वह᳚न्तु त्वा रथे॒ष्ठामा हर᳚यो रथ॒युजः᳚ ।
ति॒रश्चि᳚द॒र्यं सव᳚नानि वृत्रहन्न॒न्येषां॒ या श᳚तक्रतो ॥
ति॒रश्चि᳚द॒र्यं सव᳚नानि वृत्रहन्न॒न्येषां॒ या श᳚तक्रतो ॥
पदपाठः (Word-by-word)
वह᳚न्तु । त्वा॒ । र॒थे॒॑स्थाम् । आ । हर᳚यः । र॒थ॒॑युजः᳚ ।
ति॒रः । चि॒त् । अ॒र्यम् । सव᳚नानि । वृ॒त्र॒॑ह॒न् । अ॒न्येषा᳚म् । या । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ॥
ति॒रः । चि॒त् । अ॒र्यम् । सव᳚नानि । वृ॒त्र॒॑ह॒न् । अ॒न्येषा᳚म् । या । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ॥
सायणभाष्यम् (Sayana Commentary)
हे वृत्रहन् शतक्रतो बहुप्रज्ञ रथेष्ठां रथस्यमर्यमीश्वरं त्वा त्वां रथयुजो रथेयुक्ता हरयोश्वाः अन्येषां या यानि सवनानि सन्ति तानि तिरश्चित् तिरस्कुर्वन्तः सवनान्यस्मदीयानि सवनान्यावहन्तु प्रापयन्तु ॥ १४ ॥