अदि᳚तिर्न उरुष्य॒त्वदि᳚ति॒ः शर्म᳚ यच्छतु ।
मा॒ता मि॒त्रस्य᳚ रे॒वतो᳚॑र्य॒म्णो वरु᳚णस्य चाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
मा॒ता मि॒त्रस्य᳚ रे॒वतो᳚॑र्य॒म्णो वरु᳚णस्य चाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
अदि᳚तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि᳚तिः । शर्म᳚ । य॒च्छ॒तु॒ ।
मा॒ता । मि॒त्रस्य᳚ । रे॒वतः᳚ । अ॒र्य॒म्णः । वरु᳚णस्य । च॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
मा॒ता । मि॒त्रस्य᳚ । रे॒वतः᳚ । अ॒र्य॒म्णः । वरु᳚णस्य । च॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
नोस्मानदितिरखण्डनीया देवमाता उरुष्यतु रक्षतु तथा अदितिः शर्म सुखं यच्छतु । अदितिर्विशेष्यते या माता निर्मात्री कस्य मित्रस्य रेवतो धनवतोर्यम्णो वरुणस्यच । सा न उरुष्यत्विति ॥ ९ ॥