श्रवणम्

8.74.13 समानपद
अ॒हं हु᳚वा॒न आ॒र्क्षे श्रु॒तर्व᳚णि मद॒च्युति᳚ ।
शर्धां᳚सीव स्तुका॒विनां᳚ मृ॒क्षा शी॒र्षा च᳚तु॒र्णाम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व᳚णि । म॒द॒॑च्युति᳚ ।
शर्धां᳚सि॑इव । स्तु॒का॒॑विना᳚म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमृषिर्हुवानो हूयमानो यज्ञदिदृक्षार्थं श्रुतर्वणि एतन्नाम्रि राजनि मदच्युति शत्रूणां मदस्यच्यावयितरि स्तुकाविनां स्तुकाविनऊर्णायवः स्तुकः केशसंघातः तद्वतां शर्धांसीव उच्छ्रितानि लोमानीव तानि यथा स्पृशन्ति तद्वत् वृक्षा वृक्षाणि वृक्ष्त्यन्तइति वृक्षाः केशाः तद्वन्ति वृक्षाणि शीर्षाणि शिरांसि । केषां चतुर्णां श्रुतर्वणा प्रदत्तानामश्वानां शिरांसि उन्मृजामीति शेषः । अथवा वृक्षा वृक्षेण व्र श्चनसाधनत्वाद्वृक्षोहस्तस्तेनोन्मृजामि ॥ १३ ॥