स॒त्यमि॒त्था वृषेद᳚सि॒ वृष᳚जूति॒र्नो॑वृ᳚तः ।
वृषा॒ ह्यु᳚ग्र शृण्वि॒षे प᳚रा॒वति॒ वृषो᳚ अर्वा॒वति᳚ श्रु॒तः ॥
वृषा॒ ह्यु᳚ग्र शृण्वि॒षे प᳚रा॒वति॒ वृषो᳚ अर्वा॒वति᳚ श्रु॒तः ॥
पदपाठः (Word-by-word)
स॒त्यम् । इ॒त्था । वृषा᳚ । इत् । अ॒सि॒ । वृष᳚॑जूतिः । नः॒ । अवृ᳚तः ।
वृषा᳚ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒॑वति᳚ । वृषो॒ इति᳚ । अ॒र्वा॒॑वति᳚ । श्रु॒तः ॥
वृषा᳚ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒॑वति᳚ । वृषो॒ इति᳚ । अ॒र्वा॒॑वति᳚ । श्रु॒तः ॥
सायणभाष्यम् (Sayana Commentary)
हे उग्र उद्रूर्णेन्द्र त्वं सत्यमित्था इत्थं वृषेत् कामानां वर्षकएवासि वृषजूतिः वृषभिश्चाकृष्टो नोस्माकमवृतः शत्रुभिरपरिवृतश्चासि वृषा हि सेचकएव श्रृण्विषे श्रूयसे । परावति दूरेपि वृषोवृषैव अर्वावति समीपेपि वृषा सेचकएव श्रुतोवृषैवाश्रूयथाः ॥ १० ॥