यः सु᳚ष॒व्यः सु॒दक्षि᳚ण इ॒नो यः सु॒क्रतु᳚र्गृ॒णे ।
य आ᳚क॒रः स॒हस्रा॒ यः श॒ताम᳚घ॒ इन्द्रो॒ यः पू॒र्भिदा᳚रि॒तः ॥
य आ᳚क॒रः स॒हस्रा॒ यः श॒ताम᳚घ॒ इन्द्रो॒ यः पू॒र्भिदा᳚रि॒तः ॥
पदपाठः (Word-by-word)
यः । सु॒॑स॒व्यः । सु॒॑दक्षि᳚णः । इ॒नः । यः । सु॒॑क्रतुः᳚ । गृ॒णे ।
यः । आ॒॑क॒रः । स॒हस्रा᳚ । यः । श॒त॑म᳚घः । इन्द्रः᳚ । यः । पूः॒॑भित् । आ॒रि॒तः ॥
यः । आ॒॑क॒रः । स॒हस्रा᳚ । यः । श॒त॑म᳚घः । इन्द्रः᳚ । यः । पूः॒॑भित् । आ॒रि॒तः ॥
सायणभाष्यम् (Sayana Commentary)
यः सुषव्यः शोभनसव्यहस्तः यश्च सुदक्षिणः यश्चेनईश्वरः । नियुत्वान् इनइतीश्वरनामसुपाठात् । यश्चापि सुक्रतुः सुप्रज्ञः सहस्रा सहस्राणां बहूनां यश्चाकरः कर्ता यश्चापि रातमघः बहुधनः यश्च पूर्भित् पुरां भेत्ता यश्चारितः प्रत्यृतःस्तोमान् । तथाचयास्कः-यआरितः कर्मणिकर्मणिस्थिरः प्रत्यृतःस्तोमानिति । अस्माभिः स्तूयतेच ॥ ५ ॥