अष्टमं मण्डलम् - सूक्तम् 74

15 ऋचः

ऋषिः: गोपवन आत्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 8.74 - सम्पूर्णम्

1 / 15
ऋक्: 8.74.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
8.74.1
वि॒शोवि᳚शो वो॒ अति᳚थिं वाज॒यन्त᳚ः पुरुप्रि॒यम् ।
अ॒ग्निं वो॒ दुर्यं॒ वचः᳚ स्तु॒षे शू॒षस्य॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
वि॒शः॑वि᳚शः । वः॒ । अति᳚थिम् । वा॒ज॒॑यन्तः᳚ । पु॒रु॒॑प्रि॒यम् ।
अ॒ग्निम् । वः॒ । दुर्य᳚म् । वचः᳚ । स्तु॒षे । शू॒षस्य᳚ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अन्ये ऋत्विजो यजमानाश्च वो यूयं वाजयन्तोन्नमिच्छन्तो विशोविशः सर्वस्याः प्रजायाः अतिथिं पूज्यं पुरुप्रियं बहुप्रियमग्निं स्तुत्या परि- चरतेतिशेषः । अहंच वोयुष्मदर्थं दुर्यं गुहाहितं वचः स्तुषे शूषस्य सुखस्य लाभाय । कैः साधनैः मनमभिर्मननीयैः स्तोत्रैः ॥ १ ॥

8.74.2
यं जना᳚सो ह॒विष्म᳚न्तो मि॒त्रं न स॒र्पिरा᳚सुतिम् ।
प्र॒शंस᳚न्ति॒ प्रश᳚स्तिभिः ॥
▶ पदपाठः (Word-by-word)
यम् । जना᳚सः । ह॒विष्म᳚न्तः । मि॒त्रम् । न । स॒र्पिः॑आ᳚सुतिम् ।
प्र॒॑शंस᳚न्ति । प्रश᳚स्ति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निं जनासो जनायजमाना हविष्मन्तः सन्तो मित्रंन मित्रमिव आदित्यमिव सखायमिव वा सर्पिरांसुतिं सर्पिरासूयते हूयते यस्मिन् तादृशं प्रशंसन्ति स्तुवन्ति । प्रशस्तिभिः स्तुतिभिः स्तुवइतिशेषः ॥ २ ॥

8.74.3
पन्यां᳚सं जा॒तवे᳚दसं॒ यो दे॒वता॒त्युद्य᳚ता ।
ह॒व्यान्यैर᳚यद्दि॒वि ॥
▶ पदपाठः (Word-by-word)
पन्यां᳚सम् । जा॒त॑वे᳚दसम् । यः । दे॒व॑ता᳚ति । उत्॑य᳚ता ।
ह॒व्यानि᳚ । ऐर᳚यत् । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

पन्यांसं अतिशयेनस्तोतारं साधुकृतमिति यजमानं स्तुवन्तं जातवेदसं जातधनं जातविद्यं वा स्तुवइतिशेषः । योग्निर्देवताति देवतातौ यज्ञे उद्यता उद्यतानि हव्यानि हवींषि दिव्यैरयत् प्रेरयति दिवि देवेभ्यः ॥ ३ ॥

8.74.4 समानपद
आग᳚न्म वृत्र॒हन्त᳚मं॒ ज्येष्ठ᳚म॒ग्निमान᳚वम् ।
यस्य᳚ श्रु॒तर्वा᳚ बृ॒हन्ना॒र्क्षो अनी᳚क॒ एध᳚ते ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्॑त᳚मम् । ज्येष्ठ᳚म् । अ॒ग्निम् । आन᳚वम् ।
यस्य᳚ । श्रु॒तर्वा᳚ । बृ॒हन् । आ॒र्क्षः । अनी᳚के । एध᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहन्तमं पापानामतिशयेन हन्तारं ज्येष्ठं प्रशस्यं मानवं मनुष्यसंबन्धिनं तेषां हितकारिणमग्निमागन्म आगतावयम् । पूजार्थं बहुवचनम् । यस्याग्ने- रनीके ज्वालासंघे बृहन्महान् आर्क्षऋक्षपुत्रः श्रुतर्वानामराजा एधते वर्धते कर्मकरोतीत्यर्थः । तमग्निमागन्म इतिसमन्वयः । एवं श्रुतर्वाणं भिक्षयागतो गोपवनोग्निं स्तौति ॥ ४ ॥

8.74.5
अ॒मृतं᳚ जा॒तवे᳚दसं ति॒रस्तमां᳚सि दर्श॒तम् ।
घृ॒ताह᳚वन॒मीड्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒मृत᳚म् । जा॒त॑वे᳚दसम् । ति॒रः । तमां᳚सि । द॒र्श॒तम् ।
घृ॒त॑आ᳚हवनम् । ईड्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सएवागत्य स्तौति-अमृतं अमरणं जातवेदसं जाततेजआद्युपलक्षणंधनं तमांसि तिरोदर्शतं दर्शयन्तमित्यर्थः घृताहवनं घृतमाहूयते यत्र तं ईड्यं स्तुत्यं ईदृशमागन्मेतिसंबन्धः ॥ ५ ॥

8.74.6
स॒बाधो॒ यं जना᳚ इ॒मे॒३॒᳚॑ग्निं ह॒व्येभि॒रीळ᳚ते ।
जुह्वा᳚नासो य॒तस्रु᳚चः ॥
▶ पदपाठः (Word-by-word)
स॒॑बाधः᳚ । यम् । जनाः᳚ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः᳚ । ईळ᳚ते ।
जुह्वा᳚नासः । य॒त॑स्रु᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे जनाः सबाधो बाधसहिता अध्वर्य्वादयो यमग्निं हव्येभिर्हविर्भिरीळते स्तुवन्ति । कीदृशाजना जुह्वानासो यागं कुर्वाणां यतस्रुचः तदर्थं धृतस्रुग्दंडाः तमागन्मेति समन्वयः ॥ ६ ॥

8.74.7
इ॒यं ते॒ नव्य᳚सी म॒तिरग्ने॒ अधा᳚य्य॒स्मदा ।
मन्द्र॒ सुजा᳚त॒ सुक्र॒तो॑मू᳚र॒ दस्माति᳚थे ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । ते॒ । नव्य᳚सी । म॒तिः । अग्ने᳚ । अधा᳚यि । अ॒स्मत् । आ ।
मन्द्र᳚ । सु॑जा᳚त । सुक्र᳚तो॒ इति॒ सु॑क्र᳚तो । अमू᳚र । दस्म᳚ । अति᳚थे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने इयं इदानीं क्रियमाणा नव्यसी नवतरा मतिः स्तुतिस्ते तव स्वभूताअस्मदस्मासु अधायि धृताभूत् वयं तव स्तुतिं कुर्मइत्यर्थः । हे मन्द्र मोदमान सुजात शोभनजनन सुक्रतो शोभनकर्मन् अमूरामूढ दस्म दर्शनीयातिथे अतिथिवत्पूज्येत्यग्नेर्विशेषणानि ॥ ७ ॥

8.74.8
सा ते᳚ अग्ने॒ शंत᳚मा॒ चनि᳚ष्ठा भवतु प्रि॒या ।
तया᳚ वर्धस्व॒ सुष्टु᳚तः ॥
▶ पदपाठः (Word-by-word)
सा । ते॒ । अ॒ग्ने॒ । शम्॑त᳚मा । चनि᳚ष्ठा । भ॒व॒तु॒ । प्रि॒या ।
तया᳚ । व॒र्ध॒स्व॒ । सु॑स्तु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सास्माभिः क्रियमाणास्तुतिः शन्तमा अत्यन्तं सुखकरा चनिष्ठा अतिशयेनान्नवती ते तव प्रिया भवतु । तया स्तुत्या सुष्टुतः सुष्ठु स्तुतः सन्वर्धस्व प्रवृद्धोभव ॥ ८ ॥

8.74.9
सा द्यु॒म्नैर्द्यु॒म्निनी᳚ बृ॒हदुपो᳚प॒ श्रव᳚सि॒ श्रवः᳚ ।
दधी᳚त वृत्र॒तूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
सा । द्यु॒म्नैः । द्यु॒म्निनी᳚ । बृ॒हत् । उप᳚॑उप । श्रव᳚सि । श्रवः᳚ ।
दधी᳚त । वृ॒त्र॒॑तूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सास्मभिः क्रियमाणा स्तुतिः द्युम्रैः द्योतमानैरन्नैरस्मभ्यं प्रदेयैर्द्युम्रिनी अन्नवती श्रवसि पूर्वस्मिन् विद्यमानेन्ने पुनरपिबृहन्महत् श्रवोन्नं उपो- पदधीत पुनरुपरि धारयतु । कुत्रेति उच्यते-वृत्रतूर्ये संग्रामे शत्रोःसंबन्धिनमिति यावत् ॥ ९ ॥

8.74.10
अश्व॒मिद्गां र᳚थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प᳚तिम् ।
यस्य॒ श्रवां᳚सि॒ तूर्व᳚थ॒ पन्य᳚म्पन्यं च कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
अश्व᳚म् । इत् । गाम् । र॒थ॒॑प्राम् । त्वे॒षम् । इन्द्र᳚म् । न । सत्॑प᳚तिम् ।
यस्य᳚ । श्रवां᳚सि । तूर्व᳚थ । पन्य᳚म्॑पन्यम् । च॒ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गां गन्तारमश्वमित् इच्छब्दइवार्थे अश्वमिव तं यथा स्तुवन्ते तथेत्यर्थः रथप्रां रथानामस्मदीयानां पूरयितारं धनैः तथा त्वेषं दीप्तं अग्निं सत्पतिं सतां पालकं इन्द्रंन इन्द्रमिव इमं कृष्टयो मनष्याः परिचरतेतिशेषः । यस्याग्नेर्बलेन श्रवांसि अन्नानि शत्रुसंबन्धीनि तूर्वथ । तथा पन्यंपन्यंच यद्यस्स्तुत्यं धनमस्ति तदपि तूर्वथ हिंस्थ ॥ १० ॥

8.74.11
यं त्वा᳚ गो॒पव᳚नो गि॒रा चनि᳚ष्ठदग्ने अङ्गिरः ।
स पा᳚वक श्रुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । गो॒पव᳚नः । गि॒रा । चनि᳚ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।
सः । पा॒व॒क॒ । श्रु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यं त्वा त्वां गोपवनऋषिर्गिरा स्तुत्या चनिष्ठदतिशयेनान्नप्रदातारमकरोत् सतादृशाग्ने अङ्गिरः सर्वत्रगन्तः अङ्गिरसांमध्ये एकवा पावक शोधक हवं गोपवनस्य श्रुधि शृणु ॥ ११ ॥

8.74.12
यं त्वा॒ जना᳚स॒ ईळ᳚ते स॒बाधो॒ वाज᳚सातये ।
स बो᳚धि वृत्र॒तूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । जना᳚सः । ईळ᳚ते । स॒॑बाधः᳚ । वाज᳚॑सातये ।
सः । बो॒धि॒ । वृ॒त्र॒॑तूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यं त्वा त्वां जनासो जनाः स्तोतारो वः वाजसातये अन्नस्यलाभाय सबाधः निर्बन्धरूपबाधोपेताः सन्त ईळते स्तुवन्ति सत्वं वृत्रतूर्ये वैरिनाशानाय पापक्षयायवा बोधि बुध्यस्व । अथवा वृत्रस्य तूर्ये संग्रामे बोधि ॥ १२ ॥

8.74.13 समानपद
अ॒हं हु᳚वा॒न आ॒र्क्षे श्रु॒तर्व᳚णि मद॒च्युति᳚ ।
शर्धां᳚सीव स्तुका॒विनां᳚ मृ॒क्षा शी॒र्षा च᳚तु॒र्णाम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व᳚णि । म॒द॒॑च्युति᳚ ।
शर्धां᳚सि॑इव । स्तु॒का॒॑विना᳚म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमृषिर्हुवानो हूयमानो यज्ञदिदृक्षार्थं श्रुतर्वणि एतन्नाम्रि राजनि मदच्युति शत्रूणां मदस्यच्यावयितरि स्तुकाविनां स्तुकाविनऊर्णायवः स्तुकः केशसंघातः तद्वतां शर्धांसीव उच्छ्रितानि लोमानीव तानि यथा स्पृशन्ति तद्वत् वृक्षा वृक्षाणि वृक्ष्त्यन्तइति वृक्षाः केशाः तद्वन्ति वृक्षाणि शीर्षाणि शिरांसि । केषां चतुर्णां श्रुतर्वणा प्रदत्तानामश्वानां शिरांसि उन्मृजामीति शेषः । अथवा वृक्षा वृक्षेण व्र श्चनसाधनत्वाद्वृक्षोहस्तस्तेनोन्मृजामि ॥ १३ ॥

8.74.14
मां च॒त्वार᳚ आ॒शव॒ः शवि᳚ष्ठस्य द्रवि॒त्नवः᳚ ।
सु॒रथा᳚सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
माम् । च॒त्वारः᳚ । आ॒शवः᳚ । शवि᳚ष्ठस्य । द्र॒वि॒त्नवः᳚ ।
सु॒॑रथा᳚सः । अ॒भि । प्रयः᳚ । वक्ष᳚न् । वयः᳚ । न । तुग्र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मां शविष्ठस्यातिशयेनान्नवतः श्रुतर्वणोराज्ञः संबन्धिनश्चत्वार आशवोश्वा द्रवित्नवो गमनशीलाः सुरथासः शोभनरथा अश्वाः प्रयोन्नं शत्रूणां संबन्धिनं प्रति अभिवक्षत् अभिवहन्ति वयोन तुग्र्यं भुज्युं यथाश्विभ्यां प्रेरिताश्चतस्रो नावः स्वगृहं प्रापयन् तद्वदिति ॥ १४ ॥

8.74.15 समानपद
स॒त्यमित्त्वा᳚ महेनदि॒ परु॒ष्ण्यव᳚ देदिशम् ।
नेमा᳚पो अश्व॒दात᳚र॒ः शवि᳚ष्ठादस्ति॒ मर्त्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । इत् । त्वा॒ । म॒हे॒॑न॒दि॒ । परु᳚ष्णि । अव᳚ । दे॒दि॒श॒म् ।
न । ई॒म् । आ॒पः॒ । अ॒श्व॒॑दात᳚रः । शवि᳚ष्ठात् । अ॒स्ति॒ । मर्त्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महेनदि परुष्णि एतन्नामिके त्वा सत्यमित् सत्यमेव अवदेदिशं आदिशामि वदामि । नद्याकारेण संबोध्यापः संबोधयति-हे आपः ईमस्माच्छ- विष्ठाद्बलवत्तमाच्छ्रुतर्वणोधिकः कश्चिदश्वदातरः अश्वानांदातृतमो मर्त्योनास्ति परुष्ण्यास्तीरे राज्ञोश्वमेधप्रतिग्रहात्तां संबोध्य ब्रूते ॥ १५ ॥

युक्ष्वाहीति षोडशर्चं पचमं सूक्तं आंगिरसस्य विरूपस्यार्षं गायत्रमाग्नेयं तथाचानुक्रमणिका-युक्ष्वाहि षोडश विरूपइति । दशरात्रे तृतीये- हनीदंसूक्तं आज्यशस्त्रं सूत्रितंच-तृतीये युक्ष्वाहीत्याज्यमिति । प्रातरनुवाकेप्याग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रेचेदंसूक्तम् । सूत्रितंच-युक्ष्वा- हिप्रेष्ठंवइति ।