एन्द्र᳚ याहि पी॒तये॒ मधु᳚ शविष्ठ सो॒म्यम् ।
नायमच्छा᳚ म॒घवा᳚ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च᳚ सु॒क्रतु᳚ः ॥
नायमच्छा᳚ म॒घवा᳚ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च᳚ सु॒क्रतु᳚ः ॥
पदपाठः (Word-by-word)
आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये᳚ । मधु᳚ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।
न । अ॒यम् । अच्छ᳚ । म॒घ॑वा᳚ । शृ॒णव᳚त् । गिरः᳚ । ब्रह्म᳚ । उ॒क्था । च॒ । सु॒॑क्रतुः᳚ ॥
न । अ॒यम् । अच्छ᳚ । म॒घ॑वा᳚ । शृ॒णव᳚त् । गिरः᳚ । ब्रह्म᳚ । उ॒क्था । च॒ । सु॒॑क्रतुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे शविष्ठ बलवत्तमेन्द्र सोम्यं सोमात्मकं मध्वमृतं पीतये पानायायाहि आगच्छ । किमर्थमागमनमित्यतआह यतआगमनमन्तरेण मघवा धन- वान्सुक्रतुः सुकर्मा शोभनप्रज्ञोवायमिन्द्रोगिरः स्तुतीः ब्रह्म स्तोत्राण्युक्थानिच नाच्छ शृणवत् नाभिशृणोति अतआगमनमित्यर्थः ॥ १३ ॥