अष्टमं मण्डलम् - सूक्तम् 18

22 ऋचः

ऋषिः: इरिंबिठिः काण्वः देवता: आदित्याः छन्दः: उष्णिक्

सूक्तम् 8.18 - सम्पूर्णम्

1 / 22
ऋक्: 8.18.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
8.18.1
इ॒दं ह᳚ नू॒नमे᳚षां सु॒म्नं भि᳚क्षेत॒ मर्त्य᳚ः ।
आ॒दि॒त्याना॒मपू᳚र्व्यं॒ सवी᳚मनि ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः᳚ ।
आ॒दि॒त्याना᳚म् । अपू᳚र्व्यम् । सवी᳚मनि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदंह इदानीं श्वलु नुनमवश्यं आदित्यानां अदितेः पुत्राणामेषां देवादीनां मित्रादीनां सवीमनि प्रसवे प्रेरणेसति मर्त्योमनुष्यः स्तोता अपूर्व्यम- भिनवं सुम्नं सुश्वकरं धनं भिक्षेत याचेत नकालांतरे ॥ १ ॥

8.18.2
अ॒न॒र्वाणो॒ ह्ये᳚षां॒ पन्था᳚ आदि॒त्याना᳚म् ।
अद᳚ब्धा॒ः सन्ति᳚ पा॒यवः᳚ सुगे॒वृधः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒न॒र्वाणः᳚ । हि । ए॒षा॒म् । पन्थाः᳚ । आ॒दि॒त्याना᳚म् ।
अद᳚ब्धाः । सन्ति᳚ । पा॒यवः᳚ । सु॒गे॒॑वृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां आदित्यानां पंथाः पन्थानोमार्गाः सुपांसुलुगिति जसःसुः अनर्वाणः अप्रत्यृताः परैरप्रतिगताः अतएव अदब्धाः अहिंसिताश्च सन्ति भवन्ति । हि यस्मादेवं तस्मात्पायवः पालयितारस्तेमार्गाः सुगमे सुखे विषयें वर्धका भवन्तु ॥ २ ॥

8.18.3
तत्सु नः᳚ सवि॒ता भगो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
शर्म᳚ यच्छन्तु स॒प्रथो॒ यदीम᳚हे ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । स॒वि॒ता । भगः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
शर्म᳚ । य॒च्छ॒न्तु॒ । स॒॑प्रथः᳚ । यत् । ईम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवित्रादयश्चत्वारोदेवाः सप्रथः सर्वतः पृथु विस्तीर्णं तच्छर्म सुखं गृहं वा नोस्मभ्यं सु सुष्ठु यच्छंतु ददतु । यच्छर्म ईमहे वयं याचामहे ॥ ३ ॥

8.18.4
दे॒वेभि᳚र्देव्यदि॒ते॑रि᳚ष्टभर्म॒न्ना ग᳚हि ।
स्मत्सू॒रिभि᳚ः पुरुप्रिये सु॒शर्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
दे॒वेभिः᳚ । दे॒वि॒ । अ॒दि॒ते॒ । अरि᳚ष्ट॑भर्मन् । आ । ग॒हि॒ ।
स्मत् । सू॒रि॑भिः᳚ । पु॒रु॒॑प्रि॒ये॒ । सु॒शर्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवि दानादिगुणयुक्ते हे अरिष्टभर्मन् अहिंसितभरणे हे पुरुप्रिये बहुभिः प्रीयमाणे हे एवंगुणविशिष्टे अदिते सूरिभिः प्राज्ञैः सुशर्मभिः सुसुखैः देवेभिःदेवैः आत्मीयैः पुत्रैः सार्धं स्मदितिनिपातः शोभनार्थः स्मत् शोभनं यथा भवति तथा आगहि आगच्छ ॥ ४ ॥

8.18.5
ते हि पु॒त्रासो॒ अदि᳚तेर्वि॒दुर्द्वेषां᳚सि॒ योत᳚वे ।
अं॒होश्चि᳚दुरु॒चक्र᳚यो॑ने॒हसः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । हि । पु॒त्रासः᳚ । अदि᳚तेः । वि॒दुः । द्वेषां᳚सि । योत᳚वे ।
अं॒होः । चि॒त् । उ॒रु॒॑चक्र᳚यः । अ॒ने॒हसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितेः पुत्रासः पुत्राः तेहि ते खलु मित्रादयोदेवाः द्वेषांसि द्वेष्टणि राक्षसादीनि योतवे पृथक्कर्तुं विदुः जानन्ति विदोलटोवेति विदउत्तरस्यझेरु- सादेशः । तथा उरुचक्रयः विस्तीर्णस्य कमर्णः कर्तारोनेहसः अनाहंतारो रक्षकास्ते अंहोश्चित् आहननशीलात्पापादपि योतवे पृथक्कर्तुमस्मान् जानन्ति ॥ ५ ॥

8.18.6
अदि᳚तिर्नो॒ दिवा᳚ प॒शुमदि᳚ति॒र्नक्त॒मद्व᳚याः ।
अदि᳚तिः पा॒त्वंह᳚सः स॒दावृ᳚धा ॥
▶ पदपाठः (Word-by-word)
अदि᳚तिः । नः॒ । दिवा᳚ । प॒शुम् । अदि᳚तिः । नक्त᳚म् । अद्व᳚याः ।
अदि᳚तिः । पा॒तु॒ । अंह᳚सः । स॒दा॑वृ᳚धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं पशुं अदितिरदीना अखंडनीयावा देवमाता दिवा अहनि पातु रक्षतु । तथा अद्वयाः बाह्याभ्यंतरभेदेन प्रदारद्वयरहिताः सर्वदैकप्राका- रा कपटरहिता सा अदितिः नक्तं रात्रौ च अस्मदीयं गवादिपशुजातं रक्षतु तथास्मानपि अंहसः पापात् पातु रक्षतु । केनसाधनेन सदावृधा सर्वदा वृद्धिमतात्मीयेन रक्षणेन ॥ ६ ॥

8.18.7
उ॒त स्या नो॒ दिवा᳚ म॒तिरदि᳚तिरू॒त्या ग᳚मत् ।
सा शंता᳚ति॒ मय᳚स्कर॒दप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्या । नः॒ । दिवा᳚ । म॒तिः । अदि᳚तिः । ऊ॒त्या । आ । ग॒म॒त् ।
सा । शम्॑ता᳚ति । मयः᳚ । क॒र॒त् । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच स्या सा पूर्वोक्तामतिर्मन्त्री मंतव्या स्तोतव्या वा अदितिरूत्या रक्षयासार्धं दिवा अहनि नोस्मानागमत् आगच्छ्तु आगत्य च शंताति शांतिकरं मयः सुखं सादितिः करत् करोतु । स्निधोबाधकान् शत्रूंश्चापगमयतु स्निधिर्बाधनार्थः शिव शमरिष्टस्यकरइति शंशब्दात्करणेर्थे तातिलूप्र- त्ययः ॥ ७ ॥

8.18.8
उ॒त त्या दैव्या᳚ भि॒षजा॒ शं नः᳚ करतो अ॒श्विना᳚ ।
यु॒यु॒याता᳚मि॒तो रपो॒ अप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । दैव्या᳚ । भि॒षजा᳚ । शम् । नः॒ । क॒र॒तः॒ । अ॒श्विना᳚ ।
यु॒यु॒याता᳚म् । इ॒तः । रपः᳚ । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्या तौ प्रसिद्धौ दैव्या देवेषुभवौ भिषजा चिकित्सकौ ईदृशावश्विना अश्विनौ नोस्माकं शं सुखं रोगाणां शमनं वा करतः कुरुताम् । इतोस्मत्तः रपः पापं युयुयातां पृथक्कुर्यातां स्निधः शत्रूंश्चापगमयताम् ॥ ८ ॥

8.18.9
शम॒ग्निर॒ग्निभि᳚ः कर॒च्छं न᳚स्तपतु॒ सूर्य᳚ः ।
शं वातो᳚ वात्वर॒पा अप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
शम् । अ॒ग्निः । अ॒ग्नि॑भिः᳚ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः᳚ ।
शम् । वातः᳚ । वा॒तु॒ । अ॒र॒पाः । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमिः स्वविभूत्या विभिन्नैर्गार्हपत्यादिभिः अग्निर्देवः शं करत् अस्माकं रोगशांतिं सुखंवा करोतु । सूर्यः सर्वस्य प्रेरकआदित्यश्च नोस्माकं शंसुखं यथाभवति तथा तपतु प्रदीप्यताम् । वातोवायुश्च अरपाः अपापः सन् शं यथा भवति तथा वातु अनुवर्तताम् । स्निधः शत्रूंश्च एतेग्न्यादयः अपगमयन्तु ॥ ९ ॥

8.18.10
अपामी᳚वा॒मप॒ स्रिध॒मप᳚ सेधत दुर्म॒तिम् ।
आदि᳚त्यासो यु॒योत᳚ना नो॒ अंह᳚सः ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अमी᳚वाम् । अप᳚ । स्रिध᳚म् । अप᳚ । से॒ध॒त॒ । दुः॒॑म॒तिम् ।
आदि᳚त्यासः । यु॒योत᳚न । नः॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः अमीवां रोगं अप्सेधत अस्मत्तोपगमयत स्निधं चापसेधकं शत्रुं चापसेधत दुर्मतिं अस्माकं दुःखस्य मंतारं चापसेधत । अपिच हे आदित्यासः आदित्याः नोस्मानंगसः पापात् युयोतन पृथक्कुरुत । यौतेर्लोटि छान्दसः शपःश्लुः तप्तनप्तनथनाश्चेति तस्यतनबादेशः पित्वादनुदा- त्तत्वे धातुस्वरः शिष्यते आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानत्वेन पदादपरत्वान्निघातोनभवति ॥ १० ॥

8.18.11
यु॒योता॒ शरु᳚म॒स्मदा{4} आदि᳚त्यास उ॒ताम᳚तिम् ।
ऋध॒ग्द्वेषः᳚ कृणुत विश्ववेदसः ॥
▶ पदपाठः (Word-by-word)
यु॒योत᳚ । शरु᳚म् । अ॒स्मत् । आ । आदि᳚त्यासः । उ॒त । अम᳚तिम् ।
ऋध᳚क् । द्वेषः᳚ । कृ॒णु॒त॒ । वि॒श्व॒॑वे॒द॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्याः शरुं हिंसकं अस्मदा अस्मत्तश्च युयोत पृथक्कुरुत । उतापिच अमतिं दुर्बुद्धिंच पृथक्कुरुत हे विश्ववेदसः सर्वधनाः सर्वज्ञावा द्वेषोद्वेष्टृन् शत्रून् ऋधक् पृथकूकृणुत कुरुत अस्मत्तोवियोजयत ॥ ११ ॥

8.18.12
तत्सु न॒ः शर्म᳚ यच्छ॒तादि᳚त्या॒ यन्मुमो᳚चति ।
एन᳚स्वन्तं चि॒देन᳚सः सुदानवः ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । शर्म᳚ । य॒च्छ॒त॒ । आदि᳚त्याः । यत् । मुमो᳚चति ।
एन᳚स्वन्तम् । चि॒त् । एन᳚सः । सु॒॑दा॒न॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः तच्छर्म सुखं नोस्मभ्यं सु सुष्ठु यच्छत दत्त । हे सुदानवः शोभनदानाः युष्मदीयं यच्छर्म एनस्वंतं चित् पापिनमपि स्तोतारं एनसः पापत् मुमोचति मोचयति तद्यच्छतेत्यन्वयः ॥ १२ ॥

8.18.13
यो न॒ः कश्चि॒द्रिरि᳚क्षति रक्ष॒स्त्वेन॒ मर्त्य᳚ः ।
स्वैः ष एवै᳚ रिरिषीष्ट॒ युर्जनः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । कः । चि॒त् । रिरि᳚क्षति । र॒क्षः॒॑त्वेन᳚ । मर्त्यः᳚ ।
स्वैः । सः । एवैः᳚ । रि॒रि॒षी॒ष्ट॒ । युः । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः कश्चिन्मर्त्योमनुष्यो नोस्मान्त्रक्षस्त्वेन रक्षोभावेन पिशाचाद्यात्मना रिरिक्षति जिहिंसिषति रिषहिंसायामितिधातुः समनुष्यः स्वैरेवैरात्मी- यैरेव चेष्टितैः रिरिषीष्ट हिंसितोभूयात् । सजनोयुः याता अपगमनशीलश्च भवतु । यद्वा सजनः स्वैरेव गमनैः युः दुःखं गच्छन् हिंसितोभवतु ॥ १३ ॥

8.18.14
समित्तम॒घम᳚श्नवद्दु॒ःशंसं॒ मर्त्यं᳚ रि॒पुम् ।
यो अ᳚स्म॒त्रा दु॒र्हणा᳚वा{4}॒ उप᳚ द्व॒युः ॥
▶ पदपाठः (Word-by-word)
सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒॑शंस᳚म् । मर्त्य᳚म् । रि॒पुम् ।
यः । अ॒स्म॒॑त्रा । दुः॒॑हना᳚वान् । उप᳚ । द्व॒युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दुःशंसं दुष्कीर्ति रिपुं शत्रुं तं मर्त्थं मनुष्यं इत् एवमघं पापं समश्र्नवत् सम्यग्व्याप्नोतु । योमर्त्यः अस्मत्रा अस्मासु अस्मद्विषये दुर्हणावान् दुष्टहन- नवानुपजायते द्वयुः द्वाभ्यां प्रकाराभ्यां युक्तश्च भवति । अयमर्थः-प्रत्यक्षकृतोहितं वदति परोक्षकृतोहितं वदति परोक्षकृतस्त्वहितं तादृशः कपटो- द्वयुरित्युच्यते यश्चास्मद्विषये कपटोभवति तमपि पापं व्याप्नोत्विति ॥ १४ ॥

8.18.15 समानपद
पा॒क॒त्रा स्थ᳚न देवा हृ॒त्सु जा᳚नीथ॒ मर्त्य᳚म् ।
उप᳚ द्व॒युं चाद्व᳚युं च वसवः ॥
▶ पदपाठः (Word-by-word)
पा॒क॒॑त्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्॑सु । जा॒नी॒थ॒ । मर्त्य᳚म् ।
उप᳚ । द्व॒युम् । च॒ । अद्व᳚युम् । च॒ । व॒स॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा दानादिगुणयुक्ता आदित्यायूयं पाकत्रा पाकेषु विपक्कप्रज्ञेषु स्तोतृषु स्थन भवथ । यद्वा प्रथमार्थेत्राप्रत्ययः पाकत्राः पाकाः परिपक्कज्ञानाः भवथ । यतएवं अतः कारणात् हृत्सु आत्मीयेषु हृदयेषु द्वयुं द्विप्रकारयुक्तं कपटिनं च अद्वयुं च तद्विलक्षणं कापटचरहितं च मर्त्थं मनुष्यं उपेत्य हे वसवोवासका जानिथ अवगच्छथ ॥ १५ ॥

8.18.16
आ शर्म॒ पर्व᳚ताना॒मोतापां वृ᳚णीमहे ।
द्यावा᳚क्षामा॒रे अ॒स्मद्रप᳚स्कृतम् ॥
▶ पदपाठः (Word-by-word)
आ । शर्म᳚ । पर्व᳚तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ ।
द्यावा᳚क्षामा । आ॒रे । अ॒स्मत् । रपः᳚ । कृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतानां मेघानां गिरीणां वा संबंधि शर्म सुखं वयं आवृणीमहे आभिमुख्येन संभजामहे । उतापिच अपामुदकानां च हे द्यावाक्षामा द्यावा- पृथिव्यौ अस्मदारे अस्मत्तोविप्रकृष्टेदेशे रपः पापं कृतं कुरुतं अस्मत्तोवियोजयतमित्यर्थः ॥ १६ ॥

8.18.17
ते नो᳚ भ॒द्रेण॒ शर्म᳚णा यु॒ष्माकं᳚ ना॒वा व᳚सवः ।
अति॒ विश्वा᳚नि दुरि॒ता पि᳚पर्तन ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । भ॒द्रेण᳚ । शर्म᳚णा । यु॒ष्माक᳚म् । ना॒वा । व॒स॒वः॒ ।
अति᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । पि॒प॒र्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसवोवसयितारआदित्याः तेपूर्वोक्तगुणा यूयं भद्रेण शोभनेन शर्मणासुखेन युष्माकं नावा नोस्मान् विश्वानि सर्वाणि दुरिता दुर्गमनानि अति पिपर्तन पिपृत अतिपारयत ॥ १७ ॥

8.18.18
तु॒चे तना᳚य॒ तत्सु नो॒ द्राघी᳚य॒ आयु᳚र्जी॒वसे᳚ ।
आदि᳚त्यासः सुमहसः कृ॒णोत᳚न ॥
▶ पदपाठः (Word-by-word)
तु॒चे । तना᳚य । तत् । सु । नः॒ । द्राघी᳚यः । आयुः᳚ । जी॒वसे᳚ ।
आदि᳚त्यासः । सु॒॑म॒ह॒सः॒ । कृ॒णोत᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः अदितःपुत्राः सुमहसः शोभनतेजस्काः नोस्माकं तुचे पुत्राय तनाय तनयाय पौत्राय चजीवसे जीवनाय द्राघीयोदीर्घतमं तत्प्रसि- द्धमायुः जीवितं सु सुष्ठु कृणोतन कुरुत ॥ १८ ॥

8.18.19
य॒ज्ञो ही॒ळो वो॒ अन्त᳚र॒ आदि᳚त्या॒ अस्ति᳚ मृ॒ळत᳚ ।
यु॒ष्मे इद्वो॒ अपि᳚ ष्मसि सजा॒त्ये᳚ ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञः । ही॒ळः । वः॒ । अन्त᳚रः । आदि᳚त्याः । अस्ति᳚ । मृ॒ळत᳚ ।
यु॒ष्मे इति᳚ । इत् । वः॒ । अपि᳚ । स्म॒सि॒ । स॒॑जा॒त्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः हीळः हीडिर्गत्यर्थः गंतव्यः प्राप्तव्योस्माभिः अनुष्ठितोयज्ञोवोयुष्माकमंतरोस्ति अंतिकेवर्तमानोभवति । अतोस्मान्मृळत सुखयत वोयुष्माकं सजात्ये सजातत्वे ज्ञातित्वे बान्धवे वर्तमानावयं युष्मेइत् युष्मास्वेव अपि स्मसि सर्वदा भवामोपि इदंतोमसिः ॥ १९ ॥

8.18.20
बृ॒हद्वरू᳚थं म॒रुतां᳚ दे॒वं त्रा॒तार᳚म॒श्विना᳚ ।
मि॒त्रमी᳚महे॒ वरु᳚णं स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । वरू᳚थम् । म॒रुता᳚म् । दे॒वम् । त्रा॒तार᳚म् । अ॒श्विना᳚ ।
मि॒त्रम् । ई॒म॒हे॒ । वरु᳚णम् । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतां देवानां स्वामिनां त्रातारं पालयितारं देवमिन्द्रं अश्विना अश्विनौ च मित्रं वरुणं च बृहत्प्रौढं वरूथं शीतातपादिनिवारकं गृहं स्वस्तये अविनाशाय ईमहे याचामहे ॥ २० ॥

8.18.21
अ॒ने॒हो मि᳚त्रार्यमन्नृ॒वद्व᳚रुण॒ शंस्य᳚म् ।
त्रि॒वरू᳚थं मरुतो यन्त नश्छ॒र्दिः ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒॑वत् । व॒रु॒ण॒ । शंस्य᳚म् ।
त्रि॒॑वरू᳚थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्र हे अर्यमन् हेवरुण हे मरुतः ते सर्वे यूयं अनेहः अहिंसितं नृवत् नृभिःपुत्रादिभिरुपेतं शंस्यं स्तुत्यं त्रिवरूथं त्रयाणां शीतातपवर्षाणां निवारकं यद्वा त्रिभूमिकं छर्दिर्गृहं नः अस्मभ्यं यन्त यच्छत दत्तेत्यर्थः ॥ २१ ॥

8.18.22
ये चि॒द्धि मृ॒त्युब᳚न्धव॒ आदि᳚त्या॒ मन᳚व॒ः स्मसि᳚ ।
प्र सू न॒ आयु᳚र्जी॒वसे᳚ तिरेतन ॥
▶ पदपाठः (Word-by-word)
ये । चि॒त् । हि । मृ॒त्यु॑ब᳚न्धवः । आदि᳚त्याः । मन᳚वः । स्मसि᳚ ।
प्र । सु । नः॒ । आयुः᳚ । जी॒वसे᳚ । ति॒रे॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः येचित् येच वयं मनवोमनुष्याः हि यस्मात् मृत्युबन्धवः स्मसि मृत्योर्यमस्यबन्धुभूताः प्रत्यासन्नमरणाभवामः । अतोहेतोः तेषां नोस्माकं जीवसे जीवनाय चिरकालावस्थानाय आयुर्जीवितं सुप्रतिरेतन शोभनं प्रवर्धयत ॥ २२ ॥

तंगूर्धयेति सप्तत्रिंशदृचं सप्तमं सूक्तं काण्वस्य सोभरेरार्षं प्रथमतृतीयाद्ययुजः ककुभः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पितुर्नपुत्र एषा सप्त- विंशी द्विपदा विंशत्यक्षराविराट् यमादित्यासइत्येषा चतुस्त्रिंशीउष्णिक् यूयंराजानएषा पंचत्रिंशी सतोबृहती अदान्मइत्येषा ककुप् उतमइत्येषा सप्तत्रिंशीपंक्तिः षटूत्रिंशी सप्तत्रिंशीच त्रसदस्युनाम्नोराज्ञोदानस्तुतिरूपत्वात्तद्देवताके चतुस्त्रिंशीपंचत्रिंश्यौ आदित्यदेवताके शीष्टाआग्नेय्यः । तथाचानुक्रान्तम्-तंगूर्धयसप्तत्रिंशत्सोभरिराग्नेयं काकुभं प्रागाथंह पितुर्नद्विपदा अंत्येककुप्पंक्ती त्रसदस्योर्दानस्तुतिस्तत्पूर्वे उष्णिक्सतोबृहत्यावा- दित्येभ्यइति । गतः सूक्तविनियोगः ।