अष्टमं मण्डलम् - सूक्तम् 77

11 ऋचः

ऋषिः: कुरुसुतिः काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.77 - सम्पूर्णम्

1 / 11
ऋक्: 8.77.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
8.77.1
ज॒ज्ञा॒नो नु श॒तक्र᳚तु॒र्वि पृ᳚च्छ॒दिति᳚ मा॒तर᳚म् ।
क उ॒ग्राः के ह᳚ शृण्विरे ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञा॒नः । नु । श॒त॑क्र᳚तुः । वि । पृ॒च्छ॒त् । इति᳚ । मा॒तर᳚म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो जज्ञानोनु जायमानएव शतक्रतुर्बहुकर्मा इतीत्थं मातरं स्वजननीं विपृच्छत् विपृच्छति । किमिति के उग्रा उद्गूर्णबला लोके केह शृण्विरे श्रूयन्ते गुणैः केविश्रुताइत्यर्थः ॥ १ ॥

8.77.2
आदीं᳚ शव॒स्य᳚ब्रवीदौर्णवा॒भम᳚ही॒शुव᳚म् ।
ते पु᳚त्र सन्तु नि॒ष्टुरः᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒॑वा॒भम् । अ॒ही॒शुव᳚म् ।
ते । पु॒त्र॒ । स॒न्तु॒ । निः॒॑तुरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रेण पृष्टा शवसी माता आदनंतरमेव ईं एनमिन्द्रमब्रवीत् । किमिति उच्यते-और्णवाभमहीशुवमेतन्नामानावसुरौ तिष्ठतः तौ उक्तौ । अन्ये च तादृशाः हे पुत्र तव निष्ठुरो निस्तारणीयाः सन्त्विति ॥ २ ॥

8.77.3
समित्तान्वृ᳚त्र॒हाखि᳚द॒त्खे अ॒रा{4} इ᳚व॒ खेद᳚या ।
प्रवृ᳚द्धो दस्यु॒हाभ᳚वत् ॥
▶ पदपाठः (Word-by-word)
सम् । इत् । तान् । वृ॒त्र॒॑हा । अ॒खि॒द॒त् । खे । अ॒रान्॑इ᳚व । खेद᳚या ।
प्र॑वृ᳚द्धः । द॒स्यु॒॑हा । अ॒भ॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तान् जनन्योक्तान्वृत्रहा इन्द्रः समित् सहैवाखिदत् खेदनं नामाकर्षणम् । खे रथचक्रस्य नाभौ अरान् चक्रांगभुतान् शंकून् खेदयाइव रज्ज्वेव तया तान्यथा संखिदन्ति तद्वत् तथा कृत्वादस्युहा शत्रुघातीन्द्रः प्रवृद्धोभवत् ॥ ३ ॥

8.77.4
एक᳚या प्रति॒धापि᳚बत्सा॒कं सरां᳚सि त्रिं॒शत᳚म् ।
इन्द्र॒ः सोम᳚स्य काणु॒का ॥
▶ पदपाठः (Word-by-word)
एक᳚या । प्र॒ति॒॑धा । अ॒पि॒ब॒त् । सा॒कम् । सरां᳚सि । त्रिं॒शत᳚म् ।
इन्द्रः᳚ । सोम᳚स्य । का॒णु॒का ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः एकया एकेन प्रतिधा प्रतिधानेन साकं सह एकधैव त्रिंशतं सरांसि उक्थपात्राणीत्यर्थः । कीदृशानि सरांसि सोमस्यपूर्णानि सोमरसेन पूर्णानि । काणुका कान्तानि क्रान्तानिवा सोमेन कृतानिवा सोमपूर्णानि अपिबत् पीतवान् माध्यंदिनसवने । याज्ञिकप्रसिध्यैवम् । नैरुक्तप्रसिध्यातु कालाभिमानीन्द्रः त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत्पूर्वपक्षस्य च सन्ति तानेकरूपमनुभवतीति एतत्सर्वमेकेन प्रतिधानेनापिबदित्यादि निरुक्ते तद्माख्यानेच स्पष्टमुक्तं तदत्र द्रष्टव्यम् ॥ ४ ॥

8.77.5
अ॒भि ग᳚न्ध॒र्वम᳚तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।
इन्द्रो᳚ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु᳚ । रजः᳚॑सु । आ ।
इन्द्रः᳚ । ब्र॒ह्म॑भ्यः᳚ । इत् । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो गंधर्वं गामुदकं धारयतीति गंधर्वो मेघस्तं अभ्यातृणत् सर्वतोहिंसितवान् । कुत्र अबुध्नेषु पदनिधानयोग्यस्थानरहितेषु रजःसु लोकेषु अन्तरिक्षप्रदेशेष्वित्यर्थः । किमर्थं ब्रह्मभ्यइत् ब्राह्मणेभ्यएव वृधे वर्धनाय ॥ ५ ॥

8.77.6
निरा᳚विध्यद्गि॒रिभ्य॒ आ धा॒रय᳚त्प॒क्वमो᳚द॒नम् ।
इन्द्रो᳚ बु॒न्दं स्वा᳚ततम् ॥
▶ पदपाठः (Word-by-word)
निः । अ॒वि॒ध्य॒त् । गि॒रि॑भ्यः᳚ । आ । धा॒रय᳚त् । प॒क्वम् । ओ॒द॒नम् ।
इन्द्रः᳚ । बु॒न्दम् । सु॑आ᳚ततम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो गिरिभ्यो मेघेभ्यः सकाशादुदकं निर्गमयितुं निराविध्यत् संप्राहरत् तानेव मेघान् अधारयत् । किंकुर्वन् पक्वं परिपक्वमोदनं कुर्वन् मनुष्याणामर्थाय । केन साधनेनेति तदुच्यते-बुंदं इषुं स्वाततं सुष्ठु सर्वतोविस्तृतं आदायेतिशेषः ॥ ६ ॥

8.77.7
श॒तब्र᳚ध्न॒ इषु॒स्तव᳚ स॒हस्र᳚पर्ण॒ एक॒ इत् ।
यमि᳚न्द्र चकृ॒षे युज᳚म् ॥
▶ पदपाठः (Word-by-word)
श॒त॑ब्र᳚ध्नः । इषुः᳚ । तव᳚ । स॒हस्र᳚॑पर्णः । एकः᳚ । इत् ।
यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तवेषुः शतब्रध्नः शताग्रः सहस्रपर्णः सहस्रसंख्याकैः पत्रैः संवृतः शीघ्रगमनाय अपरिमितगमनोवा सचैकइत् एकएव यंचेषुं युजं सहायं चकृषे करोषि युद्धाय ॥ ७ ॥

8.77.8
तेन᳚ स्तो॒तृभ्य॒ आ भ᳚र॒ नृभ्यो॒ नारि᳚भ्यो॒ अत्त᳚वे ।
स॒द्यो जा॒त ऋ᳚भुष्ठिर ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ । नृ॑भ्यः᳚ । नारि᳚॑भ्यः । अत्त᳚वे ।
स॒द्यः । जा॒तः । ऋ॒भु॒॑स्थि॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेनेषुणा स्तोतृभ्यः अस्मभ्यं नृभ्यो मनुष्येभ्यः पुत्रेभ्य इत्यर्थः । तथा नारिभ्यः स्त्रीभ्यश्चात्तवे अदनाय पर्याप्तं धनमाभराहर । सद्यस्तदानीमेव जातोस्माभिः दत्तेन सोमेन प्रवृद्धः सन् हेऋभुस्थिर प्रभूतःस्थिरश्च संग्रामे सतथोक्तः हे तादृशेन्द्र त्वमाभरेतिसमन्वयः ॥ ८ ॥

8.77.9
ए॒ता च्यौ॒त्नानि᳚ ते कृ॒ता वर्षि᳚ष्ठानि॒ परी᳚णसा ।
हृ॒दा वी॒ड्व᳚धारयः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । च्यौ॒त्नानि᳚ । ते॒ । कृ॒ता । वर्षि᳚ष्ठानि । परी᳚णसा ।
हृ॒दा । वी॒ळु । अ॒धा॒र॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वया एता एतानि पुरतः सर्वैर्दृश्यमानानि वर्षिष्ठानि अतिशयेन प्रवृद्धानि परीणसा परितोनतानि अतएव च्यौत्नानीति भावः भूमेः कीलवद्धारणानि कृता कृतानि पर्वतास्त्वया कृताइत्यर्थः । या यानि हृदा बुध्या वीळु स्थिराण्यधारयः बुध्या कर्तव्यानीति यान्यधारयस्ता- नीमानीति ॥ ९ ॥

8.77.10
विश्वेत्ता विष्णु॒राभ᳚रदुरुक्र॒मस्त्वेषि᳚तः ।
श॒तं म᳚हि॒षान्क्षी᳚रपा॒कमो᳚द॒नं व᳚रा॒हमिन्द्र᳚ एमु॒षम् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । इत् । ता । विष्णुः᳚ । आ । अ॒भ॒र॒त् । उ॒रु॒॑क्र॒मः । त्वा॑इ᳚षितः ।
श॒तम् । म॒हि॒षान् । क्षी॒र॒॑पा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः᳚ । ए॒मु॒षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याऋचोनैरुक्तैतिहासिकमतभेदेनद्विधायोजना । नैरुक्तपक्षे तावत्-हे इन्द्र ता तानि यानि त्वया स्रष्टव्यान्युदकानि सन्ति तानि विष्णुर्व्यापन- शीलआदित्यआभरत् आभरति लोकाय प्रयच्छतीत्यर्थः । कीदृशोविष्णुः उरुक्रमोबहुगतिः । किं स्वविरोधेनेत्याह त्वेषितः त्वयाप्रेरितः नकेवलमु- दकान्येव । अपिच शतं महिषान् शतसंख्याकान् पशून् महिषशब्दो गवादेरप्युपलक्षकः । अथवा शतशब्दोपरिमितवचनः महिषइति महन्नाम असंख्यातान् महतोयज्ञान् यजमानेभ्यआभरत् ददातीत्यर्थः । किंच क्षीरपाकं क्षीरपक्वमोदनं पायसं एतच्चरुपुरोडाशादेरुपलक्षकं तद्यजमानेभ्यआ- भरत् । अथवा सर्वार्थं वृष्टिप्रदानद्वारा ओदनं प्राहरत् । किंच इन्द्रोवराहं जलपूर्णं मेघं हन्तीतिशेषः । कीदृशं तं एमुषं आइत्यस्य स्थाने छान्दसए- कारः आमुषमुदकस्य मोषकमित्यर्थः । निरुक्तपक्षे एवम् । ऎतिहासिकपक्षे चरकब्राह्मणे इतिहासः आम्नायते-विष्णुर्यज्ञः सदेवेभ्यआत्मानमन्तरधा- त्तमन्यदेवतानाविदन् इन्द्रस्त्ववेत् सइन्द्रमब्रवीत्कोभवानिति । तमिन्द्रः प्रत्यब्रवीत् अहं दुर्गाणामसुराणां च हन्ता भवांस्तुक इति सोब्रवीत् अहं दुर्गादाहर्ता त्वंतु यदिदुर्गाणामसुराणां हन्ता ततोयं वराहोवाममुषएकविंशत्यापुरांपारेश्ममयीनां वसति तस्मिन्नसुराणां वसु वाममस्ति तमिमं जहीति । तस्येन्द्रस्ताः पुरोभित्वा हृदयमविध्यत् अधि तत्र यदासीत्तद्विष्णुराहरदिति । सोयमितिहासः अस्येदुमातुःसवनेषु विश्वेत्ताविष्णुरित्या- भ्यां प्रतिपादितः । तयोर्मध्ये अस्येदुमातुरित्यत्र विष्णुना हेइन्द्र त्वं दुर्गाणां हन्ता इति आत्मानं कथयसि तर्हि वाममुषं वराहमसुरं जहीत्युक्तोर्थो विध्यद्वराहमिति पादेन प्रतिपादितः । इन्द्रेण च विष्णो त्वं दुर्गादाहर्तेतिब्रूषे । मया पुराणि जितानि असुरश्च घातितः तस्य वामं वस्वानयेत्युक्तो विष्णुमूर्तिस्तस्य वराहासुरस्य धनं मुमोष । सोर्थो मुषायद्विष्णुः पचतमिति पादेन सूचितः । सकिं पुनर्मुषितवानिति तदत्रोच्यते-विश्वेत्तेति । हे इन्द्र त्वेषितःत्वया प्रेरितो विष्णुर्यज्ञरूपी त्वेषितः त्वं दुर्गादाहर्ता किल तर्हि त्वं तस्य धनान्याहरेति त्वया प्रेरितः सन् उरुक्रमो भूत्वा विश्वेत्ता यानि त्वया हर्तव्यानि इत्युक्तानि यानि च तत्र स्थितानि सर्वाण्याभरत् आभरतु । कानि तानीति शतं महिषान् अपरिमितान् प्रशस्तान् पदार्थान् तेषां वाहनरूपान् महिषान्वा क्षीरपाकमोदनं च पक्वमात्रमेवोदनं वा भरत् । विध्यद्वराहमित्यत्रोक्तोर्थश्च चरमपादेनोच्यते-इन्द्रस्तु वराहं वराहारं स्वीकृतासुरसर्वस्वं वराहरूपिणं वा एमुषं एमुषनामानं अथवा एमुषं धनानामामोषकं वराहमसुरं हृदये अविध्यदितिशेषः ॥ १० ॥

8.77.11
तु॒वि॒क्षं ते॒ सुकृ᳚तं सू॒मयं॒ धनु᳚ः सा॒धुर्बु॒न्दो हि᳚र॒ण्ययः᳚ ।
उ॒भा ते᳚ बा॒हू रण्या॒ सुसं᳚स्कृत ऋदू॒पे चि᳚दृदू॒वृधा᳚ ॥
▶ पदपाठः (Word-by-word)
तु॒वि॒॑क्षम् । ते॒ । सु॑कृ᳚तम् । सु॒॑मय᳚म् । धनुः᳚ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः᳚ ।
उ॒भा । ते॒ । बा॒हू इति᳚ । रण्या᳚ । सु॑सं᳚स्कृता । ऋ॒दु॒॑पे । चि॒त् । ऋ॒दु॒॑वृधा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषा निरुक्ते एकमपि पदं विहाय यास्केन व्याख्याता तदेवलिख्यते-तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः साधयिता ते बुन्दोहिरण्मयः उभौ ते बाहू रण्यौ रमणीयौ संग्राम्यौ वर्दूपे अर्दनपातिनौ गमनपातिनौमर्मण्यर्दनवेधिनौ गमनवेधिनौ वेति ॥ ११ ॥

पुरोळशंनइति दशर्चमष्टमं सूक्तं काण्वस्य कुरुसुतेरार्षं आद्यानवगायत्र्योदशमी बृहती इन्द्रोदेवता । तथाचानुक्रान्तं-पुरोळाशं दशबृहत्यन्तमिति । सूक्तविनियोगोलैंङ्गिकः । महाव्रते निष्केवल्ये गायत्रतृचाशीतौ आद्यास्तिस्रऋचः । तथाच सूत्रितं-पुरोळाशंनोअन्धसइति तिस्रइति ।