अष्टमं मण्डलम् - सूक्तम् 60

20 ऋचः

ऋषिः: भर्गः प्रागाथः देवता: अग्निः छन्दः: बृहती

सूक्तम् 8.60 - सम्पूर्णम्

1 / 20
ऋक्: 8.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (20)
8.60.1
अग्न॒ आ या᳚ह्य॒ग्निभि॒र्होता᳚रं त्वा वृणीमहे ।
आ त्वाम᳚नक्तु॒ प्रय᳚ता ह॒विष्म᳚ती॒ यजि᳚ष्ठं ब॒र्हिरा॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । आ । या॒हि॒ । अ॒ग्नि॑भिः᳚ । होता᳚रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।
आ । त्वाम् । अ॒न॒क्तु॒ । प्र॑य᳚ता । ह॒विष्म᳚ती । यजि᳚ष्ठम् । ब॒र्हिः । आ॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अग्निभिर्यष्टव्यैः सहायाह्यागच्छ । तदर्थं होतारं देवानामाह्वातारं त्वा त्वां वृणीमहे त्वां आगतं प्रयताध्वर्युर्हस्ताभ्यां नियता हविष्मती घृतवती यजिष्ठं त्वां बर्हिः बर्हिष्यासदे आसद्य आसर्वतोनक्तु ॥ १ ॥

8.60.2
अच्छा॒ हि त्वा᳚ सहसः सूनो अङ्गिर॒ः स्रुच॒श्चर᳚न्त्यध्व॒रे ।
ऊ॒र्जो नपा᳚तं घृ॒तके᳚शमीमहे॒॑ग्निं य॒ज्ञेषु᳚ पू॒र्व्यम् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति᳚ । अ॒ङ्गि॒रः॒ । स्रुचः᳚ । चर᳚न्ति । अ॒ध्व॒रे ।
ऊ॒र्जः । नपा᳚तम् । घृ॒त॑के᳚शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु᳚ । पू॒र्व्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसःसूनो बलस्यपुत्र बलेन मथ्यमानत्वात् हे अंगिरः अंगिरसां मध्ये एक अथवांगतिर्गतिकर्मा सर्वत्र संगतस्त्वा त्वां अध्वरे यागे अच्छाभिप्राप्तुं स्रुचश्चरन्ति गच्छन्ति अत ऊर्जोन्नस्य नपातं न पातयितारं रक्षकं बलस्य नप्तारं वा घृतकेशं प्रदीप्तकेशस्थानीयज्वालं पूर्व्यं पुरातनं पूरकं वाग्निं य- ज्ञेषु अस्मदीयेषु ईमहे स्तौमि ॥ २ ॥

8.60.3 समानपद
अग्ने᳚ क॒विर्वे॒धा अ᳚सि॒ होता᳚ पावक॒ यक्ष्य᳚ः ।
म॒न्द्रो यजि᳚ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे᳚भिः शुक्र॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । क॒विः । वे॒धाः । अ॒सि॒ । होता᳚ । पा॒व॒क॒ । यक्ष्यः᳚ ।
म॒न्द्रः । यजि᳚ष्ठः । अ॒ध्व॒रेषु᳚ । ईड्यः᳚ । विप्रे᳚भिः । शु॒क्र॒ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने कविर्मेधावी त्वं वेधाः विधातासि फलानाम् । हे पावक होता देवानामाह्वाता होमनिष्पादकोवा यक्ष्योयष्टव्योसि । हे शुक्र दीप्त मन्द्रो मोद- नीयो यजिष्ठो यष्टृतमस्त्वं अध्वरेषु यज्ञेषु विप्रेभिर्मेधाविभिरृत्विग्भिर्मन्मभिर्मननीयैः स्तोत्रैरीड्यः स्तुत्योसि ॥ ३ ॥

8.60.4
अद्रो᳚घ॒मा व᳚होश॒तो य᳚विष्ठ्य दे॒वा{4} अ᳚जस्र वी॒तये᳚ ।
अ॒भि प्रयां᳚सि॒ सुधि॒ता व᳚सो गहि॒ मन्द᳚स्व धी॒तिभि᳚र्हि॒तः ॥
▶ पदपाठः (Word-by-word)
अद्रो᳚घम् । आ । व॒ह॒ । उ॒श॒तः । य॒वि॒ष्ठ्य॒ । दे॒वान् । अ॒ज॒स्र॒ । वी॒तये᳚ ।
अ॒भि । प्रयां᳚सि । सु॒॑धि॒ता । आ । व॒सो॒ इति᳚ । ग॒हि॒ । मन्द᳚स्व । धी॒ति॑भिः᳚ । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्रोघमद्रोग्धारं मां प्रति हे यविष्ठ्य युवतम अजस्र नित्य आवहानय । कान् उशतोस्मदर्थं कामयमानान् देवान् । किमर्थं वीतये हविर्भक्षणाय । हे वसो वासकाग्ने सुधिता सुनिहितानि प्रयांस्यन्नानि अभिगहे अभिगच्छ । आगत्यच धीतिभिः स्तुतिभिर्निहितो निहितःसन् मन्दस्व । यद्वा धीतिभिः मन्दस्वेति संबन्धः ॥ ४ ॥

8.60.5
त्वमित्स॒प्रथा᳚ अ॒स्यग्ने᳚ त्रातरृ॒तस्क॒विः ।
त्वां विप्रा᳚सः समिधान दीदिव॒ आ वि᳚वासन्ति वे॒धसः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । इत् । स॒॑प्रथाः᳚ । अ॒सि॒ । अग्ने᳚ । त्रा॒तः॒ । ऋ॒तः । क॒विः ।
त्वाम् । विप्रा᳚सः । स॒म्॑इ॒धा॒न॒ । दी॒दि॒॑वः॒ । आ । वि॒वा॒स॒न्ति॒ । वे॒धसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्रातः रक्षक ऋतः सत्यभूतः कविः क्रान्तप्रज्ञस्त्वमित् त्वमेव सप्रथाः सर्वतः पृथुरसि भवसि । हे समिधान समिध्यमान हे दीदिवः दीप्तत्वां विप्रासो विप्राः मेधाविनो वेधसो विधातारः स्तोतारो विवासन्ति परिचरन्ति ॥ ५ ॥

8.60.6
शोचा᳚ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व᳚ स्तो॒त्रे म॒हा{4} अ᳚सि ।
दे॒वानां॒ शर्म॒न्मम᳚ सन्तु सू॒रयः᳚ शत्रू॒षाहः᳚ स्व॒ग्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
शोच᳚ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः᳚ । रास्व᳚ । स्तो॒त्रे । म॒हान् । अ॒सि॒ ।
दे॒वाना᳚म् । शर्म᳚न् । मम᳚ । स॒न्तु॒ । सू॒रयः᳚ । श॒त्रु॒॑सहः᳚ । सु॒॑अ॒ग्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शोचिष्ठ अतिशयेन शोचयितरग्ने शोच दीप्यस्व । दीदिहि दीपयास्मान । विशे प्रजायै स्तोत्रे मयः सुखं रास्व देहि । त्वं महानसि त्वं देवानां संबन्धिनि शर्मन् शर्मणि सुखे मम सूरयः स्तोतारो मेधाविनोस्माकं पुत्रादयोवा सन्तु भवन्तु । शत्रूषाहः शत्रूणामभिभवितारः स्वग्नयः शोभना- ग्नयश्च सन्तु ॥ ६ ॥

8.60.7
यथा᳚ चिद्वृ॒द्धम᳚त॒समग्ने᳚ सं॒जूर्व᳚सि॒ क्षमि᳚ ।
ए॒वा द᳚ह मित्रमहो॒ यो अ᳚स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन᳚ति ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । चि॒त् । वृ॒द्धम् । अ॒त॒सम् । अग्ने᳚ । स॒म्॑जूर्व᳚सि । क्षमि᳚ ।
ए॒व । द॒ह॒ । मि॒त्र॒॑म॒हः॒ । यः । अ॒स्म॒॑ध्रुक् । दुः॒॑मन्मा᳚ । कः । च॒ । वेन᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने क्षमि क्षमायां वर्तमानं वृद्धमतसम् शुष्कं काष्ठं यथाचित् येन प्रकारेणैव संजूर्वसि जूर्वतिर्हिंसाकर्मा सम्यग्दहसीत्यर्थः एव एवं दह । हे मित्र- महः मित्राणामस्माकं पूजक तेजोवा । कं योअस्मध्रुक् अस्माकं द्रोग्धा कश्च कश्चिद्दुर्मन्मा दुर्मतिर्वेनति कामयतेस्मान् द्रोग्धुं वं दहेसि ॥ ७ ॥

8.60.8
मा नो॒ मर्ता᳚य रि॒पवे᳚ रक्ष॒स्विने॒ माघशं᳚साय रीरधः ।
अस्रे᳚धद्भिस्त॒रणि᳚भिर्यविष्ठ्य शि॒वेभि᳚ः पाहि पा॒युभि᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । मर्ता᳚य । रि॒पवे᳚ । र॒क्ष॒स्विने᳚ । मा । अ॒घ॑शं᳚साय । री॒र॒धः॒ ।
अस्रे᳚धत्॑भिः । त॒रणि᳚॑भिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः᳚ । पा॒हि॒ । पा॒यु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मान् मर्ताय मनुष्याय रिपवे शत्रवे हिंसित्रे रक्षस्विने बलवते मारीरधो वशमानय तथाघशंसाय पापशंसकाय मारीरधः । हे यविष्ठ्य युवतम अस्रेधद्भिः अहिंसकैस्तरणिभिस्तारकैः शिवेभिः सुखकरैः पायुभिः पालनैः नोस्मान्पाहि रक्ष ॥ ८ ॥

8.60.9
पा॒हि नो᳚ अग्न॒ एक᳚या पा॒ह्यु१॒᳚त द्वि॒तीय᳚या ।
पा॒हि गी॒र्भिस्ति॒सृभि᳚रूर्जां पते पा॒हि च᳚त॒सृभि᳚र्वसो ॥
▶ पदपाठः (Word-by-word)
पा॒हि । नः॒ । अ॒ग्ने॒ । एक᳚या । पा॒हि । उ॒त । द्वि॒तीय᳚या ।
पा॒हि । गीः॒॑भिः । ति॒सृ॑भिः᳚ । ऊ॒र्जा॒म् । प॒ते॒ । पा॒हि । च॒त॒सृ॑भिः᳚ । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोस्मानेकया ऋचा गिरा पाहि रक्ष । उतापिच द्वितीयया ऋचा पाहि पालय पाहि तिसृभिर्गीर्भिरूर्जामन्नानां बलानां वा पते स्वामिन् । तथा पाहि चतसृभिः गीर्भिः हे वसोवासकाग्ने ॥ ९ ॥

8.60.10
पा॒हि विश्व᳚स्माद्र॒क्षसो॒ अरा᳚व्ण॒ः प्र स्म॒ वाजे᳚षु नो॑व ।
त्वामिद्धि नेदि᳚ष्ठं दे॒वता᳚तय आ॒पिं नक्षा᳚महे वृ॒धे ॥
▶ पदपाठः (Word-by-word)
पा॒हि । विश्व᳚स्मात् । र॒क्षसः᳚ । अरा᳚व्णः । प्र । स्म॒ । वाजे᳚षु । नः॒ । अ॒व॒ ।
त्वाम् । इत् । हि । नेदि᳚ष्ठम् । दे॒व॑ता᳚तये । आ॒पिम् । नक्षा᳚महे । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वस्मात्सर्वस्माद्रक्षसः अराव्णोदातुः सकाशात्पाहि रक्षास्मान् वाजेषु संग्रमेषु नोस्मान्प्राब प्रकर्षेण रक्ष । स्मेति पूरणः । हियस्मान्नेदिष्ठ- मासन्नं आपिं बन्धुभूतं त्वामित् त्वामेव देवतातये यज्ञाय यज्ञसिध्यर्थं वृधे वर्धनाय नक्षामहे व्याप्नुमः । नक्षतिर्व्याप्तिकर्मा ॥ १० ॥

8.60.11 समानपद
आ नो᳚ अग्ने वयो॒वृधं᳚ र॒यिं पा᳚वक॒ शंस्य᳚म् ।
रास्वा᳚ च न उपमाते पुरु॒स्पृहं॒ सुनी᳚ती॒ स्वय᳚शस्तरम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒ग्ने॒ । व॒यः॒॑वृध᳚म् । र॒यिम् । पा॒व॒क॒ । शंस्य᳚म् ।
रास्व᳚ । च॒ । नः॒ । उ॒प॒॑मा॒ते॒ । पु॒रु॒॑स्पृह᳚म् । सु॑नी᳚ती । स्वय᳚शः॑तरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पावक शोधक वयोवृधमन्नस्य वर्धकं शंस्यं शंसनीयं रयिं धनं नोस्मभ्यमाहरेतिशेषः । आहृत्य च हे उपमाते उपास्मत्समीपे माति नो धनमित्युपमातिः । हे तादृशाग्ने नोस्मभ्यं सुनीती सुनीत्या शोभननयनेन पुरुस्पृहं बहुभिः स्पृहणीयं स्वयशस्तरं अत्यन्तं स्वभूतकीर्तिधनं रास्व च देहि ॥ ११ ॥

8.60.12
येन॒ वंसा᳚म॒ पृत᳚नासु॒ शर्ध᳚त॒स्तर᳚न्तो अ॒र्य आ॒दिशः᳚ ।
स त्वं नो᳚ वर्ध॒ प्रय᳚सा शचीवसो॒ जिन्वा॒ धियो᳚ वसु॒विदः᳚ ॥
▶ पदपाठः (Word-by-word)
येन᳚ । वंसा᳚म । पृत᳚नासु । शर्ध᳚तः । तर᳚न्तः । अ॒र्यः । आ॒॑दिशः᳚ ।
सः । त्वम् । नः॒ । व॒र्ध॒ । प्रय᳚सा । श॒ची॒व॒सो॒ इति᳚ शची॑वसो । जिन्व᳚ । धियः᳚ । व॒सु॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन धनेन पृतनासु संग्रामेषु शर्धतः वेगं कुर्वतः अर्योरीन् शत्रून् आदिशः आदेष्टॄन् शस्त्रप्रक्षेप्तॄन् तरन्तो वंसाम हिंसाम तद्धनं देहि । हे शचीवसो प्रज्ञया वासयितः कर्मधनवा स प्रसिद्धस्त्वंनोस्मान्वर्ध वर्धय प्रीणय प्रयसान्नेन । त्वं वा वर्धास्मदीयेन प्रयसा । हविषावसुविदो वसूनां लंभकानि धियः कर्माण्यस्मदीयानि जिन्व प्रीणय ॥ १२ ॥

8.60.13
शिशा᳚नो वृष॒भो य᳚था॒ग्निः शृङ्गे॒ दवि᳚ध्वत् ।
ति॒ग्मा अ᳚स्य॒ हन᳚वो॒ न प्र᳚ति॒धृषे᳚ सु॒जम्भ॒ः सह᳚सो य॒हुः ॥
▶ पदपाठः (Word-by-word)
शिशा᳚नः । वृ॒ष॒भः । य॒था॒ । अ॒ग्निः । शृङ्गे॒ इति᳚ । दवि᳚ध्वत् ।
ति॒ग्माः । अ॒स्य॒ । हन᳚वः । न । प्र॒ति॒॑धृषे᳚ । सु॒॑जम्भः᳚ । सह᳚सः । य॒हुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः शृंगे शिशानः तीक्ष्णीकुर्वन् वृषभोयथा दविध्वत् कंपयति शिरः एवं शृङ्गस्थानीया ज्वालाः शिशानस्तीक्ष्णीकुर्वन् दविध्वत् कम्पयति शिरः । अस्याग्नेर्हनवोन हनवइव हनुस्थानीयाज्वालाः तिग्माः तीक्ष्णा नप्रतिधृषे प्रतिधर्षितुमशक्याः । योग्निः सुजम्भः सुदंष्ट्रः सहसोयहुः सहस- स्पुत्रः अस्य हनवइत्यर्थः ॥ १३ ॥

8.60.14
न॒हि ते᳚ अग्ने वृषभ प्रति॒धृषे॒ जम्भा᳚सो॒ यद्वि॒तिष्ठ᳚से ।
स त्वं नो᳚ होत॒ः सुहु᳚तं ह॒विष्कृ᳚धि॒ वंस्वा᳚ नो॒ वार्या᳚ पु॒रु ॥
▶ पदपाठः (Word-by-word)
न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒॑धृषे᳚ । जम्भा᳚सः । यत् । वि॒॑तिष्ठ᳚से ।
सः । त्वम् । नः॒ । हो॒त॒रिति᳚ । सु॑हु᳚तम् । ह॒विः । कृ॒धि॒ । वंस्व᳚ । नः॒ । वार्या᳚ । पु॒रु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषभ वर्षक हे अग्ने ते तव जंभासो जंभा दन्तस्थानीयाज्वालाः नहि प्रतिधृषे प्रतिधर्षितुं न शक्याः यद्यस्माद्वितिष्ठसे विविधं गच्छसि प्रवर्धस- इत्यर्थः । हे होतर्होमनिष्पादक सत्वं हविरस्मद्दत्तं सुहुतं कृधि कुरु नोस्मभ्यं वार्या वरणीयानि पुरु बहूनि वंस्व देहि ॥ १४ ॥

8.60.15
शेषे॒ वने᳚षु मा॒त्रोः सं त्वा॒ मर्ता᳚स इन्धते ।
अत᳚न्द्रो ह॒व्या व᳚हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु᳚ राजसि ॥
▶ पदपाठः (Word-by-word)
शेषे᳚ । वने᳚षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता᳚सः । इ॒न्ध॒ते॒ ।
अत᳚न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒॑कृतः᳚ । आत् । इत् । दे॒वेषु᳚ । रा॒ज॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वनेषु वर्तमानयोर्मात्रोररण्योः शेषे स्वपिषि वर्तसे । त्वा त्वां तथाभूतं मर्तासोमनुष्याः अध्वर्य्वादयोमथनेनोत्पाद्य समिन्धते पश्चात्प्रवृद्धः त्वमतन्द्रोऽनलसः सन् हविष्कृतोयजमानस्य हव्या हवींषि वहसि देवान् प्रति । आदिदनन्तरमेव देवेषु मध्ये राजसि दीप्यसे ॥ १५ ॥

8.60.16
स॒प्त होता᳚र॒स्तमिदी᳚ळते॒ त्वाग्ने᳚ सु॒त्यज॒मह्र᳚यम् ।
भि॒नत्स्यद्रिं॒ तप᳚सा॒ वि शो॒चिषा॒ प्राग्ने᳚ तिष्ठ॒ जना{4}॒ अति᳚ ॥
▶ पदपाठः (Word-by-word)
स॒प्त । होता᳚रः । तम् । इत् । ई॒ळ॒ते॒ । त्वा॒ । अग्ने᳚ । सु॒॑त्यज᳚म् । अह्र᳚यम् ।
भि॒नत्सि । अद्रि᳚म् । तप᳚सा । वि । शो॒चिषा᳚ । प्र । अ॒ग्ने॒ । ति॒ष्ठ॒ । जना᳚न् । अति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तमित् तमेव त्वा त्वां सप्तहोतारो सप्तहोत्रकाः ईळते स्तुवन्ति । कीदृशंत्वां सुत्यजं सुत्यागं अभिमतप्रदमित्यर्थः अह्रयमक्षीणं प्रवृद्धम् । किञ्च अद्रिं मेघं तपसा तापकेन शोचिषा तेजसा तपसा शोचिषा चेति वा योज्यं विभिनत्सि । हे अग्ने जनानस्मानति अतीत्यप्रतिष्ठ प्रगच्छ हविरादाय देवान्प्रति अथवा अस्मद्विरोधिजनानतिक्रम्य प्रतिष्ठ ॥ १६ ॥

8.60.17
अ॒ग्निम᳚ग्निं वो॒ अध्रि᳚गुं हु॒वेम᳚ वृ॒क्तब᳚र्हिषः ।
अ॒ग्निं हि॒तप्र᳚यसः शश्व॒तीष्वा होता᳚रं चर्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम्॑अ᳚ग्निम् । वः॒ । अध्रि᳚॑गुम् । हु॒वेम᳚ । वृ॒क्त॑ब᳚र्हिषः ।
अ॒ग्निम् । हि॒त॑प्र᳚यसः । श॒श्व॒तीषु᳚ । आ । होता᳚रम् । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमग्निं वीप्सा आदरार्था अग्निमेव हे यजमानाः वोयुष्मदर्थं हुवेम आह्वयाम । अथवा हे देवा वो युष्मदर्थमितिवा व्याख्येयम् । कीदृशावयं वृक्तबर्हिषः छिन्नदर्भाः कीदृशमग्निं अध्रिगुमधृतकर्माणं सर्वदा गृहेवर्तमानं अग्निं हितप्रयसः निहितहविष्कावयं आहुवेमेति शेषः । कीदृशमग्निं शश्वतीषु बह्वीषु भूमिषु वर्तमानं होतारं होमनिष्पादकम् । किमर्थं चर्षणीनां मनुष्याणामर्थाय । अग्नौ तृप्तेसति वृष्टिलाभात्प्राण्युपकारसिद्धं प्राण्यर्थत्वम् । अथवा म्नुष्याणां यजमानानां होतारं होमसाधकम् ॥ १७ ॥

8.60.18
केते᳚न॒ शर्म᳚न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं᳚ चिकि॒त्वना᳚ ।
इ॒ष॒ण्यया᳚ नः पुरु॒रूप॒मा भ᳚र॒ वाजं॒ नेदि᳚ष्ठमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
केते᳚न । शर्म᳚न् । स॒च॒ते॒ । सु॒॑सा॒मनि᳚ । अग्ने᳚ । तुभ्य᳚म् । चि॒कि॒त्वना᳚ ।
इ॒ष॒ण्यया᳚ । नः॒ । पु॒रु॒॑रूप᳚म् । आ । भ॒र॒ । वाज᳚म् । नेदि᳚ष्ठम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तुभ्यं चिकित्वना चिकितुषा जनेन होत्रादिना सह यजमानः केतेन प्रज्ञापकेन स्तोत्रेण यजतइतिशेषः । कुत्रेति तदुच्यते-सुषामणि शोभ- नरथन्तरादिसामोपेते शर्मन् शर्मणि सुखसाधने यज्ञे । अतः हे अग्ने इषण्यया इच्छया स्वीयया नोस्मभ्यं पुरुरूपं नानारूपं नेदिष्ठं अन्तिके सर्वदा वर्तमानं वाजमन्नं ऊतये रक्षणायाभराहर ॥ १८ ॥

8.60.19
अग्ने॒ जरि᳚तर्वि॒श्पति᳚स्तेपा॒नो दे᳚व र॒क्षसः᳚ ।
अप्रो᳚षिवान्गृ॒हप᳚तिर्म॒हा{4} अ᳚सि दि॒वस्पा॒युर्दु᳚रोण॒युः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । जरि᳚तः । वि॒श्पतिः᳚ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः᳚ ।
अप्रो᳚षि॑वान् । गृ॒ह॑प᳚तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दु॒रो॒ण॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देव जरितः स्तोतः स्तुत्येत्यर्थः विश्पतिः प्रजानां पालकः रक्षसोराक्षसानां तेपानः सन्तापकोसि अप्रोषिवान्यजमानगृहमत्यजन् । तदेवाह- गृहपतिर्यजमानगृहस्यपालकश्च त्वं महानतिशयेन पूज्योसि दिवो द्युलोकस्य पायुः पाता दुरोणयुर्यजमानगृहस्य मिश्रयिता सर्वदा वर्तमानइत्यर्थः तादृशस्त्वं महानसीत्यन्वयः ॥ १९ ॥

8.60.20
मा नो॒ रक्ष॒ आ वे᳚शीदाघृणीवसो॒ मा या॒तुर्या᳚तु॒माव᳚ताम् ।
प॒रो॒ग॒व्यू॒त्यनि᳚रा॒मप॒ क्षुध॒मग्ने॒ सेध᳚ रक्ष॒स्विनः᳚ ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । रक्षः᳚ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या᳚घृणि॑वसो । मा । या॒तुः । या॒तु॒॑माव᳚ताम् ।
प॒रः॒॑ग॒व्यू॒ति । अनि᳚राम् । अप᳚ । क्षुध᳚म् । अग्ने᳚ । सेध᳚ । र॒क्ष॒स्विनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आघृणीवसो दीप्तधनाग्ने नोस्मान्रक्षोराक्षसादिः । रक्षोरक्षितव्यमस्मादितियास्कः । मा आवेशीत् सर्वतो न प्रविशतु । तथा यातुमावतां यातुर्या- तना पीडा तद्वतां यातुधानानां यातुः पीडामावेशीत् । हे अग्ने अनिरां इरान्नं अन्नाभावं दारिद्मं क्षुधं क्षपयितारं रक्षस्विनो बलवन्ति रक्षांसिच परोगव्यूति क्रोशद्वयाद्देशात्परस्तात् एतदुपलक्षणं अत्यन्तं दूरदेशे अपसेध परिहर अनिराक्षुत् बाह्यानि रक्षांसिच नपीडयन्त्विति ॥ २० ॥

उभयंशृणवदित्यष्टादशर्चं द्वितीयं सूक्तं प्रागाथस्य भर्गस्यार्षम् । अत्रानुक्रमणिका-उभयंद्मूनेति । पूर्वसूक्ते प्रागाथंत्वित्युक्तत्वादिदमपि प्रागाथम् । अत्रायुजोबृहत्यः युजःसतोबृहत्यः अनुक्तत्वादिन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तं सप्तम्यष्टमीवर्जं तथैवपञ्चमारण्यके सूत्रितं शौनकेन-उभयंशृणवच्चनइति सप्तमींचाष्टमीं चोद्धरतीति । चातुर्विंशिकेहनि निष्केवल्ये उभयमिति बृहत्सामप्रगाथः । तथाचसूत्रितम्- उभयंशृणवच्चनइति । चातुर्विंशिकेहनि माध्यन्दिनेसवनेच्छावाकस्यायमेव स्तोत्रियःप्रगाथः । तथाचसूत्रितं-उभयंशृणवच्चनआवृषस्वपुरूवसोइति । एवमन्यत्रापि यस्मिन्नहनि पृष्ठस्तोत्रे बृहत्सामक्रियते तस्मिन्नहनि निष्केवल्येयंप्रगाथः ।