अष्टमं मण्डलम् - सूक्तम् 39

10 ऋचः

ऋषिः: नाभाकः काण्वः देवता: अग्निः छन्दः: महापंक्तिः

सूक्तम् 8.39 - सम्पूर्णम्

1 / 10
ऋक्: 8.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.39.1
अ॒ग्निम᳚स्तोष्यृ॒ग्मिय᳚म॒ग्निमी॒ळा य॒जध्यै᳚ ।
अ॒ग्निर्दे॒वा{4} अ᳚नक्तु न उ॒भे हि वि॒दथे᳚ क॒विर॒न्तश्चर᳚ति दू॒त्यं१॒᳚ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय᳚म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै᳚ ।
अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति᳚ । हि । वि॒दथे॒ इति᳚ । क॒विः । अ॒न्तरिति᳚ । चर᳚ति । दू॒त्य᳚म् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋग्मियं ऋगर्हं अग्निमस्तौषि स्तौमि । अपिचाग्निं यणध्यौ यष्टुमीळा स्तुत्या स्तौमीत्यर्थः अपिचाग्निर्नोस्माकं विदथे यज्ञे देवान् हविर्भिरनक्तु । कविः क्रान्तदर्श्यग्निः उभे द्यावापृथिव्यावन्तर्मध्ये दूत्यं हविर्वहनादिलक्षणं दूतकर्म चरति । अन्यके शत्रवोपि समे सर्वे नभन्तां नभतिर्हिंसाकर्मा अग्निना हिंस्यन्ताम् ॥ १ ॥

8.39.2
न्य᳚ग्ने॒ नव्य᳚सा॒ वच᳚स्त॒नूषु॒ शंस᳚मेषाम् ।
न्यरा᳚ती॒ ररा᳚व्णां॒ विश्वा᳚ अ॒र्यो अरा᳚तीरि॒तो यु᳚च्छन्त्वा॒मुरो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
नि । अ॒ग्ने॒ । नव्य᳚सा । वचः᳚ । त॒नूषु᳚ । शंस᳚म् । ए॒षा॒म् ।
नि । अरा᳚तीः । ररा᳚व्णाम् । विश्वाः᳚ । अ॒र्यः । अरा᳚तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒॑मुरः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तनूष्वस्माकमंगेषु नव्यसा नवतरेण वचः वचसा स्तोत्रेण एषां शत्रूणां शंसं शंसनं निदहेत्यर्थः । रराव्णां हविःप्रयच्छन्तामरातीः शत्रूंश्च निदह । अपिच विश्वाः सर्वे अर्योभिगच्छन्त । आमुरः आमूढा अरातीः शत्रवः इतोयुच्छन्तु गच्छन्तु । सिद्धमन्यत् ॥ २ ॥

8.39.3
अग्ने॒ मन्मा᳚नि॒ तुभ्यं॒ कं घृ॒तं न जु᳚ह्व आ॒सनि᳚ ।
स दे॒वेषु॒ प्र चि᳚किद्धि॒ त्वं ह्यसि᳚ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व᳚तो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । मन्मा᳚नि । तुभ्य᳚म् । कम् । घृ॒तम् । न । जु॒ह्वे॒ । आ॒सनि᳚ ।
सः । दे॒वेषु᳚ । प्र । चि॒कि॒द्धि॒ । त्वम् । हि । असि᳚ । पू॒र्व्यः । शि॒वः । दू॒तः । वि॒वस्व᳚तः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तुभ्यं त्वदर्थं आसनि आस्ये कं घृतं न यथा सुखकरं घृतं जुह्वत्यन्ये तद्वदहमपि तवास्ये मन्मानि मननीयानि स्तोत्राणि जुह्वे जुहोमि । सत्वं देवेषु देवानां मध्ये प्रचेकिद्धि अस्मदीयाः स्तुतीर्जानीहि । हि अपिच त्वं पूर्व्यः प्रत्नोसि शिवः सुखकरश्चासि विवस्वतो दूतश्चासि । सिद्धमन्यत् ॥ ३ ॥

8.39.4
तत्त᳚द॒ग्निर्वयो᳚ दधे॒ यथा᳚यथा कृप॒ण्यति᳚ ।
ऊ॒र्जाहु᳚ति॒र्वसू᳚नां॒ शं च॒ योश्च॒ मयो᳚ दधे॒ विश्व᳚स्यै दे॒वहू᳚त्यै॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तत्॑त᳚त् । अ॒ग्निः । वयः᳚ । द॒धे॒ । यथा᳚॑यथा । कृ॒प॒ण्यति᳚ ।
ऊ॒र्जा॑आ᳚हुतिः । वसू᳚नाम् । शम् । च॒ । योः । च॒ । मयः᳚ । द॒धे॒ । विश्व᳚स्यै । दे॒व॑हू᳚त्यै । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथा यथा यद्यदन्नं कृपण्यति स्तोतृभिर्याच्यते तत्तद्वयोग्निर्दधे स्तोतृभ्यः प्रयच्छति अपिचोर्जाहुतिरन्नेनाहूयमानोग्निः वसूनां हविषां वासकानां यजमानानां शं शांतिनिमित्तं योः विषययोगजनितं च मयः सूखं दधे करोति । विश्वस्यै देवहूत्यै सर्वस्मै देवानां ह्वानाय च भवति यः कश्चनापि देवो यदि हूयते अग्निरेव सर्वं करोतीत्यर्थः । सिद्धमन्यत् ॥ ४ ॥

8.39.5
स चि᳚केत॒ सही᳚यसा॒ग्निश्चि॒त्रेण॒ कर्म᳚णा ।
स होता॒ शश्व᳚तीनां॒ दक्षि᳚णाभिर॒भीवृ᳚त इ॒नोति᳚ च प्रती॒व्यं१॒᳚ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
सः । चि॒के॒त॒ । सही᳚यसा । अ॒ग्निः । चि॒त्रेण᳚ । कर्म᳚णा ।
सः । होता᳚ । शश्व᳚तीनाम् । दक्षि᳚णाभिः । अ॒भि॑वृ᳚तः । इ॒नोति᳚ । च॒ । प्र॒ती॒व्य᳚म् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निः सहीयसा अभिभावुकेन चित्रेण नानाविधेन कर्मणा व्यापारेण चिकेत ज्ञायते सोग्निः शश्वतीनां बह्वीनां देवतानां होता ह्वाता दक्षिणाभिः पशुभिश्चाभीवृतः परिवृतः प्रतीव्यं प्रत्येतव्यं शत्रुमिनोतिच गच्छतिच । सिद्धमन्यत् ॥ ५ ॥

8.39.6
अ॒ग्निर्जा॒ता दे॒वाना᳚म॒ग्निर्वे᳚द॒ मर्ता᳚नामपी॒च्य᳚म् ।
अ॒ग्निः स द्र᳚विणो॒दा अ॒ग्निर्द्वारा॒ व्यू᳚र्णुते॒ स्वा᳚हुतो॒ नवी᳚यसा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । जा॒ता । दे॒वाना᳚म् । अ॒ग्निः । वे॒द॒ । मर्ता᳚नाम् । अ॒पी॒च्य᳚म् ।
अ॒ग्निः । सः । द्र॒वि॒णः॒॑दाः । अ॒ग्निः । द्वारा᳚ । वि । ऊ॒र्णु॒ते॒ । सु॑आ᳚हुतः । नवी᳚यसा । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां जाता जातानि जन्मान्यग्निर्वेद वेत्ति मर्तानां मनुष्याणां चापीच्यं गुह्यमग्निर्वेद वेत्ति सोग्निर्द्रविणोदाः धनस्य दाता नबीयसा नवतरेण हवि- षा स्वाहुतः सम्यक् हुतोग्निः द्वारा धनस्य द्वाराणि व्यूर्णुतेच । सिद्धमन्यत् ॥ ६ ॥

8.39.7
अ॒ग्निर्दे॒वेषु॒ संव᳚सु॒ः स वि॒क्षु य॒ज्ञिया॒स्वा ।
स मु॒दा काव्या᳚ पु॒रु विश्वं॒ भूमे᳚व पुष्यति दे॒वो दे॒वेषु᳚ य॒ज्ञियो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेषु᳚ । सम्॑व᳚सुः । सः । वि॒क्षु । य॒ज्ञिया᳚सु । आ ।
सः । मु॒दा । काव्या᳚ । पु॒रु । विश्व᳚म् । भूम᳚॑इव । पु॒ष्य॒ति॒ । दे॒वः । दे॒वेषु᳚ । य॒ज्ञियः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो देवेषु मध्येग्निः संवसुः संवसति सोग्निर्यज्ञियासु यज्ञार्हासु विक्षु प्रजास्वप्यासंवसुः । किञ्च सोग्निः पुरु बहूनि काव्या कर्माणि भूमेव यथा भूमिः विश्वं तथा मुदा मोदेन पुष्यति देवेषु मध्ये देवोग्निर्यज्ञियोयज्ञार्हश्च भवति । सिद्धमन्यत् ॥ ७ ॥

8.39.8
यो अ॒ग्निः स॒प्तमा᳚नुषः श्रि॒तो विश्वे᳚षु॒ सिन्धु᳚षु ।
तमाग᳚न्म त्रिप॒स्त्यं म᳚न्धा॒तुर्द᳚स्यु॒हन्त᳚मम॒ग्निं य॒ज्ञेषु᳚ पू॒र्व्यं नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्निः । स॒प्त॑मा᳚नुषः । श्रि॒तः । विश्वे᳚षु । सिन्धु᳚षु ।
तम् । आ । अ॒ग॒न्म॒ । त्रि॒॑प॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्॑त᳚मम् । अ॒ग्निम् । य॒ज्ञेषु᳚ । पू॒र्व्यम् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः सप्तमानुषः विश्वेषु सर्वेषु सिन्धुषु नदीषु श्रितः त्रिपस्त्यं त्रिस्थानं मन्धातुः यौवनाश्वस्य मान्धातुर्दस्युहन्तमं दस्यूनां हन्तारं यज्ञेषु पूर्व्यं मुख्यं तमग्निं वयमागन्म । सिद्धमन्यत् ॥ ८ ॥

8.39.9
अ॒ग्निस्त्रीणि᳚ त्रि॒धातू॒न्या क्षे᳚ति वि॒दथा᳚ क॒विः ।
स त्री{4}रे᳚काद॒शा{4} इ॒ह यक्ष᳚च्च पि॒प्रय᳚च्च नो॒ विप्रो᳚ दू॒तः परि᳚ष्कृतो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । त्रीणि᳚ । त्रि॒॑धातू᳚नि । आ । क्षे॒ति॒ । वि॒दथा᳚ । क॒विः ।
सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष᳚त् । च॒ । पि॒प्रय᳚त् । च॒ । नः॒ । विप्रः᳚ । दू॒तः । परि᳚॑कृतः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः क्रान्तदर्श्यग्निः त्रीणि त्रिधातूनि त्रिबंधनानि पृथिव्यादीनि विदथा वेदनीयानि स्थानान्याक्षेत्यावसति अपिच सोग्निर्दूतो देवानां विप्रः प्राज्ञः परिष्कृतोलंकृतश्च सन्निह यज्ञे त्रीनेकादशान् त्रयस्त्रिंशद्देवान् यक्षद्यजतु नोस्मान् पिप्रयच्च कामैः पूरयतु च । सिद्धमन्यत् ॥ ९ ॥

8.39.10
त्वं नो᳚ अग्न आ॒युषु॒ त्वं दे॒वेषु᳚ पूर्व्य॒ वस्व॒ एक᳚ इरज्यसि ।
त्वामापः᳚ परि॒स्रुत॒ः परि᳚ यन्ति॒ स्वसे᳚तवो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु᳚ । त्वम् । दे॒वेषु᳚ । पू॒र्व्य॒ । वस्वः᳚ । एकः᳚ । इ॒र॒ज्य॒सि॒ ।
त्वाम् । आपः᳚ । प॒रि॒॑स्रुतः᳚ । परि᳚ । य॒न्ति॒ । स्व॑से᳚तवः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूर्व्याग्ने त्वमेकएव आयुषु मनुष्येषु द्रुत्द्यव आयव इति मनुष्यनामसु पाठात् नोस्माकं वस्वोधनस्य इरज्यसि ईशिषे देवेष्वपि त्वमेकएव वस्व इरज्यसि । अपिच त्वां स्वसेतवः स्वभुतसेतवः परिस्रुतः परिस्रवन्त्यः आपः परियन्ति । परिगच्छन्ति सिद्धमन्यत् ॥ १० ॥

इन्द्राग्नीयुवमिति द्वादशर्चं दशमं सूक्तं नाभाकस्यार्षं द्वितीया षट्पञ्चाशदक्षरा शक्वरी द्वादशीत्रिष्टुप् शिष्टामहापंक्तयः इन्द्राग्नीदेवता । तथाचा- नुक्रान्तम्-इन्द्राग्नीद्वादशैन्द्राग्नंत्रिष्टुबन्तं द्वितीया शक्वरीति । महाव्रते निष्केवल्ये ऊरुभागएव सूक्तम् । तथाचपञ्चमारण्यके सूत्रितम्-ऊरूइन्द्राग्नीयुवं- सुनइति । चातुर्विंशिकेहनि तृतीयसवने मैत्रावरुणो यदि महावालभिदं शंसेत्तदानीं माध्यन्दिने सवने होत्रकाःस्वशस्त्रे आरंभणीयाभ्यऊर्ध्वं नाभा- कतृचावावपेरन् तत्र ताहिमध्यमित्यच्छावाकस्य नाभाकतृचः । सूत्रितञ्च-ताहिमध्यंभराणामित्यच्छावाकइति । चातुर्विंशिकेहनि माध्यन्दिने सव- ने ब्राह्मणाच्छंसिनःपूर्वीष्टइन्द्रेति नाभाकतृचः । सूत्रितञ्च-पूर्वीष्टइन्द्रोपमातयइतिब्राह्मणाच्छंसीति ।