माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
पदपाठः (Word-by-word)
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शचीपते इन्द्र त्वं वृत्रतूर्येषु संग्रामेषु इदं ब्रह्म इमान् ब्राह्मणान् विश्वाभिः सर्वाभिःऊतिभीरक्षाभिः प्राविथ प्ररक्ष । सुन्वतः सोमाभिषवः कुर्वतो यजमानांश्च प्राविथ । अपिच हे अनेद्यानिन्द्य वज्रिवो वज्रिन् वृत्रहन्निन्द्र माध्यन्दिनस्य सवनस्य संबन्धिनं सोमस्य सोमं पिब ॥ १ ॥