एवमन्तारिक्षादागच्छन् रथस्थइन्द्रः स्त्रियं सन्तं स्वस्मात् पुंस्त्वमिच्छन्तं प्लायोगिं यत् उवाच तदाह-हे प्लायोगे त्वं स्त्री सती अधः पश्यस्व एषस्त्रीणांधर्मः उपरि मापश्यस्व उपरिदर्शनं स्त्रीणां धर्मोनभवति हि । पादकौ पादावपि सन्तरां संश्लिष्टौ यथा भवतस्तथा हर । यथा पुरुषो- विश्लिष्टपादनिधानोभवति तथा त्वया स्त्रिया न कर्तव्यमित्यर्थः । अपिच ते कशप्लकौ कशश्चप्लकश्च कशप्लकौ कशतिराहननकर्मा कशप्लका- वुभेअंगे मादृशन् पुरुषानपश्यन्तु तयोरदर्शनं वाससः सुष्ठु परिधानेन भवति । अतः सुष्ठु वाससा परिधानं कुरु । स्त्रियोह्यागुल्फादभिसंवीताभ- वन्तीत्यर्थः । हि यस्मात्कारणात् ब्रह्मासन् स्त्री बभूविथ ॥ १९ ॥
एन्द्रयाहीत्यष्टादशर्चं चतुर्थं सूक्तं काण्वस्य नीपातिथेरार्षं आनुष्टुभं षोडश्याद्यास्तिस्रोगायत्र्यः वसुरोचिषोंगिरोगोत्राः सहस्रसंख्याकाः आय- दिन्द्रश्चेत्यादीनां तासां तिसृणामृषयः इन्द्रोदेवता । तथाचानुक्रमणम्-एन्द्रयाहिद्मूना नीपातिथिरानुष्टुभं तृचोन्त्योगायत्रस्तंसहस्रंवसुरोचिषोंगि- रसोपश्यन्निति । विनियोगोलैंगिकः ।