श्रवणम्

8.47.10
यद्दे᳚वा॒ः शर्म᳚ शर॒णं यद्भ॒द्रं यद᳚नातु॒रम् ।
त्रि॒धातु॒ यद्व᳚रू॒थ्यं१॒᳚ तद॒स्मासु॒ वि य᳚न्तनाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । दे॒वाः॒ । शर्म᳚ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।
त्रि॒॑धातु᳚ । यत् । व॒रू॒थ्य᳚म् । तत् । अ॒स्मासु᳚ । वि । य॒न्त॒न॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा आदित्याः यच्छर्म सुखं शरणं शरणीयं यद्भद्रं सर्वैर्भजनीयं यदनातुरं रोगरहितं यन्त्रिधातु त्रिगुणं यद्वरूथ्यं वरुथं गृहं तदर्हं यदुक्तगुणकं शर्मास्मासु वियन्तन वियच्छत ॥ १० ॥