यस्मा॒ अरा᳚सत॒ क्षयं᳚ जी॒वातुं᳚ च॒ प्रचे᳚तसः ।
मनो॒र्विश्व᳚स्य॒ घेदि॒म आ᳚दि॒त्या रा॒य ई᳚शते॑ने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
मनो॒र्विश्व᳚स्य॒ घेदि॒म आ᳚दि॒त्या रा॒य ई᳚शते॑ने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
यस्मै᳚ । अरा᳚सत । क्षय᳚म् । जी॒वातु᳚म् । च॒ । प्र॑चे᳚तसः ।
मनोः᳚ । विश्व᳚स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
मनोः᳚ । विश्व᳚स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यस्मै मनुष्याय क्षयं निवासं जीवातुं जीवनसाधनमन्नञ्च प्रचेतसः प्रकृष्टमतयः अरासत प्रयच्छन्ति तस्मै यजमानाय तदर्थं इमे आदित्याः विश्वस्य घेत् सर्वस्याप्ययष्टुर्मनोर्मनुष्यस्य धनिकस्य रायो धनस्य ईशते स्वामिनो भवन्त्यपहृत्य यजमानाय प्रदातुम् ॥ ४ ॥