श्रवणम्

8.37.5
क्षेम᳚स्य च प्र॒युज᳚श्च॒ त्वमी᳚शिषे शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
▶ पदपाठः (Word-by-word)
क्षेम᳚स्य । च॒ । प्र॒॑युजः᳚ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपिच हे शचीपते इन्द्र त्वं सर्वस्य जगतः क्षेमस्य प्रयुजश्च प्रयोगस्य च योगक्षेमयोरित्यर्थः ईशिषे ईश्वरोभवसि । सिद्धमन्यत् ॥ ५ ॥