श्रवणम्

8.41.3
स क्षप॒ः परि᳚ षस्वजे॒ न्यु१॒᳚स्रो मा॒यया᳚ दधे॒ स विश्वं॒ परि᳚ दर्श॒तः ।
तस्य॒ वेनी॒रनु᳚ व्र॒तमु॒षस्ति॒स्रो अ᳚वर्धय॒न्नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
सः । क्षपः᳚ । परि᳚ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया᳚ । द॒धे॒ । सः । विश्व᳚म् । परि᳚ । द॒र्श॒तः ।
तस्य᳚ । वेनीः᳚ । अनु᳚ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवरुणः क्षपोरात्रीः परिषस्वजे परिष्वजते अपिच दर्शतो दर्शनीयः सवरुणः उस्रःउत्सरणशीलः सन् विश्वं मायया कमर्णा परि परितः निदधे निद- धाति । किञ्च तस्य वरुणस्य व्रतं कर्म वेनीः कामयमानाः प्रजास्तिस्रउषस्त्रिषु प्रातर्माध्यन्दिनं सायञ्च अन्ववर्धयन् अनुवर्धयन्ति । सिद्धमन्यत् ॥ ३ ॥