से॒हा॒न उ᳚ग्र॒ पृत᳚ना अ॒भि द्रुहः᳚ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
पदपाठः (Word-by-word)
से॒हा॒नः । उ॒ग्र॒ । पृत᳚नाः । अ॒भि । द्रुहः᳚ । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शचीपते कर्मपते उग्र उद्गूर्णेन्द्र अभिद्रुहो द्रोग्ध्रीः पृतनाः सेनाः सेहानोभिभवन् सर्वैः पालनैः ब्राह्मणान्प्राविथेत्यर्थः । सिद्धमन्यत् ॥ २ ॥