श्रवणम्

8.47.5
परि᳚ णो वृणजन्न॒घा दु॒र्गाणि᳚ र॒थ्यो᳚ यथा ।
स्यामेदिन्द्र᳚स्य॒ शर्म᳚ण्यादि॒त्याना᳚मु॒ताव᳚स्यने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
परि᳚ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒॑गानि᳚ । र॒थ्यः᳚ । य॒था॒ ।
स्याम᳚ । इत् । इन्द्र᳚स्य । शर्म᳚णि । आ॒दि॒त्याना᳚म् । उ॒त । अव᳚सि । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परिवृणजन् परिवर्जयन्तु नोस्माकं अघा अघानि पापानि । तत्र दृष्टान्तः-दुर्गाणि दुर्गमनान् प्रदेशान् अवटधिष्ण्यादिकान् यथा रथ्यः रथस्य वोढारोश्वाः परिवर्जयन्ति तद्वत् इन्द्रस्य शर्मणि स्याम भवेम वयं उतापिच आदित्यानामवसि रक्षणेच स्याम ॥ ५ ॥