न॒हि षस्तव॒ नो मम᳚ शा॒स्त्रे अ॒न्यस्य॒ रण्य᳚ति ।
यो अ॒स्मान्वी॒र आन᳚यत् ॥
यो अ॒स्मान्वी॒र आन᳚यत् ॥
पदपाठः (Word-by-word)
न॒हि । सः । तव᳚ । नः॒ । मम᳚ । शा॒स्त्रे । अ॒न्यस्य᳚ । रण्य᳚ति ।
यः । अ॒स्मान् । वी॒रः । आ । अन᳚यत् ॥
यः । अ॒स्मान् । वी॒रः । आ । अन᳚यत् ॥
सायणभाष्यम् (Sayana Commentary)
योवीरः शूरोनोस्माननयत् सइन्द्रस्तव शास्त्रे शासने नहि रण्यति न रमते ममापि शास्त्रे नोरण्यति अन्यस्यापि शासने न रण्यति किंतु रक्षणएव रमतइत्यर्थः ॥ १६ ॥