अजै᳚ष्मा॒द्यास᳚नाम॒ चाभू॒माना᳚गसो व॒यम् ।
उषो॒ यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु᳚च्छत्वने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
उषो॒ यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु᳚च्छत्वने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
अजै᳚ष्म । अ॒द्य । अस᳚नाम । च॒ । अभू᳚म । अना᳚गसः । व॒यम् ।
उषः᳚ । यस्मा᳚त् । दुः॒॑स्वप्न्या᳚त् । अभै᳚ष्म । अप᳚ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
उषः᳚ । यस्मा᳚त् । दुः॒॑स्वप्न्या᳚त् । अभै᳚ष्म । अप᳚ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वयं त्रिताः अद्याजैष्म जयेम असनामच संभजेमच सुष्वप्न्यं सुखंवा अनागसोपापाअभूम भवेम । हे उषः यस्माद्दुष्वप्न्यादभैष्म भीताः स्म तत्पा- पं अपोच्छतु अपगच्छतु ॥ १८ ॥
स्वादोरभक्षीति पञ्चदशर्चं षष्ठंसीक्तं काण्वस्य प्रगाथस्यार्षं सोमदेवताकं त्रैष्टुभं पञ्चमीजगती । तथाचानुक्रान्तम्-स्वादोःपञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमीजगतीति । सीक्तविनियोगोलैङ्गिकः ।