स्वर᳚न्ति त्वा सु॒ते नरो॒ वसो᳚ निरे॒क उ॒क्थिनः᳚ ।
क॒दा सु॒तं तृ᳚षा॒ण ओक॒ आ ग᳚म॒ इन्द्र᳚ स्व॒ब्दीव॒ वंस᳚गः ॥
क॒दा सु॒तं तृ᳚षा॒ण ओक॒ आ ग᳚म॒ इन्द्र᳚ स्व॒ब्दीव॒ वंस᳚गः ॥
पदपाठः (Word-by-word)
स्वर᳚न्ति । त्वा॒ । सु॒ते । नरः᳚ । वसो॒ इति᳚ । नि॒रे॒के । उ॒क्थिनः᳚ ।
क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः᳚ । आ । ग॒मः॒ । इन्द्र᳚ । स्व॒ब्दी॑इ᳚व । वंस᳚गः ॥
क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः᳚ । आ । ग॒मः॒ । इन्द्र᳚ । स्व॒ब्दी॑इ᳚व । वंस᳚गः ॥
सायणभाष्यम् (Sayana Commentary)
हे वसो वासयितरिन्द्र त्वा त्वां सुतेभिषुते सोमे निरेके निर्गमने अक्थिनः नरोनेतारःस्वरन्ति शब्दायन्ते । अपि चेन्द्रः सुतं सोमं प्रति तृषाणः तृष्यन् स्वद्धीव स्वभूतशब्दइव वंसगो वननीयगमनोवृषभः शब्दं कुर्वन्कदा ओकः स्थानमागमः आगमत् ॥ २ ॥