अ॒न॒र्वाणो॒ ह्ये᳚षां॒ पन्था᳚ आदि॒त्याना᳚म् ।
अद᳚ब्धा॒ः सन्ति᳚ पा॒यवः᳚ सुगे॒वृधः᳚ ॥
अद᳚ब्धा॒ः सन्ति᳚ पा॒यवः᳚ सुगे॒वृधः᳚ ॥
पदपाठः (Word-by-word)
अ॒न॒र्वाणः᳚ । हि । ए॒षा॒म् । पन्थाः᳚ । आ॒दि॒त्याना᳚म् ।
अद᳚ब्धाः । सन्ति᳚ । पा॒यवः᳚ । सु॒गे॒॑वृधः᳚ ॥
अद᳚ब्धाः । सन्ति᳚ । पा॒यवः᳚ । सु॒गे॒॑वृधः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एषां आदित्यानां पंथाः पन्थानोमार्गाः सुपांसुलुगिति जसःसुः अनर्वाणः अप्रत्यृताः परैरप्रतिगताः अतएव अदब्धाः अहिंसिताश्च सन्ति भवन्ति । हि यस्मादेवं तस्मात्पायवः पालयितारस्तेमार्गाः सुगमे सुखे विषयें वर्धका भवन्तु ॥ २ ॥