अष्टमं मण्डलम् - सूक्तम् 75

16 ऋचः

ऋषिः: विरूपः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 8.75 - सम्पूर्णम्

1 / 16
ऋक्: 8.75.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
8.75.1
यु॒क्ष्वा हि दे᳚व॒हूत᳚मा{4}॒ अश्वा{4}᳚ अग्ने र॒थीरि᳚व ।
नि होता᳚ पू॒र्व्यः स᳚दः ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । दे॒व॒॑हूत᳚मान् । अश्वा᳚न् । अ॒ग्ने॒ । र॒थीः॑इ᳚व ।
नि । होता᳚ । पू॒र्व्यः । स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवहूतमान् देवानामाह्वातृतमानश्वान् युश्व योजय । रथे रथीरिव यथा रथी स्वाश्वानिष्टदेशगमनाय योजयति तद्वत् । तथा कृत्वा होता त्वं पूर्व्यो मुख्यः सन् निषदः उपविशच । हिपूरणः ॥ १ ॥

8.75.2
उ॒त नो᳚ देव दे॒वा{4} अच्छा᳚ वोचो वि॒दुष्ट᳚रः ।
श्रद्विश्वा॒ वार्या᳚ कृधि ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ᳚ । वो॒चः॒ । वि॒दुः॑त᳚रः ।
श्रत् । विश्वा᳚ । वार्या᳚ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाग्ने उतापिच नोस्मान् देवानच्छावोचोभिब्रूयाः सम्यगनुष्ठितवन्तइति । तथा विदुष्टरो विद्वत्तमान्वोचः । तथा कृत्वा विश्वा सर्वाणि वार्या वरणीयानि धनानि देवसम्बन्धीनि श्रत् सत्यानि कृधि कुरु अस्माकम् । अथवास्मदीयानि सर्वाणि वरणीयानि हवींषि श्रत् सत्यानि कुरु देवान् प्रापयेत्यर्थः ॥ २ ॥

8.75.3
त्वं ह॒ यद्य᳚विष्ठ्य॒ सह᳚सः सूनवाहुत ।
ऋ॒तावा᳚ य॒ज्ञियो॒ भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह᳚सः । सू॒नो॒ इति᳚ । आ॒॑हु॒त॒ ।
ऋ॒त॑वा᳚ । य॒ज्ञियः᳚ । भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यविष्ठ्य युवतम सहसः सूनो बलस्यपुत्र आहुत सर्वतोहुत आहुतोवात्वँ यद्यदा ह खलु ऋतावा सत्यवान् यज्ञियो यज्ञार्हश्च भुवो भवसि सदा वार्याणि श्रत्कुर्विति संबंधः ॥ ३ ॥ दर्शपूर्णमासयोराग्नेयस्यायमग्निरिति वैकल्पिकीयाज्या । सूत्रितंच-अयमग्निः सहस्रिणइति वेदंविष्णुर्विचक्रमइति ।

8.75.4
अ॒यम॒ग्निः स᳚ह॒स्रिणो॒ वाज᳚स्य श॒तिन॒स्पति᳚ः ।
मू॒र्धा क॒वी र᳚यी॒णाम् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः᳚ । वाज᳚स्य । श॒तिनः᳚ । पतिः᳚ ।
मू॒र्धा । क॒विः । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः शतिनः सहस्रिणश्च उक्तसंख्योपेतस्य वाजस्यान्नस्य पतिः स्वामी मूर्धा शिरोवदुन्नतः श्रेष्ठः कविर्मेधावी रयीणां धनानामपि पतिरिति- शेषः तदुभयंप्रयच्छत्वित्यर्थः ॥ ४ ॥

8.75.5
तं ने॒मिमृ॒भवो᳚ य॒था न᳚मस्व॒ सहू᳚तिभिः ।
नेदी᳚यो य॒ज्ञम᳚ङ्गिरः ॥
▶ पदपाठः (Word-by-word)
तम् । ने॒मिम् । ऋ॒भवः᳚ । य॒था॒ । आ । न॒म॒स्व॒ । सहू᳚ति॑भिः ।
नेदी᳚यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अंगिरः त्वं सहूतिभिः समानाह्वानैरन्यैःदेवैः सह नेदीयोन्तिकतमं तं यज्ञं आनमस्व आनमय ऋभवोनेमिं रथमिव ॥ ५ ॥

8.75.6
तस्मै᳚ नू॒नम॒भिद्य᳚वे वा॒चा वि᳚रूप॒ नित्य᳚या ।
वृष्णे᳚ चोदस्व सुष्टु॒तिम् ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । नू॒नम् । अ॒भि॑द्य᳚वे । वा॒चा । वि॒॑रू॒प॒ । नित्य᳚या ।
वृष्णे᳚ । चो॒द॒स्व॒ । सु॒॑स्तु॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विरूप नानारूपैतन्नामक महर्षे त्वं तस्मै प्रसिद्धायाभिद्यवेभिगततृप्तये वृष्णे वर्षकायाग्नये नित्यया उत्पत्तिरहितया वाचा मंत्ररूपया सुष्टुतिं नूनमिदानीं चोदस्व स्तुहि इत्येवमृषिः स्वात्मानं ब्रवीति । यजमानोवा होतारं विरूपं ॥ ६ ॥

8.75.7
कमु᳚ ष्विदस्य॒ सेन᳚या॒ग्नेरपा᳚कचक्षसः ।
प॒णिं गोषु᳚ स्तरामहे ॥
▶ पदपाठः (Word-by-word)
कम् । ऊं॒ इति᳚ । स्वि॒त् । अ॒स्य॒ । सेन᳚या । अ॒ग्नेः । अपा᳚क॑चक्षसः ।
प॒णिम् । गोषु᳚ । स्त॒रा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेरपाकचक्षसः अनल्पचक्षसोग्नेः सेनया ज्वालारूपया गोषु निवित्तेषु कमुष्वित् कंखलु पणिं स्तरामहे । स्तरणं हिंसनमिदानीं बलिन- मभिभवामेत्यर्थः ॥ ७ ॥

8.75.8
मा नो᳚ दे॒वानां॒ विशः᳚ प्रस्ना॒तीरि᳚वो॒स्राः ।
कृ॒शं न हा᳚सु॒रघ्न्या᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । दे॒वाना᳚म् । विशः᳚ । प्र॒स्ना॒तीः॑इ᳚व । उ॒स्राः ।
कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां सर्वेषां विशः प्रजाभूतान् परिचारकान् नोस्मान्माहासीदग्निः मापरित्यजतु । प्रस्नातीरुस्राइव पयः क्षरन्तीर्गावइव ता यथा नमुंचंति उभयमपि नपरित्यजत्वित्यर्थः । किमिव कृशं अल्पं स्ववत्सं अघ्न्यागावो यथा नहासुर्नपरित्यजंति तद्वत् ॥ ८ ॥

8.75.9
मा नः᳚ समस्य दू॒ढ्य१॒᳚ः परि᳚द्वेषसो अंह॒तिः ।
ऊ॒र्मिर्न नाव॒मा व᳚धीत् ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । स॒म॒स्य॒ । दुः॒॑ध्यः᳚ । परि᳚॑द्वेषसः । अं॒ह॒तिः ।
ऊ॒र्मिः । न । नाव᳚म् । आ । व॒धी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समस्य सर्वस्य परिद्वेषसः परितोद्विषतोदुर्ध्यः पापबुद्धेरंहतिर्हननं नः अस्मान्माआवधीत् माहिंस्यात् । नावमूर्मिर्न समुद्रतरंगइव स यथा तां पीडयति तद्वन्मावधीदित्यर्थः । अत्र मानः सर्वस्य दुर्धियः इत्यादिनिरुक्तं द्रष्टव्यं ॥ ९ ॥

8.75.10
नम᳚स्ते अग्न॒ ओज᳚से गृ॒णन्ति᳚ देव कृ॒ष्टयः᳚ ।
अमै᳚र॒मित्र᳚मर्दय ॥
▶ पदपाठः (Word-by-word)
नमः᳚ । ते॒ । अ॒ग्ने॒ । ओज᳚से । गृ॒णन्ति᳚ । दे॒व॒ । कृ॒ष्टयः᳚ ।
अमैः᳚ । अ॒मित्र᳚म् । अ॒र्द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देव ते तुभ्यं नमोगृणन्ति नमस्कारशब्दमुच्चारयन्ति । किमर्थमोजसे बलाय । के कृष्टयोमनुष्यायजमानाः अतोहमपि गृणामीत्यर्थः । तथा अमैर्बलैः अमित्रं शत्रुं अर्दय नाशय ॥ १० ॥ ग्राम्येणाग्निना वैतानिकस्य संसर्गे अग्नये संवर्गायेष्टिः कार्या । तत्र कुवित्सुनइत्यनुवाक्या मानोअस्मिन्निति याज्या । सूत्रितं च-कुवित्सुनोगविष्ट- ये मानोअस्मिन्महाधनइति ।

8.75.11
कु॒वित्सु नो॒ गवि᳚ष्ट॒ये॑ग्ने᳚ सं॒वेषि᳚षो र॒यिम् ।
उरु᳚कृदु॒रु ण᳚स्कृधि ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । सु । नः॒ । गो॑इ᳚ष्टये । अग्ने᳚ । स॒म्॑वेषि᳚षः । र॒यिम् ।
उरु᳚॑कृत् । उ॒रु । नः॒ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोस्माकं गविष्टये गवामेशणाय कुविद्वहु रयिं धनं संवेषिषः संप्रापय उरुकृत् त्वं नोस्मान् उरु कृधि कुरु ॥ ११ ॥

8.75.12
मा नो᳚ अ॒स्मिन्म᳚हाध॒ने परा᳚ वर्ग्भार॒भृद्य᳚था ।
सं॒वर्गं॒ सं र॒यिं ज᳚य ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒स्मिन् । म॒हा॒॑ध॒ने । परा᳚ । व॒र्क् । भा॒र॒॑भृत् । य॒था॒ ।
स॒म्॑वर्ग᳚म् । सम् । र॒यिम् । ज॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मानस्मिन्महाधने संग्रामे मापरावर्क् मापरित्याक्षीः भारभृद्यथा भारवाही यथा भारमन्ते परित्यजति तद्वत् संवर्गं शत्रुभ्यः सहाच्छिद्यमानं रयिं धनं संजयास्मदर्थम् ॥ १२ ॥

8.75.13
अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष᳚क्तु दु॒च्छुना᳚ ।
वर्धा᳚ नो॒ अम᳚व॒च्छवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने᳚ । सिस᳚क्तु । दु॒च्छुना᳚ ।
वर्ध᳚ । नः॒ । अम᳚॑वत् । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वदीयेयं दुच्छुना बाधकसंहतिरस्मदन्यं अस्तोतारं भियै भयाय सिषक्तु सेवताम् । त्वंच नोस्माकं अमवद्वलोपेतं शवोवेगं वर्ध वर्धय संग्रामे ॥ १३ ॥

8.75.14 समानपद
यस्याजु᳚षन्नम॒स्विन॒ः शमी॒मदु᳚र्मखस्य वा ।
तं घेद॒ग्निर्वृ॒धाव᳚ति ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अजु᳚षत् । न॒म॒स्विनः᳚ । शमी᳚म् । अदुः᳚॑मखस्य । वा॒ ।
तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य नमस्विनो नमस्कारवतो अदुर्मखस्य वा अदुष्टयागस्य वा शमीं कर्म अजुषदसेवत । तं घेत् तमेव यजमानं संग्रामे अग्निर्वृधावति विशेषेण गच्छति अतो नमोयुक्ता अदुर्मखाश्च भवामेति भावः ॥ १४ ॥

8.75.15
पर᳚स्या॒ अधि᳚ सं॒वतो॑व᳚रा{4} अ॒भ्या त᳚र ।
यत्रा॒हमस्मि॒ ता{4} अ᳚व ॥
▶ पदपाठः (Word-by-word)
पर᳚स्याः । अधि᳚ । स॒म्॑वतः᳚ । अव᳚रान् । अ॒भि । आ । त॒र॒ ।
यत्र᳚ । अ॒हम् । अस्मि᳚ । तान् । अ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने परस्याअन्यायाः संवतः सेनायाः अवरानन्यानस्मदीयान् अभि अभिमुखं आसर्वतस्तर तारय वैरिसेना अस्मद्भटैः पराभावयेत्यर्थः । यत्र येषु अस्मदीयपरिजनमध्ये अहमस्मि स्वामी तानव रक्ष ॥ १५ ॥

8.75.16
वि॒द्मा हि ते᳚ पु॒रा व॒यमग्ने᳚ पि॒तुर्यथाव᳚सः ।
अधा᳚ ते सु॒म्नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने᳚ । पि॒तुः । यथा᳚ । अव᳚सः ।
अध᳚ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पितुः पालकस्य ते तवावसो वोरक्षणं पुरा यथा तथेदानीमपीति विद्म वयं जानीमः । अधाथ ते तव सुम्रं सुखमीमहे याचामहे । अथवा पितुर्यथेतिदृष्टान्तः-पितुः पालनं पुत्रो यथा वेत्तितथेत्यर्थः ॥ १६ ॥

इमंनुमायिनमिति द्वादशर्चं षष्ठं सूक्तं कुरुसुतिर्नाम काण्वऋषिः गायत्रीछदः इन्द्रोदेवता । तथाचानुक्रान्तं-इमंनुद्वादशकुरुसुतिः काण्वइति । व्यूढे दशरात्रे चतुर्थेहनि मरुत्वतीयेआद्यस्तृचः सूत्रितंच-इमंनुमायिनंहुवे त्यमुवःसत्रासाहमिति ।