श्रवणम्

8.33.7
क ईं᳚ वेद सु॒ते सचा॒ पिब᳚न्तं॒ कद्वयो᳚ दधे ।
अ॒यं यः पुरो᳚ विभि॒नत्त्योज᳚सा मन्दा॒नः शि॒प्र्यन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
कः । ई॒म् । वे॒द॒ । सु॒ते । सचा᳚ । पिब᳚न्तम् । कत् । वयः᳚ । द॒धे॒ ।
अ॒यम् । यः । पुरः᳚ । वि॒॑भि॒नत्ति᳚ । ओज᳚सा । म॒न्दा॒नः । शि॒प्री । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतेभिषुतेसोमे सचा ऋत्विजासह सोमं पिबन्तमीमेनमिन्द्रं कोवेद वेत्ति नकोपिवेत्तीत्यर्थः कत् किंवा वयोन्नं दधे धारयति योयमिन्द्रः शिप्री हनु- मानन्धसः सोमेन मन्दानोमन्दमानः ओजसा बलेन पुरोविभिनत्ति ॥ ७ ॥