श्रवणम्

8.74.1
वि॒शोवि᳚शो वो॒ अति᳚थिं वाज॒यन्त᳚ः पुरुप्रि॒यम् ।
अ॒ग्निं वो॒ दुर्यं॒ वचः᳚ स्तु॒षे शू॒षस्य॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
वि॒शः॑वि᳚शः । वः॒ । अति᳚थिम् । वा॒ज॒॑यन्तः᳚ । पु॒रु॒॑प्रि॒यम् ।
अ॒ग्निम् । वः॒ । दुर्य᳚म् । वचः᳚ । स्तु॒षे । शू॒षस्य᳚ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अन्ये ऋत्विजो यजमानाश्च वो यूयं वाजयन्तोन्नमिच्छन्तो विशोविशः सर्वस्याः प्रजायाः अतिथिं पूज्यं पुरुप्रियं बहुप्रियमग्निं स्तुत्या परि- चरतेतिशेषः । अहंच वोयुष्मदर्थं दुर्यं गुहाहितं वचः स्तुषे शूषस्य सुखस्य लाभाय । कैः साधनैः मनमभिर्मननीयैः स्तोत्रैः ॥ १ ॥