यमा᳚दित्या अ॒भि द्रु॒हो रक्ष᳚था॒ नेम॒घं न᳚शदने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष᳚थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वरुण हे मित्र एतह्वयमर्यम्णोप्युपलक्षणं हे वरुणादयो महतां वो युष्माकं अवः रक्षणं महि महत् कस्मै दाशुषे हविर्दात्रे यजमानाय क्रियमाणम् । किञ्च हे आदित्याः यं यजमानं द्रुहो द्रोग्धुः सकाशादभिरक्षथ ईमेनं यजमानं अघं पापं ननशत् नप्राप्नोति । कुतएवमिति तत्रोच्यते-वो युष्माकमूत- यो रक्षणानि अनेहसः अपापानि अनुपद्रवाणिच ऊतयो वो युष्माकं रक्षणानि सऊतयः शोभनलक्षणानि । पूनरुक्तिरादरार्था ॥ १ ॥