अष्टमं मण्डलम् - सूक्तम् 41

10 ऋचः

ऋषिः: नाभाकः काण्वः देवता: वरुणः छन्दः: महापंक्तिः

सूक्तम् 8.41 - सम्पूर्णम्

1 / 10
ऋक्: 8.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.41.1
अ॒स्मा ऊ॒ षु प्रभू᳚तये॒ वरु᳚णाय म॒रुद्भ्यो॑र्चा᳚ वि॒दुष्ट᳚रेभ्यः ।
यो धी॒ता मानु᳚षाणां प॒श्वो गा इ᳚व॒ रक्ष᳚ति॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । ऊं॒ इति᳚ । सु । प्र॑भू᳚तये । वरु᳚णाय । म॒रुत्॑भ्यः᳚ । अर्च᳚ । वि॒दुः॑त᳚रेभ्यः ।
यः । धी॒ता । मानु᳚षाणाम् । प॒श्वः । गाः॑इ᳚व । रक्ष᳚ति । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः सुप्रभूतये प्रकृष्टधनायास्मै वरुणाय विदुष्टरेभ्यो विद्वत्तरेभ्यो मरुद्भ्यश्चार्च स्तुहि । योवरुणो धीता कर्मणा मानुषाणां मबुष्याणांपश्वः पशून् गाइव रक्षति । सिद्धमन्यत् ॥ १ ॥

8.41.2
तमू॒ षु स᳚म॒ना गि॒रा पि᳚तॄ॒णां च॒ मन्म᳚भिः ।
ना॒भा॒कस्य॒ प्रश᳚स्तिभि॒र्यः सिन्धू᳚ना॒मुपो᳚द॒ये स॒प्तस्व᳚सा॒ स म᳚ध्य॒मो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म᳚॑भिः ।
ना॒भा॒कस्य᳚ । प्रश᳚स्ति॑भिः । यः । सिन्धू᳚नाम् । उप᳚ । उ॒त्॑अ॒ये । स॒प्त॑स्व᳚सा । सः । म॒ध्य॒मः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमु तमेव वरुणं समना समानया गिरा स्तुत्या स्वभिष्टौमि पितॄणां मन्मभिः स्तोमैश्चाभिष्टौमि नाभाकस्य ऋषेः प्रशस्तिभिः स्तोत्रैश्चाभिष्टौमि सिन्धूनां स्यन्दमानानां नदीनां उप समीपे उदये गद्गच्छति यश्च सप्तस्वसा समध्यमइति वाग्भिर्निरुच्यते अन्यके दुर्धियः शत्रवः समे सर्वे नभन्तां माभूवन् । तथाचयास्कः-तंस्वभिष्टौमि समानया गिरा गीत्या स्तुत्या पितॄणाञ्च मननीयैः स्तोमैर्नाभाकस्य प्रशस्तिभिः ऋषिर्नाभाकोबभूव यःस्य- न्दमानानामासामपामुपोदयेसप्तस्वसारमेनमाह वाग्भिः समध्यमइति निरुच्यतेथैषएवभवति नभन्तामन्यकेसमे माभूवन्नन्यकेसर्वे येनोद्विषन्तिदु- र्धियः पापधियः पापसंकल्पाइति ॥ २ ॥

8.41.3
स क्षप॒ः परि᳚ षस्वजे॒ न्यु१॒᳚स्रो मा॒यया᳚ दधे॒ स विश्वं॒ परि᳚ दर्श॒तः ।
तस्य॒ वेनी॒रनु᳚ व्र॒तमु॒षस्ति॒स्रो अ᳚वर्धय॒न्नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
सः । क्षपः᳚ । परि᳚ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया᳚ । द॒धे॒ । सः । विश्व᳚म् । परि᳚ । द॒र्श॒तः ।
तस्य᳚ । वेनीः᳚ । अनु᳚ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवरुणः क्षपोरात्रीः परिषस्वजे परिष्वजते अपिच दर्शतो दर्शनीयः सवरुणः उस्रःउत्सरणशीलः सन् विश्वं मायया कमर्णा परि परितः निदधे निद- धाति । किञ्च तस्य वरुणस्य व्रतं कर्म वेनीः कामयमानाः प्रजास्तिस्रउषस्त्रिषु प्रातर्माध्यन्दिनं सायञ्च अन्ववर्धयन् अनुवर्धयन्ति । सिद्धमन्यत् ॥ ३ ॥

8.41.4
यः क॒कुभो᳚ निधार॒यः पृ᳚थि॒व्यामधि᳚ दर्श॒तः ।
स माता᳚ पू॒र्व्यं प॒दं तद्वरु᳚णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यः । क॒कुभः᳚ । नि॒॑धा॒र॒यः । पृ॒थि॒व्याम् । अधि᳚ । द॒र्श॒तः ।
सः । माता᳚ । पू॒र्व्यम् । प॒दम् । तत् । वरु᳚णस्य । सप्त्य᳚म् । सः । हि । गो॒पाः॑इ᳚व । इर्यः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योवरुणः पृथिव्यामधि पृथिव्याउपरि दर्शतो दर्शनीयः सन् ककुभो दिशो निधारयः निधारयति सवरुणोमाता निर्माता पूर्व्यं प्रत्नं पदं स्वर्गाख्यं स्थानं सप्त्यं अस्माभिश्चसर्पणीयं तद्वरुणस्यस्वकृतम् । अपिच सहि सएव इर्यईश्वरः सन् गोपाइव गोपालइव पशूनामस्माकं रक्षिता । सिद्धमन्यत् ॥ ४ ॥

8.41.5
यो ध॒र्ता भुव᳚नानां॒ य उ॒स्राणा᳚मपी॒च्या॒३॒᳚ वेद॒ नामा᳚नि॒ गुह्या᳚ ।
स क॒विः काव्या᳚ पु॒रु रू॒पं द्यौरि᳚व पुष्यति॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यः । ध॒र्ता । भुव᳚नानाम् । यः । उ॒स्राणा᳚म् । अ॒पी॒च्या᳚ । वेद᳚ । नामा᳚नि । गुह्या᳚ ।
सः । क॒विः । काव्या᳚ । पु॒रु । रू॒पम् । द्यौः॑इ᳚व । पु॒ष्य॒ति॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योवरुणोभुवनानां धर्ता धारयिता यश्चोस्राणां देवाधिष्ठानभूतानां रश्मीनामपिच्यापीच्यान्यन्तर्हितानि गुह्या गुह्यानि गुहायां निहितानि नामानि वेद जानाति सवरुणः कविः प्राज्ञःसन् काव्या काव्यानि कविकर्माणि पुरु बहूनि रूपं द्यौरिव पुष्यति । सिद्धमन्यत् ॥ ५ ॥

8.41.6
यस्मि॒न्विश्वा᳚नि॒ काव्या᳚ च॒क्रे नाभि᳚रिव श्रि॒ता ।
त्रि॒तं जू॒ती स᳚पर्यत व्र॒जे गावो॒ न सं॒युजे᳚ यु॒जे अश्वा{4}᳚ अयुक्षत॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । विश्वा᳚नि । काव्या᳚ । च॒क्रे । नाभिः᳚॑इव । श्रि॒ता ।
त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः᳚ । न । स॒म्॑युजे᳚ । यु॒जे । अश्वा᳚न् । अ॒यु॒क्ष॒त॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्वरुणे विश्वानि सर्वाणि काव्या काव्यानि कविकर्माणि चक्रे नाभिरिव यथा रथस्य चक्रेनाभिस्तथा श्रिता श्रितानि तं त्रितं त्रिस्थानं वरुणं जूती जूत्या क्षिप्रं सपर्यत हे मदीयाजनाः परिचरत । किमर्थमित्यतआह व्रजे गोष्ठे गावोन यथा गाः संयुजे संयोगार्थं सहस्थापयितुं युजे युञ्जन्ति त- थास्माकमभियोगायाश्वानयुक्षत सपत्नायुञ्जन्ति अतस्तदुपद्रवपरिहाराय वरुणं परिचरेतेत्यर्थः ॥ ६ ॥

8.41.7
य आ॒स्वत्क᳚ आ॒शये॒ विश्वा᳚ जा॒तान्ये᳚षाम् ।
परि॒ धामा᳚नि॒ मर्मृ᳚श॒द्वरु᳚णस्य पु॒रो गये॒ विश्वे᳚ दे॒वा अनु᳚ व्र॒तं नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यः । आ॒सु॒ । अत्कः᳚ । आ॒॑शये᳚ । विश्वा᳚ । जा॒तानि᳚ । ए॒षा॒म् ।
परि᳚ । धामा᳚नि । मर्मृ᳚शत् । वरु᳚णस्य । पु॒रः । गये᳚ । विश्वे᳚ । दे॒वाः । अनु᳚ । व्र॒तम् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः वरुणः आसुदिक्षु अत्कः व्याप्तःसन् आशये जागृतोवर्तते यः वरुणः एषां शत्रूणां विश्वा सर्वाणि परिजातानि परितोभूतानि धामानि पुराणि मर्मृशत् परिमृशतोवरुणस्य पुरोगये रथस्यपुरस्ताद्धवति तस्य वरुणस्य पुरस्ताद्विश्वे सर्वेदेवा व्रतं कर्मानुगच्छन्तीत्यर्थः । सिद्धमन्यत् ॥ ७ ॥

8.41.8
स स᳚मु॒द्रो अ᳚पी॒च्य᳚स्तु॒रो द्यामि᳚व रोहति॒ नि यदा᳚सु॒ यजु᳚र्द॒धे ।
स मा॒या अ॒र्चिना᳚ प॒दास्तृ᳚णा॒न्नाक॒मारु᳚ह॒न्नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
सः । स॒मु॒द्रः । अ॒पी॒च्यः᳚ । तु॒रः । द्याम्॑इ᳚व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः᳚ । द॒धे ।
सः । मा॒याः । अ॒र्चिना᳚ । प॒दा । अस्तृ᳚णात् । नाक᳚म् । आ । अ॒रु॒ह॒त् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मादापः समुद्द्रवन्ति सवरुणः समुद्रोपीच्योन्तर्हितः तुरः क्षिप्रः द्यामिव यथा आदित्योद्यां रोहति तथा नाकं रोहति । अपिच यत् योवरुणः आसु दिक्षु यजुः प्रजाभ्योदानं निदधे निदधाति सवरुणः मायाः असुराणां माया अर्चिना अर्चिष्मता पदा स्थानेन तेजसेत्यर्थः अस्तृणात् समंताद्धिनस्ति नाकं स्वर्गमारुहदारोहति । सिद्धमन्यत् ॥ ८ ॥

8.41.9
यस्य᳚ श्वे॒ता वि᳚चक्ष॒णा ति॒स्रो भूमी᳚रधिक्षि॒तः ।
त्रिरुत्त᳚राणि प॒प्रतु॒र्वरु᳚णस्य ध्रु॒वं सद॒ः स स᳚प्ता॒नामि᳚रज्यति॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । श्वे॒ता । वि॒॑च॒क्ष॒णा । ति॒स्रः । भूमीः᳚ । अ॒धि॒॑क्षि॒तः ।
त्रिः । उत्॑त᳚राणि । प॒प्रतुः᳚ । वरु᳚णस्य । ध्रु॒वम् । सदः᳚ । सः । स॒प्ता॒नाम् । इ॒र॒ज्य॒ति॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य वरुणस्याधिक्षितोंतरिक्षेधिवसतःश्वेता श्वेतानि विचक्षणा तेजांसि तिस्रोभूमीः त्रिरुत्तराणि तिसॄणां अधिस्थितानि भुवनानि पप्रतुःप्रथयन्ति । तथाचमन्त्रवर्णः-तिस्रोभूमीर्धारयन्त्रीँ रुतद्यूनिति । तस्य वरुणस्य सदः स्थानं ध्रुवमचलमिति । किञ्च सवरुणः सप्तानां सिनामिरज्यतीश्वरोभवति । सिद्धमन्यत् ॥ १ ॥

8.41.10
यः श्वे॒ता{4} अधि᳚निर्णिजश्च॒क्रे कृ॒ष्णा{4} अनु᳚ व्र॒ता ।
स धाम᳚ पू॒र्व्यं म᳚मे॒ यः स्क॒म्भेन॒ वि रोद᳚सी अ॒जो न द्यामधा᳚रय॒न्नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यः । श्वे॒तान् । अधि᳚॑निर्निजः । च॒क्रे । कृ॒ष्णान् । अनु᳚ । व्र॒ता ।
सः । धाम᳚ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन᳚ । वि । रोद᳚सी॒ इति᳚ । अ॒जः । न । द्याम् । अधा᳚रयत् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योवरुणः निर्निजः आत्मीयान्रश्मीन् दिवा श्वेतानधिचक्रेधिकरोति तथा रात्रौ कृष्णान् चक्रे सवरुणोनुव्रता कर्माणि लक्षीकृत्योभयविधकर्मानुगुणं पूर्व्यं धामान्तरिक्षं दिवं वा ममे निर्ममे । अपिच यः स्कं भेनान्तरिक्षेण अजोन यथा आदित्योद्यां धारयति तथा रोदसी द्यावापृथिव्यौ व्यधारयत् विधारयति सवरुणइत्यर्थः । सिद्धमन्यत् ॥ १० ॥

अस्तभ्रादिति षळृचं द्वादशं सूक्तं अर्यनानाऋषिः काण्वोनाभाकोवाऋषिः उत्तरेत्वर्चनानाः आद्यस्तृचस्त्रैष्टुभोवरुणदेवत्यः द्वितीयस्तृचआनुष्टु- भोश्विदेवताकः । तथाचानुक्रान्तम्अस्तभ्रात्षळर्चनानावा त्रैष्टुभमन्त्यंवा तृचमाश्विनमानुष्टुभमपश्यदिति । सूक्तविनियोगोलैंगिकः । वारुणेपशौ हविषोयाज्या अस्तभ्रादिति । सूत्रितञ्च-अस्तभ्राद्यामसुरोविश्ववेदाइत्येकादशिनइति । अग्नीषोमप्रणयनेप्येषोत्तरा परिधानीया । तथासूत्रितं-अस्त- भ्राद्यामसुरोविश्ववेदाइति परिदध्यादुत्तरयावेति । एवावन्दस्वेत्येषा वारुणेपशौ हविषोनुवाक्या । सूत्रितञ्च-एवावन्दस्ववरुणंबृहन्तं तत्त्वायामिब्र- ह्मणावन्दमानइति द्वे । सोमप्रवहणेइमांधियमित्येषा परिधानीया । सूत्रितञ्च-इमांधियंशिक्षमाणस्यदेवेति विहितेपरिदध्यादिति ।