श्रवणम्

8.39.2
न्य᳚ग्ने॒ नव्य᳚सा॒ वच᳚स्त॒नूषु॒ शंस᳚मेषाम् ।
न्यरा᳚ती॒ ररा᳚व्णां॒ विश्वा᳚ अ॒र्यो अरा᳚तीरि॒तो यु᳚च्छन्त्वा॒मुरो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
नि । अ॒ग्ने॒ । नव्य᳚सा । वचः᳚ । त॒नूषु᳚ । शंस᳚म् । ए॒षा॒म् ।
नि । अरा᳚तीः । ररा᳚व्णाम् । विश्वाः᳚ । अ॒र्यः । अरा᳚तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒॑मुरः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तनूष्वस्माकमंगेषु नव्यसा नवतरेण वचः वचसा स्तोत्रेण एषां शत्रूणां शंसं शंसनं निदहेत्यर्थः । रराव्णां हविःप्रयच्छन्तामरातीः शत्रूंश्च निदह । अपिच विश्वाः सर्वे अर्योभिगच्छन्त । आमुरः आमूढा अरातीः शत्रवः इतोयुच्छन्तु गच्छन्तु । सिद्धमन्यत् ॥ २ ॥