अष्टमं मण्डलम् - सूक्तम् 97

15 ऋचः

ऋषिः: रेभः काश्यपः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.97 - सम्पूर्णम्

1 / 15
ऋक्: 8.97.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
8.97.1
या इ᳚न्द्र॒ भुज॒ आभ᳚र॒ः स्व᳚र्वा{4}॒ असु᳚रेभ्यः ।
स्तो॒तार॒मिन्म᳚घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब᳚र्हिषः ॥
▶ पदपाठः (Word-by-word)
याः । इ॒न्द्र॒ । भुजः᳚ । आ । अभ᳚रः । स्वः᳚॑वान् । असु᳚रेभ्यः ।
स्तो॒तार᳚म् । इत् । म॒घ॒॑व॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति᳚ । वृ॒क्त॑ब᳚र्हिषः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरिन्द्रं प्रार्थयते हे इन्द्र स्वर्वान् सुखवान् स्वर्गवान्वा अथवा स्वसब्दः सर्वपर्यायः सर्वभूतजातमात्मनएवोत्पन्नत्वात् तद्वान् एवंगुणस्त्वं याः यानि भुजो भोक्तव्यानि धनानि असुरेभ्यो बलवड्भ्यो राक्षसेभ्यः आभरः आहरः तान् हत्वा आहृतवानसि । हृग्रहोरितिभकारादेशः । अतएव हे मघवन् धनवन्निन्द्र अस्य अन्वादेशे अशादेशः एतस्यास्य धनस्यदानेन स्तोतारमित् तवस्तोत्रकारिणमेव वर्धय वृद्धिमन्तंकुरु । येचान्ये यष्टारः त्वे त्वदर्थं वृक्तबर्हिषः स्तीर्णबर्हिषोभवन्ति अतस्तांश्च धनेन वर्धय ॥ १ ॥

8.97.2 समानपद
यमि᳚न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य᳚यम् ।
यज᳚माने सुन्व॒ति दक्षि᳚णावति॒ तस्मि॒न्तं धे᳚हि॒ मा प॒णौ ॥
▶ पदपाठः (Word-by-word)
यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व᳚म् । गाम् । भा॒गम् । अव्य᳚यम् ।
यज᳚माने । सु॒न्व॒ति । दक्षि᳚णा॑वति । तस्मि᳚न् । तम् । धे॒हि॒ । मा । प॒णौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यमश्वं गमनसाधनान् हरीन् गां अग्निहोत्रकर्मणि पयःप्रदानेनोपकारिकागाः अव्ययं व्ययरहितं अविनश्वरं भागं भजनीयं धनं सर्वत्रै- कत्वमविवक्षितं एतान् शत्रुभ्यः आहृत्य दधिषे धत्से बिभर्षि । तं सर्वं सुन्वति सोमाभिषवं कुर्वति दक्षिणावति यज्ञे ऋत्विग्भ्योदक्षिणादेयत्वेन तद्वति यजमाने यागंकुर्वाणे तस्मिन् त्वं धेहि । सर्वत्रधनादिदानं माकुर्वित्याह मापणौ पणव्यवहारे द्रव्यव्यवहारादयष्टाजनः पणिः तस्मिन् एतत्सर्वं मादेहि ॥ २ ॥

8.97.3
य इ᳚न्द्र॒ सस्त्य᳚व्र॒तो᳚॑नु॒ष्वाप॒मदे᳚वयुः ।
स्वैः ष एवै᳚र्मुमुर॒त्पोष्यं᳚ र॒यिं स᳚नु॒तर्धे᳚हि॒ तं ततः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्र॒ । सस्ति᳚ । अ॒व्र॒तः । अ॒नु॒॑स्वाप᳚म् । अदे᳚व॑युः ।
स्वैः । सः । एवैः᳚ । मु॒मु॒र॒त् । पोष्य᳚म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अदेवयुः देवान् युष्मानकामयमानः अव्रतोव्रतरहितः कर्मरहितोभूत्वा अनुस्वापं अनुवृत्तस्वप्नं यथाभवति तथा यः सस्ति स्वपिति षसस्वापे आदादिकः सजनः स्वैरात्मीयैः एवैर्गमनैरेव पोष्यं पोषणीयं रयिं स्वीयं धनं मुमुरत् मारयतु विनाशयतु । अमार्गैर्द्यूतादिभिः तस्यधनं नश्यतु नतु देवानां हविःप्रदानेनेति । ततः त्वं तमयष्टारं जनं सनुतरित्यन्तर्हितनाम सनुतः अन्तर्हिते कर्मरहिते कस्मिंश्चिद्देशे धेहि स्थापय ॥ ३ ॥

8.97.4
यच्छ॒क्रासि᳚ परा॒वति॒ यद᳚र्वा॒वति᳚ वृत्रहन् ।
अत᳚स्त्वा गी॒र्भिर्द्यु॒गदि᳚न्द्र के॒शिभि᳚ः सु॒तावा{4}॒ आ वि᳚वासति ॥
▶ पदपाठः (Word-by-word)
यत् । श॒क्र॒ । असि᳚ । प॒रा॒॑वति᳚ । यत् । अ॒र्वा॒॑वति᳚ । वृ॒त्र॒॑ह॒न् ।
अतः᳚ । त्वा॒ । गीः॒॑भिः । द्यु॒॑गत् । इ॒न्द्र॒ । के॒शि॑भिः᳚ । सु॒त॑वा᳚न् । आ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शक्र शत्रुहननसमर्थेन्द्र यद्यदा परावति विप्रकृष्टेतिदूरे द्युलोके देशे असि विद्यसे हे वृत्रहन् वृत्रस्य हन्तरिन्द्र यद्यदि अर्वावति अर्वाचीने तस्मादधस्तात् स्थिते तदपेक्षया समीपेदेशेन्तरिक्षे भवसि । तस्मादपि अतोस्माद्भूलोकाद्वा द्युगत् गमॢगतौ क्विपि गमःक्वाविति अनुना- सिकलोपः तुक् सुपांसुलुगितिलुक् । द्युलोकंप्रति गच्छद्भिः स्वभासा सर्वतोगच्छद्भिः केशिभिः केशवद्भिः हरिभिरिवस्थिताभिर्गीर्भिः स्तुतिभिः त्वा त्वां सुतवानभिषुतसोमवान्यजमान आविवासति आत्मीयं यज्ञं प्रत्यागमयति त्वामेतैः स्तोत्रैःपरिचरतीतिवा ॥ ४ ॥

8.97.5 समानपद
यद्वासि᳚ रोच॒ने दि॒वः स᳚मु॒द्रस्याधि᳚ वि॒ष्टपि᳚ ।
यत्पार्थि᳚वे॒ सद᳚ने वृत्रहन्तम॒ यद॒न्तरि᳚क्ष॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । असि᳚ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य᳚ । अधि᳚ । वि॒ष्टपि᳚ ।
यत् । पार्थि᳚वे । सद᳚ने । वृ॒त्र॒ह॒न्॑त॒म॒ । यत् । अ॒न्तरि᳚क्षे । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्वा यदिवा दिवोद्युलोकस्य रोचने दीपनशीले स्थाने असि भवसि । यद्वा समुद्रस्य मध्ये अधि अधिगते विष्टपि विष्टपे तत्संबद्धे कस्मिं- श्चित्स्थाने भवसि । हे वृत्रहन्तम अतिशयेन वृत्रस्यासुरस्य पापस्य वा हन्तरिन्द्र यद्यदिवा पार्थिवे पृथिव्यांभवे सदने स्थाने विद्यसे यदिवा अन्तरिक्षे तस्मिन् लोके वर्तसे यत्रकुत्र भवसि तथापि अस्मदीयं यज्ञं प्रत्यागहि आगच्छ ॥ ५ ॥

8.97.6
स न॒ः सोमे᳚षु सोमपाः सु॒तेषु᳚ शवसस्पते ।
मा॒दय᳚स्व॒ राध᳚सा सू॒नृता᳚व॒तेन्द्र᳚ रा॒या परी᳚णसा ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । सोमे᳚षु । सो॒म॒॑पाः॒ । सु॒तेषु᳚ । श॒व॒सः॒ । प॒ते॒ ।
मा॒दय᳚स्व । राध᳚सा । सू॒नृता᳚॑वता । इन्द्र᳚ । रा॒या । परी᳚णसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपाः सोमस्यपातः हे शवसस्पते बलस्यपालयितरिन्द्र सपूर्वोक्तलक्षणस्त्वं सुतेष्वस्माभिरभिषुतेषु सोमेषु नोस्मान् राधसा बलसाधनान्नेन सूनृतावता अनृतरहितत्वोपेतेन । यद्वा सूनृतेति वाङ्नाम शोभनवाक्ययुक्तेन । अनेन पुत्रादिकं लक्ष्यते पुत्रोपेतेनान्नेन परीणसा बहुनामैतत् बहुना राया धनेनच नोस्मान्मादयस्व मोदय सोमस्य प्रदातृभ्योस्मभ्यमन्नपुत्रधनादिकं देहीत्यर्थः ॥ ६ ॥

8.97.7
मा न᳚ इन्द्र॒ परा᳚ वृण॒ग्भवा᳚ नः सध॒माद्य᳚ः ।
त्वं न᳚ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न᳚ इन्द्र॒ परा᳚ वृणक् ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । इ॒न्द्र॒ । परा᳚ । वृ॒ण॒क् । भव᳚ । नः॒ । स॒ध॒॑माद्यः᳚ ।
त्वम् । नः॒ । ऊ॒ती । त्वम् । इत् । नः॒ । आप्य᳚म् । मा । नः॒ । इ॒न्द्र॒ । परा᳚ । वृ॒ण॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मो हविषांप्रदातॄनस्मान्मापरावृणक् मापरित्याक्षीः वृजीवर्जने रौधादिकः लङि रूपम् । तदेवाह-त्वं नोस्माकं सोमेन सधमाद्यः सहमादन- शीलोभव । किंच हे इन्द्र नोस्मान् त्वमेव ऊती ऊत्यां स्थापय । यद्वा ऊती व्यत्ययेन कर्तरि क्तिचि वा निपातितः त्वमेवास्माकं रक्षिता खलु । तथा त्वमित् इदवधारणे त्वमेवास्माकमाप्यं ज्ञातेयं त्वमेव बन्धुरित्यर्थः । अतएव मानइन्द्रपरावृणगिति एषगतोर्थः ॥ ७ ॥

8.97.8
अ॒स्मे इ᳚न्द्र॒ सचा᳚ सु॒ते नि ष᳚दा पी॒तये॒ मधु᳚ ।
कृ॒धी ज᳚रि॒त्रे म᳚घव॒न्नवो᳚ म॒हद॒स्मे इ᳚न्द्र॒ सचा᳚ सु॒ते ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । इ॒न्द्र॒ । सचा᳚ । सु॒ते । नि । स॒द॒ । पी॒तये᳚ । मधु᳚ ।
कृ॒धि । ज॒रि॒त्रे । म॒घ॒॑व॒न् । अवः᳚ । म॒हत् । अ॒स्मे इति᳚ । इ॒न्द्र॒ । सचा᳚ । सु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अस्मे अस्माभिः सचा सह सुतेभिषुतेसोमे निषद अस्मदीये यज्ञेनिषाद । किमर्थं मधुपीतये मधुनः सुपांसुलुगिति ङसोलुक् मदकरस्य सोमस्य पीतये पानाय । किंच हे मघवन् धनवन्निन्द्र महदवोरक्षणं जरित्रे कृधि कुरु कस्मिन्सति अस्मेइन्द्रसचासुतइति व्याख्यातःपादः ॥ ८ ॥

8.97.9
न त्वा᳚ दे॒वास᳚ आशत॒ न मर्त्या᳚सो अद्रिवः ।
विश्वा᳚ जा॒तानि॒ शव᳚साभि॒भूर᳚सि॒ न त्वा᳚ दे॒वास᳚ आशत ॥
▶ पदपाठः (Word-by-word)
न । त्वा॒ । दे॒वासः᳚ । आ॒श॒त॒ । न । मर्त्या᳚सः । अ॒द्रि॒॑वः॒ ।
विश्वा᳚ । जा॒तानि᳚ । शव᳚सा । अ॒भि॒॑भूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः᳚ । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो वज्रवन्निन्द्र त्वा त्वां देवासः त्वदन्ये सर्वे देवाः नाशत स्वकर्मणा स्वबलेन वा नव्याप्नुवन्ति । नमर्त्यासो मर्त्या मनुष्याश्च न व्याप्नुवन्ति । कुतएतदवसीयते तदाह-विश्वा विश्वानि सर्वाणि जातानि भूतजातानि शवसा स्वबलेनैवाभिभूरसि अभिभावुकोसि भवसि । तस्मात् नत्वादेवासआशतेतिगतार्थः ॥ ९ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवने ब्राह्मणाच्छंसिनो विश्वाःपृतनाइति वैकल्पिकःस्तोत्रियः । सूत्रितंच-विश्वाःपृतनाअभिभतरंनरं तमिन्द्रं- जोहवीमीति ।

8.97.10
विश्वा॒ः पृत᳚ना अभि॒भूत᳚रं॒ नरं᳚ स॒जूस्त᳚तक्षु॒रिन्द्रं᳚ जज॒नुश्च᳚ रा॒जसे᳚ ।
क्रत्वा॒ वरि᳚ष्ठं॒ वर᳚ आ॒मुरि᳚मु॒तोग्रमोजि᳚ष्ठं त॒वसं᳚ तर॒स्विन᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्वाः᳚ । पृत᳚नाः । अ॒भि॒॑भूत᳚रम् । नर᳚म् । स॒॑जूः । त॒त॒क्षुः॒ । इन्द्र᳚म् । ज॒ज॒नुः । च॒ । रा॒जसे᳚ ।
क्रत्वा᳚ । वरि᳚ष्ठम् । वरे᳚ । आ॒॑मुरि᳚म् । उ॒त । उ॒ग्रम् । ओजि᳚ष्ठम् । त॒वस᳚म् । त॒र॒स्विन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाः सर्वाव्याप्तावा पृतनाः । पृङ्व्यायामे । व्याप्रियन्तइति पृतनाः सेनाः सजूः परस्परं संगताः सत्यः अभिभूतरं शत्रूणामत्यर्थं अभिभवितारं नरं सर्वस्यनेतारमिन्द्रं ततक्षुः आयुधादिभिस्तीक्ष्णीकुर्वन्ति आयुधवंतमश्ववंतंच चक्रुरित्यर्थः । यद्वा पृतनाइति संग्रामाः व्याप्रियन्ते अत्रेति पृतनाः संग्रामाः सर्वानेव संग्रामानभिभावुकमिन्द्रं स्तोतारः अन्योन्यं संगताः स्तुतिभिस्तीक्ष्णमकुर्वन् स्तत सति बलवान् भवतीति । यद्वा यष्टारो हविः प्रदानेन वीर्यवन्तं कुर्वन्तीति । किंच स्तोतारः राजसे तुमर्थे असे प्रत्ययः । आत्मनोविराजनार्थं प्रकाशनार्थं सूर्यात्मानमिन्द्रं जजनुः जनयामासुः स्तोत्रेण यज्ञेप्रादुरभावयन्नित्यर्थः । उतापिच क्रत्वा स्वीयवृत्रवधादि कर्मणैव वरिष्ठं उरुतमं आमुरिं शत्रूणामाभिमुख्येन मारयि- तारमिन्द्रं वरेवरणीये धने स्तीतारश्चक्रुः आत्मनां धनलाभार्थं स्तवन्तीत्यर्थः । कीदृशं उग्रं उद्गूर्णबलं अतएव ओजिष्ठं आजस्वितमं तवसं प्रवृद्धं तरस्विनं संग्रामे शत्रुवधार्थं वेगवन्तं इन्द्रं धनार्थं स्तुवन्ति ॥ १० ॥

8.97.11
समीं᳚ रे॒भासो᳚ अस्वर॒न्निन्द्रं॒ सोम᳚स्य पी॒तये᳚ ।
स्व᳚र्पतिं॒ यदीं᳚ वृ॒धे धृ॒तव्र᳚तो॒ ह्योज᳚सा॒ समू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सम् । ई॒म् । रे॒भासः᳚ । अ॒स्व॒र॒न् । इन्द्र᳚म् । सोम᳚स्य । पी॒तये᳚ ।
स्वः᳚॑पतिम् । यत् । ई॒म् । वृ॒धे । धृ॒त॑व्र᳚तः । हि । ओज᳚सा । सम् । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेभासः रेभृशब्दे शब्दयितारः स्तोतारः यद्वा रेभासः कश्यपपुत्रारेभाः एतन्नामकाऋषयः ईमेनमिन्द्रं समस्वरन् सम्यगशब्दयन् समस्तुवन् । किमर्थं सोमस्य पीतये सोमपानाय । किंच स्वर्पतिं स्वर्गस्यपालयितारं धनस्यस्वामिनंवा ईमेनमिन्द्रं यद्यदा वृधे हविर्भिर्वर्धनाय संस्तुवन्ति तथा धृतव्रतो धृकर्मेन्द्रः ओजसा बलेन स्तोतृभिः ऊतिभिर्मरुद्धिः पालनैश्चसह संगच्छते स्तुतिभिर्बलंमरुद्भिः पालनं चेन्द्रस्य भवतित्यर्थः ॥ ११ ॥

8.97.12
ने॒मिं न᳚मन्ति॒ चक्ष᳚सा मे॒षं विप्रा᳚ अभि॒स्वरा᳚ ।
सु॒दी॒तयो᳚ वो अ॒द्रुहो॑पि॒ कर्णे᳚ तर॒स्विन॒ः समृक्व᳚भिः ॥
▶ पदपाठः (Word-by-word)
ने॒मिम् । न॒म॒न्ति॒ । चक्ष᳚सा । मे॒षम् । विप्राः᳚ । अ॒भि॒॑स्वरा᳚ ।
सु॒॑दी॒तयः᳚ । वः॒ । अ॒द्रुहः᳚ । अपि᳚ । कर्णे᳚ । त॒र॒स्विनः᳚ । सम् । ऋक्व᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेमिं अरान् यथा नेमिर्व्याप्नोति तद्वत्सर्वं व्याप्नुवन्तु तादृशं नवनशीलमिन्द्रं चक्षसा दर्शनमात्रेणैव नमन्ति काश्यपारेभाः स्तोतारावा नमस्कुर्वन्ति ततोविप्रामेधाविनः मेषं इन्द्रोमेषोभूत्वा मेधातिथिं स्वर्गमनयत् तस्मान्मेधातिथेर्मेषभूतमिन्द्रं अभिस्वरा अभिस्वरेण स्तोत्रेण प्रणमन्ति इदानीं यजमानः स्तोतॄनाह-अपिच सुदीतयः शोभनदीप्तयः अद्रुहः कस्याप्यद्रोग्धारो वोययं छान्दसोवसादेशः तरस्विनः कर्मसु स्तोत्रेषुवा त्वरायुक्ताः सन्तः इन्द्रस्य कर्णे श्रोत्रसमीपे ऋक्वभिः अर्चनयुक्तैर्मंत्रैः यद्वा ऋचोबह्व्यो येषुसन्ति तैः शस्त्रा- दिभिः संस्तुतइन्द्रोय था युष्मदीयानि स्तोत्रशस्त्रादीनि शृणोति तथा सम्यगभिष्टुतेत्यर्थः ॥ १२ ॥

8.97.13
तमिन्द्रं᳚ जोहवीमि म॒घवा᳚नमु॒ग्रं स॒त्रा दधा᳚न॒मप्र᳚तिष्कुतं॒ शवां᳚सि ।
मंहि᳚ष्ठो गी॒र्भिरा च᳚ य॒ज्ञियो᳚ व॒वर्त᳚द्रा॒ये नो॒ विश्वा᳚ सु॒पथा᳚ कृणोतु व॒ज्री ॥
▶ पदपाठः (Word-by-word)
तम् । इन्द्र᳚म् । जो॒ह॒वी॒मि॒ । म॒घ॑वा᳚नम् । उ॒ग्रम् । स॒त्रा । दधा᳚नम् । अप्र᳚ति॑स्कुतम् । शवां᳚सि ।
मंहि᳚ष्ठः । गीः॒॑भिः । आ । च॒ । य॒ज्ञियः᳚ । व॒वर्त᳚त् । रा॒ये । नः॒ । विश्वा᳚ । सु॒॑पथा᳚ । कृ॒णो॒तु॒ । व॒ज्री ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं पूर्वोक्तगुणोपेतमिन्द्रं जोहवीमि यष्टाहं पुनः पुनराह्वयामि ह्वयतेरभ्यस्तस्यचेति संप्रसारणं ॥ कीदृशं मघवानं मंहनीयधनवन्तं उग्रं उद्रूर्णबलं सत्रा सत्यं यथार्थमेवशवांसि बलानि दधानं अतएवाप्रतिष्कुतं शत्रुभिरप्रतिरोधनीयं आह्वयामी । किंच मंहिष्ठः पूज्यतमः दातृतमोवा यज्ञियोयज्ञार्हइन्द्रो गीर्भिरस्मदीयाभिः स्तुतिभिराववर्तच्च यज्ञेषु आभिमुख्येन वर्ततांच । वर्ततेर्ण्यन्तस्य चङिरूपं चवायोगे प्रथमेति ननिघातः चङ्यन्यतरस्यामितिस्वरः । ततोवज्री वज्रवानिन्द्रः नोस्माकं राये धनाय विश्वा विश्वानि सर्वाण्येव सुपथा सुमा- र्गाणि कृणोतुच करोतु धनं सर्वदिक् स्थमस्मान्प्राप्नोत्वित्यर्थः ॥ १३ ॥

8.97.14
त्वं पुर᳚ इन्द्र चि॒किदे᳚ना॒ व्योज᳚सा शविष्ठ शक्र नाश॒यध्यै᳚ ।
त्वद्विश्वा᳚नि॒ भुव᳚नानि वज्रि॒न्द्यावा᳚ रेजेते पृथि॒वी च᳚ भी॒षा ॥
▶ पदपाठः (Word-by-word)
त्वम् । पुरः᳚ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज᳚सा । स॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै᳚ ।
त्वत् । विश्वा᳚नि । भुव᳚नानि । व॒ज्रि॒न् । द्यावा᳚ । रे॒जे॒ते॒ इति᳚ । पृ॒थि॒वी इति᳚ । च॒ । भी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शविष्ठ बलवत्तम अतएव हे शक्र शत्रुहननसमर्थ हे इन्द्र त्वं एना अन्वादेशे एतानि पुरः शंबरस्य पुराणि ओजसास्वीयेनैवतेजसा विनाशयध्यै विनाशयितुं चिकित् ज्ञाताभवसि । नशेर्ण्यन्तात् शध्यैप्रत्ययाः । पुनरपि सामर्थ्यं प्रशंसति हे वज्रिन् वज्रिवन्निन्द्र विश्वानि सर्वाणि भुवनानि भूतजातानि त्वत् त्वत्तोभीत्या कंपंते । तथा द्यावापृथिवी दिवोद्यावेति द्यावादेशः आद्युदात्तश्च पृथिवी ङीषन्तत्वे- नान्तोदात्तः देवताद्वंद्वेचेत्युभयपदप्रकृतिस्वरत्वं विप्रकर्षस्तु छान्दसः । द्यावापृथिवीच भीषा त्वत्तोभीत्या रेजेते कंपेते । अरेजेतांरोदसी- इतिनिगमः । सर्वेत्वदधीनाइत्यर्थः ॥ १४ ॥

8.97.15
तन्म᳚ ऋ॒तमि᳚न्द्र शूर चित्र पात्व॒पो न व᳚ज्रिन्दुरि॒ताति᳚ पर्षि॒ भूरि᳚ ।
क॒दा न᳚ इन्द्र रा॒य आ द᳚शस्येर्वि॒श्वप्स्न्य᳚स्य स्पृह॒याय्य᳚स्य राजन् ॥
▶ पदपाठः (Word-by-word)
तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒॑इ॒ता । अति᳚ । प॒र्षि॒ । भूरि᳚ ।
क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्व॑प्स्न्य᳚स्य । स्पृ॒ह॒याय्य᳚स्य । रा॒ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर बलवन् चित्र चायनीय विविधरूपवा । इन्द्रामायोभिःपुरुरूपईयतइत्यादिषुदृष्टत्वात् । बहुविधरूप हे इन्द्र तत् प्रशस्तं त्वदीयं ऋतं सत्यं मा मां पातु सर्वतोरक्षतु । किंच हे वज्रिन् वज्रवन्निन्द्र भूरि सुपोलुक् भूरीणि बहूनि दुरिता दुरितानि पापानि अतिपर्षि अतीत्य पारय । तत्रदृष्टान्तः-अपोन यथा नाविकउदकानि मनुष्यान्पारयति तद्वदस्मान् पापानि पारय । हे राजन् दीप्यमान हे इन्द्र विश्वप्स्यस्य प्सइति रूपनाम रूपे साधु प्स्यं नकारोपजनश्छान्दसः । बहुरूपं तत् स्पृहयाय्यस्य सर्वैः स्पृहणीयं रायः क्रियाग्रहणमिति संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । तद्धनं नोस्मभ्यं आ आभिमुख्येन कदा दशस्येः कस्मिन्काले प्रयच्छेः तदा तव स्वभूतं सत्यं मां रक्षतु मह्यं धनं दत्वा कर्माणि च कारयित्वा मया हेतुभूतेन तुष्टाय्य मां पापरहितं कुर्वित्यर्थः ॥ १५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्सं- हिताभाष्ये षष्ठाष्टके षष्ठोध्यायः ॥ ६ ॥