३ ॥
उद्धेति चतुस्त्रिंशदृचं त्रयोदशंसूक्तं सुकक्षस्यार्षं गायत्रमैन्दं अन्त्यात्विन्द्रऋभुदेवताका । तथाचानुक्रान्तं-उद्धचतुस्त्रिंशत् सुकक्षोन्त्यैन्द्रार्भवीति । द्वितीयेपर्याये होतुःशस्त्रे उत्तमावर्जमेतत्सूक्तम् । सूत्रितंच-उद्धेदभीत्युत्तमामुद्धरेदिति । महाव्रतेप्यस्यविनियोगः पूर्वसूक्तेनसहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्रे आद्यस्तृचः । सूत्रितंच-उद्धेदभीतितिस्र इन्द्रक्रतुविदंसुतमिति याज्येति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थे अयंतृचोनुरूपः । सूत्रितंचयदद्यकच्चवृत्रहन्नुद्धेदभिश्रुतामघमानोविश्वाभिरिति ।