श्रवणम्

8.74.15 समानपद
स॒त्यमित्त्वा᳚ महेनदि॒ परु॒ष्ण्यव᳚ देदिशम् ।
नेमा᳚पो अश्व॒दात᳚र॒ः शवि᳚ष्ठादस्ति॒ मर्त्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । इत् । त्वा॒ । म॒हे॒॑न॒दि॒ । परु᳚ष्णि । अव᳚ । दे॒दि॒श॒म् ।
न । ई॒म् । आ॒पः॒ । अ॒श्व॒॑दात᳚रः । शवि᳚ष्ठात् । अ॒स्ति॒ । मर्त्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महेनदि परुष्णि एतन्नामिके त्वा सत्यमित् सत्यमेव अवदेदिशं आदिशामि वदामि । नद्याकारेण संबोध्यापः संबोधयति-हे आपः ईमस्माच्छ- विष्ठाद्बलवत्तमाच्छ्रुतर्वणोधिकः कश्चिदश्वदातरः अश्वानांदातृतमो मर्त्योनास्ति परुष्ण्यास्तीरे राज्ञोश्वमेधप्रतिग्रहात्तां संबोध्य ब्रूते ॥ १५ ॥

युक्ष्वाहीति षोडशर्चं पचमं सूक्तं आंगिरसस्य विरूपस्यार्षं गायत्रमाग्नेयं तथाचानुक्रमणिका-युक्ष्वाहि षोडश विरूपइति । दशरात्रे तृतीये- हनीदंसूक्तं आज्यशस्त्रं सूत्रितंच-तृतीये युक्ष्वाहीत्याज्यमिति । प्रातरनुवाकेप्याग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रेचेदंसूक्तम् । सूत्रितंच-युक्ष्वा- हिप्रेष्ठंवइति ।