अष्टमं मण्डलम् - सूक्तम् 59

7 ऋचः

ऋषिः: सुपर्णः काण्वः देवता: इंद्रावरुणौ छन्दः: जगती

सूक्तम् 8.59 - सम्पूर्णम्

1 / 7
ऋक्: 8.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
8.59.1
इ॒मानि᳚ वां भाग॒धेया᳚नि सिस्रत॒ इन्द्रा᳚वरुणा॒ प्र म॒हे सु॒तेषु᳚ वाम् ।
य॒ज्ञेय᳚ज्ञे ह॒ सव᳚ना भुर॒ण्यथो॒ यत्सु᳚न्व॒ते यज᳚मानाय॒ शिक्ष᳚थः ॥
▶ पदपाठः (Word-by-word)
इ॒मानि᳚ । वा॒म् । भा॒ग॒॑धेया᳚नि । सि॒स्र॒ते॒ । इन्द्रा᳚वरुणा । प्र । म॒हे । सु॒तेषु᳚ । वा॒म् ।
य॒ज्ञे॑य᳚ज्ञे । ह॒ । सव᳚ना । भु॒र॒ण्यथः᳚ । यत् । सु॒न्व॒ते । यज᳚मानाय । शिक्ष᳚थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.2
नि॒ष्षिध्व᳚री॒रोष᳚धी॒राप᳚ आस्ता॒मिन्द्रा᳚वरुणा महि॒मान॒माश᳚त ।
या सिस्र᳚तू॒ रज᳚सः पा॒रे अध्व᳚नो॒ ययो॒ः शत्रु॒र्नकि॒रादे᳚व॒ ओह᳚ते ॥
▶ पदपाठः (Word-by-word)
निः॒॑सिध्व᳚रीः । ओष᳚धीः । आपः᳚ । आ॒स्ता॒म् । इन्द्रा᳚वरुणा । म॒हि॒मान᳚म् । आ॒श॒त॒ ।
या । सिस्र᳚तुः । रज᳚सः । पा॒रे । अध्व᳚नः । ययोः᳚ । शत्रुः᳚ । नकिः᳚ । अदे᳚वः । ओह᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.3
स॒त्यं तदि᳚न्द्रावरुणा कृ॒शस्य᳚ वां॒ मध्व᳚ ऊ॒र्मिं दु᳚हते स॒प्त वाणी᳚ः ।
ताभि᳚र्दा॒श्वांस᳚मवतं शुभस्पती॒ यो वा॒मद᳚ब्धो अ॒भि पाति॒ चित्ति᳚भिः ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य᳚ । वा॒म् । मध्वः᳚ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः᳚ ।
ताभिः᳚ । दा॒श्वांस᳚म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । यः । वा॒म् । अद᳚ब्धः । अ॒भि । पाति᳚ । चित्ति᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.4
घृ॒त॒प्रुष॒ः सौम्या᳚ जी॒रदा᳚नवः स॒प्त स्वसा᳚र॒ः सद᳚न ऋ॒तस्य᳚ ।
या ह᳚ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि᳚र्धत्तं॒ यज᳚मानाय शिक्षतम् ॥
▶ पदपाठः (Word-by-word)
घृ॒त॒॑प्रुषः᳚ । सौम्याः᳚ । जी॒र॑दा᳚नवः । स॒प्त । स्वसा᳚रः । सद᳚ने । ऋ॒तस्य᳚ ।
याः । ह॒ । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒॑श्चुतः᳚ । ताभिः᳚ । ध॒त्त॒म् । यज᳚मानाय । शि॒क्ष॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.5
अवो᳚चाम मह॒ते सौभ᳚गाय स॒त्यं त्वे॒षाभ्यां᳚ महि॒मान᳚मिन्द्रि॒यम् ।
अ॒स्मान्त्स्वि᳚न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि᳚ः सा॒प्तेभि᳚रवतं शुभस्पती ॥
▶ पदपाठः (Word-by-word)
अवो᳚चाम । म॒ह॒ते । सौभ᳚गाय । स॒त्यम् । त्वे॒षाभ्या᳚म् । म॒हि॒मान᳚म् । इ॒न्द्रि॒यम् ।
अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒॑श्चुतः᳚ । त्रि॑भिः᳚ । सा॒प्तेभिः᳚ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.6 समानपद
इन्द्रा᳚वरुणा॒ यदृ॒षिभ्यो᳚ मनी॒षां वा॒चो म॒तिं श्रु॒तम᳚दत्त॒मग्रे᳚ ।
यानि॒ स्थाना᳚न्यसृजन्त॒ धीरा᳚ य॒ज्ञं त᳚न्वा॒नास्तप᳚सा॒भ्य᳚पश्यम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । यत् । ऋ॒षि॑भ्यः᳚ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे᳚ ।
यानि᳚ । स्थाना᳚नि । अ॒सृ॒ज॒न्त॒ । धीराः᳚ । य॒ज्ञम् । त॒न्वा॒नाः । तप᳚सा । अ॒भि । अ॒प॒श्य॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

8.59.7
इन्द्रा᳚वरुणा सौमन॒समदृ᳚प्तं रा॒यस्पोषं॒ यज᳚मानेषु धत्तम् ।
प्र॒जां पु॒ष्टिं भू᳚तिम॒स्मासु᳚ धत्तं दीर्घायु॒त्वाय॒ प्र ति᳚रतं न॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । सौ॒म॒न॒सम् । अदृ᳚प्तम् । रा॒यः । पोष᳚म् । यज᳚मानेषु । ध॒त्त॒म् ।
प्र॒॑जाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु᳚ । ध॒त्त॒म् । दी॒र्घा॒यु॒॑त्वाय᳚ । प्र । ति॒र॒त॒म् । नः॒ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty