अष्टमं मण्डलम् - सूक्तम् 71

15 ऋचः

ऋषिः: सुदीतिपुरुमीळ्हौ तयोर्वान्यतरः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 8.71 - सम्पूर्णम्

1 / 15
ऋक्: 8.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
8.71.1
त्वं नो᳚ अग्ने॒ महो᳚भिः पा॒हि विश्व᳚स्या॒ अरा᳚तेः ।
उ॒त द्वि॒षो मर्त्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । महः᳚॑भिः । पा॒हि । विश्व᳚स्याः । अरा᳚तेः ।
उ॒त । द्वि॒षः । मर्त्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोस्मान् महोभिः पूजाभिः महद्भिर्धनैर्वा पाहि रक्ष । कस्य महोभिर्विश्वस्याः बहुविधस्य अरातेरदातुः सकाशात् अदानाद्वा पाहि त्वमेव महद्धनं दत्वा अदातुरदानाद्वा सकाशाद्रक्षेत्यर्थः । यद्वा महोभिर्युक्तस्त्वमिति योज्यम् । उत अपिच द्विषोद्वेष्टुर्मर्त्यस्य मर्त्यात्सकाशात्पाहि अस्मभ्यं बलं दत्वेति भावः । अथवा मर्त्यस्यद्विषो द्वेषाद्रक्षेति संबन्धः । अरातेरित्यस्य अदानादिति पक्षे तत्रापि मर्त्यस्यादानादिति संबन्ध- नीयम् ॥

8.71.2
न॒हि म॒न्युः पौरु᳚षेय॒ ईशे॒ हि वः᳚ प्रियजात ।
त्वमिद᳚सि॒ क्षपा᳚वान् ॥
▶ पदपाठः (Word-by-word)
न॒हि । म॒न्युः । पौरु᳚षेयः । ईशे᳚ । हि । वः॒ । प्रि॒य॒॑जा॒त॒ ।
त्वम् । इत् । अ॒सि॒ । क्षपा᳚॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रियजात प्रियो यजमानस्तदर्थमुत्पन्न अग्ने वस्तव पौरुषेयः पुरुषसंबन्धी मन्युःक्रोधो नहीशे नेष्टे बाधितुं अस्मदादिभीरक्षितत्वादितिभावः । दिवाचराः खलु पुरुषाः । अतो दिवा तवहानिर्नास्तीतिभावः । अथ रात्रिञ्चरा रक्षःप्रभृतयः तेभ्योपि पीडा नास्तीत्युच्यते त्वमित् त्वमेवखलु क्षपावान् रात्रिमानसि रात्रौ त्द्यग्निर्विशेषेण तेजस्वीभवति ॥ २ ॥

8.71.3
स नो॒ विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚ नपा॒द्भद्र᳚शोचे ।
र॒यिं दे᳚हि वि॒श्ववा᳚रम् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । विश्वे᳚भिः । दे॒वेभिः᳚ । ऊर्जः᳚ । न॒पा॒त् । भद्र᳚॑शोचे ।
र॒यिम् । दे॒हि॒ । वि॒श्व॑वा᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सः स्तुत्यस्त्वं नोस्मभ्यं विश्वेभिः देवेभिः धनं प्रयच्छसि । हे ऊर्जोनपात् बलस्य नप्तः नपातयितर्वा हे भद्रशोचे स्तुत्य प्रकाशनदेव आदरार्थं पुनराह रयिं धनं विश्ववारं सर्वैर्वरणीयं धनं देहि । अथवा यद्वसूपमास्यस्मभ्यं दातुं तद्धनं गृहादिलक्षणं तच्च रयिं दानार्हं गो- हिरण्यादिकंच देहीत्यपुनरुक्तिः ॥ ३ ॥

8.71.4
न तम᳚ग्ने॒ अरा᳚तयो॒ मर्तं᳚ युवन्त रा॒यः ।
यं त्राय᳚से दा॒श्वांस᳚म् ॥
▶ पदपाठः (Word-by-word)
न । तम् । अ॒ग्ने॒ । अरा᳚तयः । मर्त᳚म् । यु॒व॒न्त॒ । रा॒यः ।
यम् । त्राय᳚से । दा॒श्वांस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तं मर्तं मनुष्यं स्तोतारं अरातयः अदानशीला द्वेषिणो रायो रयिमन्तो न युवन्त न पृथक्कुर्वन्ति रायो धनाद्वा नयुवन्त यं दाश्वांसं हविर्दातारं त्रायसे पालयसे ॥ ४ ॥

8.71.5
यं त्वं वि᳚प्र मे॒धसा᳚ता॒वग्ने᳚ हि॒नोषि॒ धना᳚य ।
स तवो॒ती गोषु॒ गन्ता᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वम् । वि॒प्र॒ । मे॒ध॑सा᳚तौ । अग्ने᳚ । हि॒नोषि᳚ । धना᳚य ।
सः । तव᳚ । ऊ॒ती । गोषु᳚ । गन्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विप्र त्वं यं मर्त्यं मेधसातौ यज्ञस्य संभजने हिनोषि प्रेरयसि धनाय गवादिधनलाभाय सयजमानस्तवोती ऊत्या रक्षणेन यागेषु गन्ता भवति गोमान् भवतीत्यर्थः ॥ ५ ॥

8.71.6
त्वं र॒यिं पु᳚रु॒वीर॒मग्ने᳚ दा॒शुषे॒ मर्ता᳚य ।
प्र णो᳚ नय॒ वस्यो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । र॒यिम् । पु॒रु॒॑वीर᳚म् । अग्ने᳚ । दा॒शुषे᳚ । मर्ता᳚य ।
प्र । नः॒ । न॒य॒ । वस्यः᳚ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं दाशुषे हविर्दत्तवते मर्ताय मर्त्याय यजमानाय रयिं धनं पुरुवीरं बहुभिर्वीरैर्युक्तं प्रयच्छसि अतो नोस्मानपिवस्यः वसीयोधनं अच्छाभिप्राप्तुं प्रणय प्रापय ॥ ६ ॥

8.71.7
उ॒रु॒ष्या णो॒ मा परा᳚ दा अघाय॒ते जा᳚तवेदः ।
दु॒रा॒ध्ये॒३॒᳚ मर्ता᳚य ॥
▶ पदपाठः (Word-by-word)
उ॒रु॒ष्य । नः॒ । मा । परा᳚ । दाः॒ । अ॒घ॒॑य॒ते । जा॒त॒॑वे॒दः॒ ।
दुः॒॑आ॒ध्ये᳚ । मर्ता᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातविद्य जातधन वा अग्ने नोस्मानुरुष्य रक्ष । उरुष्यती रक्षाकर्मेति यास्कः । मापरादाः मापरादेह्यस्मान् । कस्माइति सउच्यते अघायते अघं पापमिच्छते दुराध्ये दुराध्यानाय दुर्विचिन्तकाय हिंसाबुद्धये मर्ताय मनुष्याय ॥ ७ ॥

8.71.8
अग्ने॒ माकि᳚ष्टे दे॒वस्य᳚ रा॒तिमदे᳚वो युयोत ।
त्वमी᳚शिषे॒ वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । माकिः᳚ । ते॒ । दे॒वस्य᳚ । रा॒तिम् । अदे᳚वः । यु॒यो॒त॒ ।
त्वम् । ई॒शि॒षे॒ । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवस्य द्योतमानस्य ते तव रातिं दानं दत्तं धनं वा कश्चित् अदेवो मर्त्यादिर्माकिर्युयोत मैव पृथक्करोतु त्वमेव ईशिषे । कस्य वसूनां धनानां ईश्वरोभवसि दातुं अनेनानिश्रणीयायारातेः सद्भावउक्तो भवति ॥ ८ ॥

8.71.9
स नो॒ वस्व॒ उप᳚ मा॒स्यूर्जो᳚ नपा॒न्माहि᳚नस्य ।
सखे᳚ वसो जरि॒तृभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । वस्वः᳚ । उप᳚ । मा॒सि॒ । ऊर्जः᳚ । न॒पा॒त् । माहि᳚नस्य ।
सखे᳚ । व॒सो॒ इति᳚ । ज॒रि॒तृ॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऊर्जोनपात् बलस्य अन्नस्य पुत्र बलेन मथ्यमानत्वादाज्यलक्षणेनान्नेन प्रवर्धनात् ऊर्जोनपात्त्वं हे सखे सखिवद्धितकारिन् वसो वासकाग्ने सः स्तुत्यत्वेन वा प्रसिद्धस्त्वं जरितृभ्यः गरितृभ्यः स्तोतृभ्यो नोस्मभ्यं माहिनस्य वस्वः माहिनइति महन्नाम महद्धनं उपमासि समीपे मासि निर्मासि प्रयच्छसीत्यर्थः ॥ ९ ॥

8.71.10 समानपद
अच्छा᳚ नः शी॒रशो᳚चिषं॒ गिरो᳚ यन्तु दर्श॒तम् ।
अच्छा᳚ य॒ज्ञासो॒ नम᳚सा पुरू॒वसुं᳚ पुरुप्रश॒स्तमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । नः॒ । शी॒र॑शो᳚चिषम् । गिरः᳚ । य॒न्तु॒ । द॒र्श॒तम् ।
अच्छ᳚ । य॒ज्ञासः᳚ । नम᳚सा । पु॒रु॒॑वसु᳚म् । पु॒रु॒॑प्र॒श॒स्तम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अच्छाभिमुखं यन्तु गच्छन्तु नोस्माकं गिरः स्तुतयः कं शीरशोचिषं अशनशीलज्वालं दर्शतं सर्वैर्दर्शनीयं अग्निम् । तथा यज्ञासो यज्ञाश्चास्मदीया नमसा हविषाज्यादिलक्षणेनाच्छा भिमुखं यन्तु गच्छतु । कीदृशं पुरुवसुं प्रभूतधनं पुरुप्रशस्तं बहुस्तुतं किमर्थं ऊतयेस्माकं रक्षणाय ॥ १० ॥

8.71.11
अ॒ग्निं सू॒नुं सह᳚सो जा॒तवे᳚दसं दा॒नाय॒ वार्या᳚णाम् ।
द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता᳚ म॒न्द्रत᳚मो वि॒शि ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । सू॒नुम् । सह᳚सः । जा॒त॑वे᳚दसम् । दा॒नाय᳚ । वार्या᳚णाम् ।
द्वि॒ता । यः । भूत् । अ॒मृतः᳚ । मर्त्ये᳚षु । आ । होता᳚ । म॒न्द्र॑त᳚मः । वि॒शि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निं सहसःसूनुं बलस्यपुत्रं जातवेदसं जातधनं वार्याणां वरणीयानां गवादिधनानां दानाय गिरोच्छयन्त्वित्यनुवर्तते । योग्निरमृतः अमरणधर्मा देवेषु भवति समर्त्येष्वा आकारश्चार्थे मनुष्येषुच भूदभवदिति । एवं द्विता द्वैधं भवति देवेष्वमृतत्वमस्य प्रसिद्धम् । मनुष्येषु कीदृशो भूदिति उच्यते-विशि विक्षु यजमानरूपासु प्रजासु होता होमनिष्पादकः मन्द्रतमो मादयितृतमश्च भवति । अच्छयन्त्वितिसमन्वयः । अथवा यः अमृतो द्विता द्वित्वं द्वैधं द्विप्रकारोभूत् कथंमर्त्येषु सामान्येन दाहपाकादिसाधनो भवदित्येतत्प्रसिद्धम् । विशि यजमानरूपायांतु होता मन्द्रतमो भवदित्येवं द्वित्वम् ॥ ११ ॥

8.71.12
अ॒ग्निं वो᳚ देवय॒ज्यया॒ग्निं प्र᳚य॒त्य᳚ध्व॒रे ।
अ॒ग्निं धी॒षु प्र᳚थ॒मम॒ग्निमर्व᳚त्य॒ग्निं क्षैत्रा᳚य॒ साध᳚से ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वः॒ । दे॒व॒॑य॒ज्यया᳚ । अ॒ग्निम् । प्र॒॑य॒ति । अ॒ध्व॒रे ।
अ॒ग्निम् । धी॒षु । प्र॒थ॒मम् । अ॒ग्निम् । अर्व᳚ति । अ॒ग्निम् । क्षैत्रा᳚य । साध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजमाना वो युष्माकं देवयज्यया देवयागेन निमित्तेन देवयागार्थमग्निं स्तौमीतिशेषः । तथाग्निं अध्वरे यागे प्रयति प्रकर्षेण गच्छति प्रवृत्तेसति स्तौमि । प्रथमं इतरदेवेभ्यः । तथाग्निमर्वति आगते भ्रातृव्ये स्तौमि । यज्ञे विघ्नपरिहारार्थम् । तथा क्षैत्राय क्षेत्राय क्षेत्रसंबन्धिने साधसे साधनाय क्षेत्रलाभाय स्तौमि । यज्ञान्ते क्षेत्रलाभरूपाय फलायच स्तौमि । एवं आदौ मध्येन्तेच सर्वदा स्तौमीत्यर्थः ॥ १२ ॥

8.71.13 समानपद
अ॒ग्निरि॒षां स॒ख्ये द᳚दातु न॒ ईशे॒ यो वार्या᳚णाम् ।
अ॒ग्निं तो॒के तन᳚ये॒ शश्व᳚दीमहे॒ वसुं॒ सन्तं᳚ तनू॒पाम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे᳚ । यः । वार्या᳚णाम् ।
अ॒ग्निम् । तो॒के । तन᳚ये । शश्व᳚त् । ई॒म॒हे॒ । वसु᳚म् । सन्त᳚म् । त॒नू॒॑पाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्देवः सख्ये समानख्यानाय नो मत्द्यं सख्युः कर्म सख्यं तस्मिन् अथवा नोस्मभ्यं इषां इषोन्नानि ददातु । योग्निर्वार्याणां धनानामीशे ईष्टे सद- दात्विति । तमेवाग्निं तोके पुत्रार्थं तनये तत्पुत्रार्थंच शश्वद्बहुधनं अन्नंवा ईमहे याचामहे । वार्याणामीश इत्युक्तत्वादेवंलभ्यते कीदृशमग्निं वसुं वासकं सन्तं सर्वदा वर्तमानं तनूपां अंगानां पालयितारं ॥ १३ ॥

8.71.14
अ॒ग्निमी᳚ळि॒ष्वाव᳚से॒ गाथा᳚भिः शी॒रशो᳚चिषम् ।
अ॒ग्निं रा॒ये पु᳚रुमीळ्ह श्रु॒तं नरो॒॑ग्निं सु᳚दी॒तये᳚ छ॒र्दिः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव᳚से । गाथा᳚भिः । शी॒र॑शो᳚चिषम् ।
अ॒ग्निम् । रा॒ये । पु॒रु॒॑मी॒ळ्ह॒ । श्रु॒तम् । नरः᳚ । अ॒ग्निम् । सु॒॑दी॒तये᳚ । छ॒र्दिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुमीह्ळ त्वमग्निं अवसे आवयोः रक्षणाय ईळिष्व स्तुहि गाथाभिः गाथेति वाङ्गाम मन्त्ररूपाभिर्वाग्भिः कीदृशं शीरशोचिषं शयनस्व भाव- रोचिष्कं तथा राये धनाय अग्निं ईळिष्व श्रुतमेनं नरोन्येपि यजमानाः स्तुवन्ति स्वार्थं तस्मात्सुदीतये मत्द्यं अग्निं छर्दिर्गृहं याचस्व इत्येवं सुदीतिः पुरुमीह्ळं ब्रूते ॥ १४ ॥

8.71.15
अ॒ग्निं द्वेषो॒ योत॒वै नो᳚ गृणीमस्य॒ग्निं शं योश्च॒ दात᳚वे ।
विश्वा᳚सु वि॒क्ष्व᳚वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु᳚रृषू॒णाम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । द्वेषः᳚ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात᳚वे ।
विश्वा᳚सु । वि॒क्षु । अ॒वि॒ता॑इ᳚व । हव्यः᳚ । भुव᳚त् । वस्तुः᳚ । ऋ॒षू॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्देवः अस्माकं द्वेषः द्वेष्टृन् योतवै पृथक्कर्तुं गृणीमसि गृणीमः स्तुमः । तथाग्निं शं सुखं योश्च भयानामश्रणं च दातवे दातुं अथवा शं सुखस्य योर्मिश्रणायच । गृणीमसि । अस्मिन्पक्षे द्वेषो योतवा इत्यनेन सह समुच्चयार्थश्चशब्दः । सोग्निर्विश्वासु सर्वासु विक्षु प्रजासु अवितेव रक्षिता राजेव ऋषूण्णामृषीणामस्माकं वस्तुः वासको देवो हव्यो भुवत् भवतु । अथवा सर्वासु विक्षु यजमानरूपासु प्रजासु मध्ये ऋषूणामृषीणां सूक्तद्रष्टृणामस्माकमेव हव्यो भवतु वस्तुः सर्वस्य वासकोदेवः ॥ १५ ॥

हविष्कृणुध्वमित्यष्टादशर्चं तृतीयंसूक्तं अत्रानुक्रमणिका-हविद्मूना हर्यतः प्रागाथो हविषांस्तुतिर्वेति । प्रगाथपुत्रोहर्यतऋषिः परंगायत्रं प्राग्व- त्सप्रेरिति परिभाषया गाग्रत्रीछन्दः आग्नेयंत्वित्युक्तत्वादग्निर्देवता । यद्वा हविषांस्तयमानत्वात्तद्देवताकं वा । सूक्तविनियोगोलैङ्गिकः ।