पा॒हि गायान्ध᳚सो॒ मद॒ इन्द्रा᳚य मेध्यातिथे ।
यः सम्मि᳚श्लो॒ हर्यो॒र्यः सु॒ते सचा᳚ व॒ज्री रथो᳚ हिर॒ण्ययः᳚ ॥
यः सम्मि᳚श्लो॒ हर्यो॒र्यः सु॒ते सचा᳚ व॒ज्री रथो᳚ हिर॒ण्ययः᳚ ॥
पदपाठः (Word-by-word)
पा॒हि । गाय᳚ । अन्ध᳚सः । मदे᳚ । इन्द्रा᳚य । मे॒ध्य॒॑अ॒ति॒थे॒ ।
यः । सम्॑मि᳚श्लः । हर्योः᳚ । यः । सु॒ते । सचा᳚ । व॒ज्री । रथः᳚ । हि॒र॒ण्ययः᳚ ॥
यः । सम्॑मि᳚श्लः । हर्योः᳚ । यः । सु॒ते । सचा᳚ । व॒ज्री । रथः᳚ । हि॒र॒ण्ययः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मेध्यातिथे पाहि सोमं पिब अन्धसः पीतस्य सोमस्य मदे तस्माइन्द्राय गाय स्तोत्रंचपठ । यः इन्द्रोहर्योरश्वयोः संमिश्लःस्वरथेसंमिश्लयिता यश्च सुतेसोमे सचा सहायः यइन्द्रोवज्री यस्य रथोहिरण्ययोहिरण्मयः ॥ ४ ॥