यच्च॒ गोषु᳚ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु᳚हितर्दिवः ।
त्रि॒ताय॒ तद्वि᳚भावर्या॒प्त्याय॒ परा᳚ वहाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
त्रि॒ताय॒ तद्वि᳚भावर्या॒प्त्याय॒ परा᳚ वहाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
यत् । च॒ । गोषु᳚ । दुः॒॑स्वप्न्य᳚म् । यत् । च॒ । अ॒स्मे इति᳚ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ताय᳚ । तत् । वि॒भा॒॑व॒रि॒ । आ॒प्त्याय᳚ । परा᳚ । व॒ह॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
त्रि॒ताय᳚ । तत् । वि॒भा॒॑व॒रि॒ । आ॒प्त्याय᳚ । परा᳚ । व॒ह॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे दिवोदुहितरुषः उषोदेवते यच्च गोषु अस्मदीयासु दुःष्वम्यं अनर्थसूचकं दृष्टं स्वार्थिकोयत् किञ्च यच्च दुःष्वम्यं अस्मेस्मासु दृष्टं गोपीडानिमित्तक- मस्माकं पीडानिमित्तकं च्च यत् दुःष्वमं पश्यामइत्यर्थः । तत्सर्वं हे विभावरि उषोनामैतत् हे व्युच्छनवति देवि आप्त्याय त्रिताय परावह दूरे परिहर ॥ १४ ॥