श्रवणम्

8.33.18
सप्ती᳚ चिद्घा मद॒च्युता᳚ मिथु॒ना व᳚हतो॒ रथ᳚म् ।
ए॒वेद्धूर्वृष्ण॒ उत्त᳚रा ॥
▶ पदपाठः (Word-by-word)
सप्ती॒ इति᳚ । चि॒त् । घ॒ । म॒द॒॑च्युता᳚ । मि॒थु॒ना । व॒ह॒तः॒ । रथ᳚म् ।
ए॒व । इत् । धूः । वृष्णः᳚ । उत्॑त᳚रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्ती चिद्धेन्द्रस्याश्वावपि खलु मदच्युता सोमं प्रतिगन्तारौ इन्द्रस्यैव रथं मिथुनौ वहतः एवेदेवमेव वृष्णइन्द्रस्य रथः धूरुत्तराश्वयोरुत्तराभवति ॥ १८ ॥