अष्टमं मण्डलम् - सूक्तम् 38

10 ऋचः

ऋषिः: श्यावाश्वः देवता: इंद्राग्नी छन्दः: गायत्री

सूक्तम् 8.38 - सम्पूर्णम्

1 / 10
ऋक्: 8.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.38.1
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे᳚षु॒ कर्म᳚सु ।
इन्द्रा᳚ग्नी॒ तस्य᳚ बोधतम् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । हि । स्थः । ऋ॒त्विजा᳚ । सस्नी॒ इति᳚ । वाजे᳚षु । कर्म᳚॑सु ।
इन्द्रा᳚ग्नी॒ इति᳚ । तस्य᳚ । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी सस्नी शुद्धौ युवां यज्ञस्य ऋत्विजा ऋत्विजौ स्थः भवथोहि । वाजेषु कर्मसु युद्धेषु वोपतिष्ठन्ताविन्द्राग्नी तस्य यजमानस्य मम स्तुतिं वा बोधतं जानीतम् ॥ १ ॥

8.38.2
तो॒शासा᳚ रथ॒यावा᳚ना वृत्र॒हणाप᳚राजिता ।
इन्द्रा᳚ग्नी॒ तस्य᳚ बोधतम् ॥
▶ पदपाठः (Word-by-word)
तो॒शासा᳚ । र॒थ॒॑यावा᳚ना । वृ॒त्र॒॑हना᳚ । अप᳚रा॑जिता ।
इन्द्रा᳚ग्नी॒ इति᳚ । तस्य᳚ । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी तोशासा शत्रून् हिंसन्तौ रथयावाना रथेन गच्छन्तौ वृत्रहणा वृत्रस्य हन्तारौ अपराजिता केनाप्यपराजितौ तस्य तं मां बोधतम् ॥ २ ॥

8.38.3
इ॒दं वां᳚ मदि॒रं मध्वधु᳚क्ष॒न्नद्रि᳚भि॒र्नरः᳚ ।
इन्द्रा᳚ग्नी॒ तस्य᳚ बोधतम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । वा॒म् । म॒दि॒रम् । मधु᳚ । अधु᳚क्षन् । अद्रि᳚॑भिः । नरः᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । तस्य᳚ । बो॒ध॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी वां युवां उद्दिश्य नरो यज्ञस्य नेतारोद्रिभिर्ग्रावभिः इदं प्रसिद्धं मदिरं मदकरं मधु सोमात्मकममृतं अधुक्षन् अपूरयन् । सिद्धमन्यत् ॥ ३ ॥

8.38.4
जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ सु॒तं सोमं᳚ सधस्तुती ।
इन्द्रा᳚ग्नी॒ आ ग᳚तं नरा ॥
▶ पदपाठः (Word-by-word)
जु॒षेथा᳚म् । य॒ज्ञम् । इ॒ष्टये᳚ । सु॒तम् । सोम᳚म् । स॒ध॒स्तु॒ती॒ इति᳚ सध॑स्तुती ।
इन्द्रा᳚ग्नी॒ इति᳚ । आ । ग॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सधस्तुती सहभूतस्तुती नरानेताराविंद्राग्नी यज्ञं जुषेथां सेवेथां इष्टये यागाय सतमभिषुतं सोमञ्च आगतमागच्छतम् ॥ ४ ॥

8.38.5
इ॒मा जु᳚षेथां॒ सव᳚ना॒ येभि᳚र्ह॒व्यान्यू॒हथु᳚ः ।
इन्द्रा᳚ग्नी॒ आ ग᳚तं नरा ॥
▶ पदपाठः (Word-by-word)
इ॒मा । जु॒षे॒था॒म् । सव᳚ना । येभिः᳚ । ह॒व्यानि᳚ । ऊ॒हथुः᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । आ । ग॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी नरानेतारौ युवां येभिः यैः सवनैः हव्यान्यूहथुः वहथस्तानीमा इमानि सवना सवनानि जुषेथां सेवेथामागतञ्च ॥ ५ ॥

8.38.6
इ॒मां गा᳚य॒त्रव᳚र्तनिं जु॒षेथां᳚ सुष्टु॒तिं मम᳚ ।
इन्द्रा᳚ग्नी॒ आ ग᳚तं नरा ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । गा॒य॒त्र॑व᳚र्तनिम् । जु॒षेथा᳚म् । सु॒॑स्तु॒तिम् । मम᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । आ । ग॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी नरौ युवां मम मायत्रवर्तनिं गायत्रमार्गामिमां सुष्टुतिं शोभनां स्तुतिं जुषेथां सेवेथामागतञ्च ॥ ६ ॥

8.38.7
प्रा॒त॒र्याव᳚भि॒रा ग᳚तं दे॒वेभि᳚र्जेन्यावसू ।
इन्द्रा᳚ग्नी॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
प्रा॒त॒र्याव᳚॑भिः । आ । ग॒त॒म् । दे॒वेभिः᳚ । जे॒न्या॒व॒सू॒ इति᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जेन्यावसू जेतव्यशत्रुधनाविन्द्राग्नी प्रातर्यावभिः देवेभिः दवैः सह सोमपीतये सोमस्य पानायागतमागच्छतम् ॥ ७ ॥

8.38.8
श्या॒वाश्व᳚स्य सुन्व॒तो॑त्री᳚णां शृणुतं॒ हव᳚म् ।
इन्द्रा᳚ग्नी॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । अत्री᳚णाम् । शृ॒णु॒त॒म् । हव᳚म् ।
इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी युवां सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य श्यावाश्वस्य ममात्रीणामृत्विजां हवमाह्वानं सोमस्य पानाय शृणुतम् ॥ ८ ॥

8.38.9
ए॒वा वा᳚मह्व ऊ॒तये॒ यथाहु᳚वन्त॒ मेधि᳚राः ।
इन्द्रा᳚ग्नी॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये᳚ । यथा᳚ । अहु᳚वन्त । मेधि᳚राः ।
इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी वां युवां यथा मेधिराः प्राज्ञा अहुवन्त आहूतवन्तः एव एवमहमूतये रक्षणाय सोमस्य पीतये चाह्वे ह्वयामि ॥ ९ ॥

8.38.10
आहं सर᳚स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚ वृणे ।
याभ्यां᳚ गाय॒त्रमृ॒च्यते᳚ ॥
▶ पदपाठः (Word-by-word)
आ । अ॒हम् । सर᳚स्वती॑वतोः । इ॒न्द्रा॒ग्न्योः । अवः᳚ । वृ॒णे॒ ।
याभ्या᳚म् । गा॒य॒त्रम् । ऋ॒च्यते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याभ्यां ययोरिन्द्राग्न्योरर्थं गायत्रं साम ऋच्यते स्तूयते तयोः सरस्वतीवतोःस्तुतिमतोरिन्द्राग्न्योः संबंध्यवो रक्षणमहमावृणे ॥ १० ॥

अग्निमस्तोषीति दशर्चं नवमं सूक्तं काण्वस्य नाभाकस्यार्षं षडष्टका महापंक्तिश्छन्दः अग्निर्देवता । अनुक्रान्तञ्च-अग्निमस्तोषिनाभाकआग्नेयं महापांक्तंहीति । विनियोगोलैङ्गिकः ।