प्र त्र॒सद᳚स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र᳚ क्ष॒त्राणि᳚ व॒र्धय᳚न् ॥
पदपाठः (Word-by-word)
प्र । त्र॒सद᳚स्युम् । आ॒वि॒थ॒ । त्वम् । एकः᳚ । इत् । नृ॒॑सह्ये᳚ । इन्द्र᳚ । ब्रह्मा᳚णि । व॒र्धय᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र रेभतः स्तुवतः श्यावाश्वस्य मम स्तुतिं कर्माणि कृण्वतोत्रेर्यथा अश्रृणोः तथा शृणु । अपिच क्षत्राणि बलानि कामैर्वर्धयन् युद्धे त्वमेकएव त्रसदस्युं प्राविथ ॥ ७ ॥
यज्ञस्यहीति दशर्चमष्टमं सूक्तम् श्यावाश्वस्यार्षम् प्राग्वत्सप्रेः परिभाषया गायत्रमिन्द्राग्निदेवताकम् । तथाचानुक्रान्तम्-यज्ञस्यदशैन्द्राग्नमिति । पृष्ठ्याभिप्लवषडहयोः प्रातःसवनेच्छावाकशस्त्रे आवापार्थमेतत्सूक्तम् । सूत्रितञ्च-यज्ञस्यहिस्थइत्यच्छावाकस्येति । चातुर्विंशिकेहनिप्रातः सवने यज्ञस्यहिस्थइति षळहस्तोत्रियसंज्ञकस्तृचः सुत्रितञ्च-इन्द्राग्नीयुवामिमेयज्ञस्यहिस्थऋत्विजेत्यच्छावाकस्येति । अग्निष्टोमे प्रातः सवनेच्छावाकस्य प्रातर्यावभिरिति प्रातःसवनीयस्य प्रस्थितयाज्या । सूत्रितञ्च -प्रातर्यावभिरिति यजतीति । चातुर्विंशिकेप्रातःसवनेच्छावाकशस्त्रे श्यावाश्वस्येत्ययं पर्यासस्तृचः । अन्यत्राप्यहर्गणेषु । द्वितीयादिष्वहःसु सूत्र्यतेहि-श्यावाश्वस्यसुन्वतइति तृचाः पर्यासाइति ।