अष्टमं मण्डलम् - सूक्तम् 61

18 ऋचः

ऋषिः: भर्गः प्रागाथः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.61 - सम्पूर्णम्

1 / 18
ऋक्: 8.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.61.1
उ॒भयं᳚ शृ॒णव᳚च्च न॒ इन्द्रो᳚ अ॒र्वागि॒दं वचः᳚ ।
स॒त्राच्या᳚ म॒घवा॒ सोम᳚पीतये धि॒या शवि᳚ष्ठ॒ आ ग᳚मत् ॥
▶ पदपाठः (Word-by-word)
उ॒भय᳚म् । शृ॒णव᳚त् । च॒ । नः॒ । इन्द्रः᳚ । अ॒र्वाक् । इ॒दम् । वचः᳚ ।
स॒त्राच्या᳚ । म॒घ॑वा᳚ । सोम᳚॑पीतये । धि॒या । शवि᳚ष्ठः । आ । ग॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभयं स्तोत्रात्मकं शस्त्रात्मकं चोभयविधं नोस्माकमिदं वचोर्वागस्मदभिमुखं इन्द्रः शृणवत् शृणोतु श्रुत्वाच सत्राच्या अस्माकं सहांचत्या धिया युक्तःसन् मधवा शविष्ठोतिशयेन बलवानागमदागच्छतु सोमपीतये सोमपानाय ॥ १ ॥

8.61.2
तं हि स्व॒राजं᳚ वृष॒भं तमोज᳚से धि॒षणे᳚ निष्टत॒क्षतु᳚ः ।
उ॒तोप॒मानां᳚ प्रथ॒मो नि षी᳚दसि॒ सोम᳚कामं॒ हि ते॒ मनः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । हि । स्व॒॑राज᳚म् । वृ॒ष॒भम् । तम् । ओज᳚से । धि॒षणे॒ इति᳚ । निः॒॑त॒त॒क्षतुः᳚ ।
उ॒त । उ॒प॒॑माना᳚म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम᳚॑कामम् । हि । ते॒ । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं हि तं खल्विन्द्रं स्वराजं स्वयमेवराजमानं धिषणे द्यावापृथिव्यौ वृषभं जगदुपकारकस्य वृष्णेर्वर्षकं निष्टतक्षतुः संचस्करतुः । तं तमेवेन्द्रं ओजसे बलाय निष्टतक्षतुः उत यस्मादेवं तस्माद्धे इन्द्रोपमानां उपमानभूतानांअन्येषां देवानां मध्ये प्रथमो मुख्यः सन् निषीदसि वेद्यां सोमकामं हिखलु ते मनः ॥ २ ॥

8.61.3
आ वृ᳚षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध᳚सः ।
वि॒द्मा हि त्वा᳚ हरिवः पृ॒त्सु सा᳚स॒हिमधृ᳚ष्टं चिद्दधृ॒ष्वणि᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । सु॒तस्य᳚ । इ॒न्द्र॒ । अन्ध᳚सः ।
वि॒द्म । हि । त्वा॒ । ह॒रि॒॑वः॒ । पृ॒त्॑सु । स॒स॒हिम् । अधृ᳚ष्टम् । चि॒त् । द॒धृ॒ष्वणि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरूवसो बहुधनेन्द्र त्वमावृषस्व आसिञ्चस्व । किं सुतस्यान्धसः सुतमन्धः सोमं जठरे । हे हरिवो हरिभ्यां तद्वन्निन्द्र त्वा त्वां विद्महि जानीमः खलु । कीदृशं पृत्सु संग्रामेषु सासहिं अभिभवितारं शत्रूणां अधृष्टंचित् कैरप्यधर्षणीयं दधृष्वणिमन्येषां धर्षकं ॥ ३ ॥

8.61.4 समानपद
अप्रा᳚मिसत्य मघव॒न्तथेद᳚स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः᳚ ।
स॒नेम॒ वाजं॒ तव᳚ शिप्रि॒न्नव᳚सा म॒क्षू चि॒द्यन्तो᳚ अद्रिवः ॥
▶ पदपाठः (Word-by-word)
अप्रा᳚मि॑सत्य । म॒घ॒॑व॒न् । तथा᳚ । इत् । अ॒स॒त् । इन्द्र᳚ । क्रत्वा᳚ । यथा᳚ । वशः᳚ ।
स॒नेम᳚ । वाज᳚म् । तव᳚ । शि॒प्रि॒न् । अव᳚सा । म॒क्षु । चि॒त् । यन्तः᳚ । अ॒द्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अप्रामिसत्य अहिंसितसत्य हे मघवन्निन्द्र तथेदसत्तथैवभवति । हे इन्द्र क्रत्वा कर्मणा प्रज्ञानेन यथा येनप्रकारेण वशः कामयेः । हे शिप्रिन् अवसा रक्षणेन निमित्तेन वाजमन्नं सनेम संभजेम वयं तव त्वदनुग्रहात् । कीदृशावयं मक्षु चित् शीघ्रमेव यन्तः शत्रून् गच्छन्तोभि भवन्तः हे अद्रिवः अद्रि- र्वज्रस्तद्वन्निन्द्रेति ॥ ४ ॥

8.61.5
श॒ग्ध्यू॒३॒᳚ षु श᳚चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
भगं॒ न हि त्वा᳚ य॒शसं᳚ वसु॒विद॒मनु᳚ शूर॒ चरा᳚मसि ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । ऊं॒ इति᳚ । सु । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
भग᳚म् । न । हि । त्वा॒ । य॒शस᳚म् । व॒सु॒॑विद᳚म् । अनु᳚ । शू॒र॒ । चरा᳚मसि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीपते इन्द्र शग्धि देहि सु सुष्ठु अभिमतं विश्वाभिः सर्वाभिः ऊतिभिः रक्षकैः मरुद्भिः सह । हे शूर भगंन भाग्यमिव यशसं यशस्विनं वसुविदं धनस्यलंभकं त्वा त्वां अनुचरामसि अनुचरामः परिचरामेत्यर्थः ॥ ५ ॥

8.61.6
पौ॒रो अश्व᳚स्य पुरु॒कृद्गवा᳚म॒स्युत्सो᳚ देव हिर॒ण्ययः᳚ ।
नकि॒र्हि दानं᳚ परि॒मर्धि᳚ष॒त्त्वे यद्य॒द्यामि॒ तदा भ᳚र ॥
▶ पदपाठः (Word-by-word)
पौ॒रः । अश्व᳚स्य । पु॒रु॒॑कृत् । गवा᳚म् । अ॒सि॒ । उत्सः᳚ । दे॒व॒ । हि॒र॒ण्ययः᳚ ।
नकिः᳚ । हि । दान᳚म् । प॒रि॒॑मर्धि᳚षत् । त्वे इति᳚ । यत्॑य᳚त् । यामि᳚ । तत् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं अश्वस्य पौरः पूरयिता भवसि । तथा गवां पुरुकृत् बहुकर्तासि । हे देव हिरण्ययः हिरण्मयशरीरस्त्वं उत्सः उत्ससदृशोसि । हे इन्द्र त्वे त्वयि वर्तमानं दानमस्मद्विषयं देयं धनं वा नकिर्हि परिमर्धिषत् नकश्चिदपि हिनस्ति अतो यद्यद्यामि याचे तदाभराहर मह्यम् ॥ ६ ॥ यद्यग्निष्टोमेबृहत्साम तदानीं निष्केवल्ये प्रगाथोनुरूपः । सूत्रितञ्च-त्वंह्येहिचेरवइति प्रगाथाएते भवन्तीति । महाव्रते निष्केवल्ये उत्तरपक्षेयं- प्रगाथः तथैव पंचमारण्यकेसूत्रितम्-त्वामिद्धिहवामहे त्वंह्येहिचेरवइति बृहत्स्तोत्रियानुरूपौ प्रगाथाविति ।

8.61.7
त्वं ह्येहि॒ चेर᳚वे वि॒दा भगं॒ वसु᳚त्तये ।
उद्वा᳚वृषस्व मघव॒न्गवि᳚ष्टय॒ उदि॒न्द्राश्व᳚मिष्टये ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । आ । इ॒हि॒ । चेर᳚वे । वि॒दाः । भग᳚म् । वसु᳚त्तये ।
उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒॑व॒न् । गो॑इ᳚ष्टये । उत् । इ॒न्द्र॒ । अश्व᳚म्॑इष्टये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वंहि त्वंखलु चेरवे सामर्थ्याद्दातेति गम्यते अतएह्यागच्छ आगत्यचास्मभ्यं भगं भजनीयं धनं विदाः लभस्व दत्स्व । किमर्थं वसुत्तये अस्माकं वसुदानाय हे मघवन् गविष्टये गाइच्छते मह्यं उद्ववृषस्वोत्सिञ्चस्व गामितिशेषः । तथा हे इन्द्राश्वमिष्टयेश्वैषणवते मह्यं अश्वानुद्व- वृषस्वोत्सिञ्चस्व देहि ॥ ७ ॥

8.61.8
त्वं पु॒रू स॒हस्रा᳚णि श॒तानि᳚ च यू॒था दा॒नाय᳚ मंहसे ।
आ पु᳚रंद॒रं च᳚कृम॒ विप्र᳚वचस॒ इन्द्रं॒ गाय॒न्तो॑व᳚से ॥
▶ पदपाठः (Word-by-word)
त्वम् । पु॒रु । स॒हस्रा᳚णि । श॒तानि᳚ । च॒ । यू॒था । दा॒नाय᳚ । मं॒ह॒से॒ ।
आ । पु॒र॒म्॑द॒रम् । च॒कृ॒म॒ । विप्र᳚॑वचसः । इन्द्र᳚म् । गाय᳚न्तः । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं पुरु पुरुणि बहूनि सहस्राणि शतानिच यूथा गवादियूथानि दानाय यजमानविषयाय मंहसे अनुमन्यसे । यद्वा दानाय दात्रे यजमानाय मंहसे प्रयच्छसि मंहतिर्दानकर्मा । अथपरोक्षेण ब्रवीति-पुरन्दरं शत्रुपुराणां दारयितारमिन्द्रं अवसे रक्षणाय प्रीतयेवा गायन्तः स्तुवन्तो विप्रवचसः विविधप्रकृष्टवचनावयं आ आगन्तारमभिमुखंवा चकृम कुर्मः ॥ ८ ॥

8.61.9
अ॒वि॒प्रो वा॒ यदवि᳚ध॒द्विप्रो᳚ वेन्द्र ते॒ वचः᳚ ।
स प्र म᳚मन्दत्त्वा॒या श᳚तक्रतो॒ प्राचा᳚मन्यो॒ अहं᳚सन ॥
▶ पदपाठः (Word-by-word)
अ॒वि॒प्रः । वा॒ । यत् । अवि᳚धत् । विप्रः᳚ । वा॒ । इ॒न्द्र॒ । ते॒ । वचः᳚ ।
सः । प्र । म॒म॒न्द॒त् । त्वा॒॑या । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । प्राचा᳚मन्यो॒ इति॒ प्राचा᳚॑मन्यो । अह᳚म्॑सन ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव वचः स्तोत्रं यद्यः अविप्रोवा अमेधावी अस्तुतिकुशलोवा अविधत् कुर्यात् त्वां स्तौतीत्यर्थः सस्तोता त्वाया त्वयीच्छया साधनेन प्रममन्दत् प्रकर्षेण मोदते । हे शतक्रतो बहुकर्मन् हे प्राचामन्यो प्राचीनक्रोध अप्रतिहतक्रोधेत्यर्थः नहीन्द्रक्रोधं प्रतिहन्ति कश्चित् हे अहंसन संग्रामे अहमित्यात्मनोमहत्त्वं प्रकाशयन् यः शत्रुं संभजते सतथोक्तस्तादृशेन्द्र ॥ ९ ॥

8.61.10
उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚ पुरंद॒रो यदि᳚ मे शृ॒णव॒द्धव᳚म् ।
व॒सू॒यवो॒ वसु᳚पतिं श॒तक्र᳚तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
उ॒ग्र॑बा᳚हुः । म्र॒क्ष॒॑कृत्वा᳚ । पु॒र॒म्॑द॒रः । यदि᳚ । मे॒ । शृ॒णव᳚त् । हव᳚म् ।
व॒सु॒॑यवः᳚ । वसु᳚॑पतिम् । श॒त॑क्र᳚तुम् । स्तोमैः᳚ । इन्द्र᳚म् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्रबाहुः उद्रूर्णभुजो म्रक्षकृत्वा वधकर्ता शत्रूणां पुरन्दरः पुराणां दारयितेन्द्रः यदि मे हवं शृणवत् शृणुयात् तर्हि वसूयवो वसुकामावयं वसुपतिं बहुधनस्वामिनं शतक्रतुं अपरिमितप्रज्ञमिन्द्रं स्तोमैः स्तोत्रैः हवामहे आह्वयामः ॥ १० ॥

8.61.11
न पा॒पासो᳚ मनामहे॒ नारा᳚यासो॒ न जळ्ह᳚वः ।
यदिन्न्विन्द्रं॒ वृष᳚णं॒ सचा᳚ सु॒ते सखा᳚यं कृ॒णवा᳚महै ॥
▶ पदपाठः (Word-by-word)
न । पा॒पासः᳚ । म॒ना॒म॒हे॒ । न । अरा᳚यासः । न । जळ्ह᳚वः ।
यत् । इत् । नु । इन्द्र᳚म् । वृष᳚णम् । सचा᳚ । सु॒ते । सखा᳚यम् । कृ॒णवा᳚महै ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमिन्द्रं पापासः पापाः अकृतपुण्याः ब्रह्मचर्यव्रतादिरहिताः न मनामहे न मन्यामहे तथा अरायासोऽराया अधनावा अहविष्कावा न मनामहे न जल्हवः अज्वलनाः अनग्नयोन मनामहे कृतव्रतनियमादिपुण्याः दानवन्तोग्निसहितास्तंस्तुमइति ऋषिरात्मानमाह । यदित् यस्मादेव कारणात् नु इदानीं वृषणं वर्षकमिन्द्रं सुते सोमेभिषुते सचा सहिताः सखायं कृणवामहै कुर्मः तस्मात्पापादिरहिताः मनामहे पापादिविशिष्टानामिन्द्रसाहा- य्यकरणासंभवात् । अत्र नपापामन्यामहइत्यादिनिरुक्तम् ॥ ११ ॥

8.61.12
उ॒ग्रं यु᳚युज्म॒ पृत᳚नासु सास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् ।
वेदा᳚ भृ॒मं चि॒त्सनि᳚ता र॒थीत᳚मो वा॒जिनं॒ यमिदू॒ नश᳚त् ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत᳚नासु । स॒स॒हिम् । ऋ॒ण॑का᳚तिम् । अदा᳚भ्यम् ।
वेद᳚ । भृ॒मम् । चि॒त् । सनि᳚ता । र॒थि॑त᳚मः । वा॒जिन᳚म् । यम् । इत् । ऊं॒ इति᳚ । नश᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्रमुद्रूर्णबलमिन्द्रं युयुज्म योजयामः । कीदृशमिन्द्रं पृतनासु संग्रामेषु सासहिं शत्रूणामभिभवितारं ऋणकातिं ऋणभूतस्तुतिं यस्मै स्तुतिऋणवद- वश्यंक्रियते तं तादृशं अथवा ऋणवदवश्यफलप्रदस्तुतिकं अदाभ्यं केनाप्यहिंस्यम् । यइन्द्रो भृमंचित् बहुष्वश्वेषु भ्रमणशीलमेव वाजिनं बलवन्तमश्वं रथीतमः रथस्वामी देवः वेद वेत्ति गृह्णाति तद्वत् सनितेन्द्रो वाजिनं हविष्मन्तं यमित् यमेव जनं बहूनां यजमानानां मध्ये नशत् व्याप्नोति तमिन्द्र- मिति ते वयमितिवा योज्यम् । वयं युयुज्मेति पक्षे व्यत्ययेन बहुवचनम् ॥ १२ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकस्य यतइन्द्रेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितञ्च । यतइन्द्रभयामहे यथागौरोअपाकृतमिति । दुःस्वप्नदर्शनेप्येतदादिसूक्तशेषोजप्यः सूत्रितं च-यतइन्द्रभयामहइतिच सूक्तशेषम् ।

8.61.13
यत᳚ इन्द्र॒ भया᳚महे॒ ततो᳚ नो॒ अभ᳚यं कृधि ।
मघ᳚वञ्छ॒ग्धि तव॒ तन्न᳚ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो᳚ जहि ॥
▶ पदपाठः (Word-by-word)
यतः᳚ । इ॒न्द्र॒ । भया᳚महे । ततः᳚ । नः॒ । अभ᳚यम् । कृ॒धि॒ ।
मघ᳚॑वन् । श॒ग्धि । तव᳚ । तम् । नः॒ । ऊ॒ति॑भिः᳚ । वि । द्विषः᳚ । वि । मृधः᳚ । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यतोहिंसकात् भयामहे वयं ततोनोस्मभ्यमभयंकृधि कुरु । हे मघवन् शग्धि शक्तोभवसि नोस्मभ्यमभयं कर्तुं तव तत्तैरूतिभीरक्षणैरक्षकैः पुरुषैः । किञ्च विजहि द्विषोस्मद्द्वेष्टॄन् विजहि मृधोस्मद्धिंसकान् ॥ १३ ॥

8.61.14 समानपद
त्वं हि रा᳚धस्पते॒ राध᳚सो म॒हः क्षय॒स्यासि᳚ विध॒तः ।
तं त्वा᳚ व॒यं म᳚घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । रा॒धः॒॑प॒ते॒ । राध᳚सः । म॒हः । क्षय᳚स्य । असि᳚ । वि॒ध॒तः ।
तम् । त्वा॒ । व॒यम् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒त॑व᳚न्तः । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राधस्पते धनस्वामिन् त्वंखलु महो महतो राधसो धनस्य क्षयस्यच गृहस्य च वर्धयितासि खलु सामर्थ्यादेवं लभ्यते । कस्य राधसोगृहस्यच वर्धकइति । उच्यते-विधतः परिचरतो यजमानस्य । तं तादृशं त्वा त्वां वयं हे मघवन्निन्द्र गिर्वणोगीर्भिर्वननीय सुतावन्तोभिषुतसोमा हवामहे आह्वयाम ॥ १४ ॥

8.61.15
इन्द्र॒ः स्पळु॒त वृ᳚त्र॒हा प᳚र॒स्पा नो॒ वरे᳚ण्यः ।
स नो᳚ रक्षिषच्चर॒मं स म᳚ध्य॒मं स प॒श्चात्पा᳚तु नः पु॒रः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । स्पट् । उ॒त । वृ॒त्र॒॑हा । प॒रः॒॑पाः । नः॒ । वरे᳚ण्यः ।
सः । नः॒ । र॒क्षि॒ष॒त् । च॒र॒मम् । सः । म॒ध्य॒मम् । सः । प॒श्चात् । पा॒तु॒ । नः॒ । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः स्पट् सर्वस्य ज्ञाता स्पशतिर्ज्ञानकर्मा उतायं वृत्रहा वृत्रहन्ता परस्पाः परस्य पालयिता नोस्माकं वरेण्यः वरणीयः सइन्द्रोनोस्माकं पुत्रमितिशेषः रक्षिषत् रक्षतु चरमं पुत्रं तथा सरक्षिषत् । समध्यमं पुत्रं रक्षिषत् सनोस्मान्पश्चात्पातु रक्षतु नः पुरः पुरस्ता द्रक्षतु ॥ १५ ॥

8.61.16
त्वं नः᳚ प॒श्चाद᳚ध॒रादु᳚त्त॒रात्पु॒र इन्द्र॒ नि पा᳚हि वि॒श्वतः᳚ ।
आ॒रे अ॒स्मत्कृ᳚णुहि॒ दैव्यं᳚ भ॒यमा॒रे हे॒तीरदे᳚वीः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र᳚ । नि । पा॒हि॒ । वि॒श्वतः᳚ ।
आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य᳚म् । भ॒यम् । आ॒रे । हे॒तीः । अदे᳚वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्मान्पश्चात् पश्चाद्भागात् पुरः पूर्वभागादधरादधोभागादेतदुपरिभागस्योपलक्षणं उत्तरादुत्तरभागात् एतद्दक्षिणस्याप्युपलक्षणं किंबहुना विश्वतः सर्वस्मात्प्रदेशान्निपाहि । हे इन्द्र दैव्यं भयं अस्मदस्मत्तआरे दूरे कृणुहि कुरु । तथा अदेवीरासुराणि हेतीः आयुधानि आरे कृणुहि ॥ १६ ॥

8.61.17
अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व᳚ प॒रे च᳚ नः ।
विश्वा᳚ च नो जरि॒तॄन्त्स᳚त्पते॒ अहा॒ दिवा॒ नक्तं᳚ च रक्षिषः ॥
▶ पदपाठः (Word-by-word)
अ॒द्य॑अ᳚द्य । श्वः॑श्वः᳚ । इन्द्र᳚ । त्रास्व᳚ । प॒रे । च॒ । नः॒ ।
विश्वा᳚ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्॑प॒ते॒ । अहा᳚ । दिवा᳚ । नक्त᳚म् । च॒ । र॒क्षि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोस्मान् अद्याद्य यदद्यशब्दवाच्यमहरस्ति तत्र । सर्वत्र एवम् । श्वश्वः त्रास्व रक्ष । तथा परेच परस्मिंस्तृतीयेहनि च त्रास्व । हे सत्पते सतांपाल विश्वा सर्वाण्यप्यहाहानि सर्वेष्वष्वहःसु नोस्म्मान् जरितॄन् रक्षिषो रक्षसि । तथा दिवानक्तंच रक्षिषः रक्षसि रक्षवा ॥ १७ ॥

8.61.18
प्र॒भ॒ङ्गी शूरो᳚ म॒घवा᳚ तु॒वीम᳚घ॒ः सम्मि᳚श्लो वि॒र्या᳚य॒ कम् ।
उ॒भा ते᳚ बा॒हू वृष᳚णा शतक्रतो॒ नि या वज्रं᳚ मिमि॒क्षतु᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र॒॑भ॒ङ्गी । शूरः᳚ । म॒घ॑वा᳚ । तु॒वि॑म᳚घः । सम्॑मि᳚श्लः । वी॒र्या᳚य । कम् ।
उ॒भा । ते॒ । बा॒हू इति᳚ । वृष᳚णा । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । नि । या । वज्र᳚म् । मि॒मि॒क्षतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं मघवेन्द्रः प्रभंगी प्रभञ्चनशीलः शूरः तुवीमघः प्रभूतधनः संमिश्लः सम्यग्मिश्रयिता किमर्थं वीर्याय शत्रूणां वीर्यकरणाय कमितिपूरणः एवं महानुभावोभवति । अथ प्रत्यक्षवादः-हे इन्द्र ते उभा उभावपि बाहू वृषणा वर्षकौ कामानां हे शतक्रतो बहुप्रज्ञ या यौ वज्रमायुधं निमिमिक्षतुः परिगृह्णीतः ॥ १८ ॥

प्रोअस्माइति द्वादशर्चं तृतीयं सूक्तं काण्वस्य प्रगाथस्यार्षं पञ्चपदापंक्तिः सप्तम्याद्यास्तिस्रोबृहत्यः इन्द्रोदेवता । अत्रानुक्रमणिका-प्रोअस्मैद्वादश प्र- गाथः पाङ्क्तं सप्तम्याद्याश्च तिस्रोबृहत्यइति । विनियोगोलैंगिकः ।